मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय २२

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 22

राजाथ तमुवाचेदं निर्लक्ष्य गमनं कथम्

जैमिनिरुवाच

राजाथ तमुवाचेदं निर्लक्ष्य गमनं कथम् ॥

अयं पुष्परथोऽस्त्येव मनसो वेगवान्मुने

॥१॥

एनमारुह्य यास्यावः क्षणं तावत्प्रतीक्ष्यताम् ॥

यावदेताननुज्ञाप्य प्रासादे ह्यधिकारिणः

॥२॥

प्रदक्षिणीकृत्य विभुमायामि मुनिसत्तम ॥

नारदोऽपि वचः श्रुत्वा श्रद्दधानो नृपोक्तिषु

॥३॥

करेण धृत्वा राजानं महावेदीं प्रविश्य च ॥

सहितं रामभद्राभ्यां नत्वा कृष्णं मुहुर्मुहुः ॥

अनुज्ञां प्रार्थयामास ब्रह्मलोकगतिं प्रति

॥४॥

इन्द्रद्युम्नोऽपि वचसा मनसा वपुषा हरिम् ॥

प्रदक्षिणीकृत्य पुनर्नत्वा साष्टांगमुन्मनाः ॥

ब्रह्मलोकगतिं विप्रा याचते स्म कृतांजलिः

॥५॥

उभौ तौ दिव्ययानेन जग्मतुर्मुनिभूभृतौ ॥

प्रदक्षिणीकृत्य रविं व्योममण्डलमध्यगम् ॥

उपर्युपरि जग्माते व्यतीत्य ध्रुवमंडलम्

॥६॥

जनलोकगतैः सिद्धैः सत्वरावनतोन्मुखैः ॥

वीक्ष्यमाणौ मुदा युक्तौ संलपंतौ परस्परम्

॥७॥

भगवच्चरितं विप्रा मनोमलविशोधनम् ॥

जीवन्मुक्तो मुनिश्रेष्ठः सर्वलोकान्भ्रमन्नयम् ॥

यथानुपहतव्रज्यस्तथायं मर्त्यवास्यपि

॥८॥

भूपतिः प्रययौ शीघ्रं विष्णुभक्तिप्रसादतः ॥

ब्रह्मांडविषये नैतद्दुष्प्राप्यं वस्तु विद्यते

॥९॥

विष्णुभक्तेन यल्लभ्यमथवा मुक्तिमेति सः ॥

महर्लोकगतैः सिद्धैः सादराभ्यर्चितौ च तौ

॥१०॥

इन्द्रद्युम्नो न सस्मार पार्थिवं वासमात्मनः ॥

क्रमादूर्ध्वगतिर्गच्छन्पश्यन्सौख्यैकभाजनान्

॥११॥

निर्द्वंद्वानभिलाषोत्थ तत्क्षणानेकपौरुषान् ॥

केवलं भगवत्प्रीत्यै कर्मभूमौ चकार यत्

॥१२॥

प्रासादं चिंतयामास संपूर्णो वा न वा भवेत् ॥

मय्यागते ब्रह्मलोकं शत्रुभिर्वाभिभूयते

॥१३॥

श्लथादरा वा भूयासुः सेवका द्रव्यलोभतः ॥

गृहीतवेतनाः शिल्पिवृंदा मंदक्रियास्तथा ॥

न शीघ्रं घटयिष्यंति मयि ब्रह्मक्षयागते

॥१४॥

यावद्गमिष्ये धातारं गृहीत्वाहं चतुर्मुखम् ॥

तावन्न पुनरेव स्यात्प्रासादो मयि दूरगे

॥१५॥

इहायातास्तु ये पूर्वे न पुनस्ते क्षितिं गताः ॥

मन्वाना मम सामंता इत्थं वा दुष्टमानसाः ॥

राज्यं ममाहरिष्यंति द्विषतः किमु सांप्रतम्

॥१६॥

इत्थं सुविग्नमनसा चिंतयानं महीपतिम् ॥

अतीतानागतज्ञाननिधिर्मुनिरुवाच तम्

॥१७॥

किं चिंतयसि राजेंद्र त्वमेवं दीनमानसः ॥

यत्र चाभ्यागतावावां न चिंताविषयो ह्ययम्

॥१८॥

नाधयो व्याधयश्चात्र प्रभवंति कदाचन ॥

न जरा न च वा मृत्युः किमन्यदुःखहेतुकम्

॥१९॥

कृतार्थोऽसि महाभाग यन्मानुषवपुः स्वयम् ॥

ब्रह्मलोकमिहायातः प्रत्यक्षं दृष्टवान्हरिम्

॥२०॥

इहायाता न शोचंति हेये संसारकल्पके ॥

ब्रुवाणमित्थं भूपालस्तमुवाच मुनीश्वरम्

॥२१॥

शोचामि भगवन्राज्ञः स्वजनबन्धुषु ॥

समारब्धो भगवतः प्रासादो यो मयाधुना

॥२२॥

अत्रागतं मां ते ज्ञात्वा नानुतिष्ठंति सेवकाः ॥

आरब्धस्य प्रतिष्ठा हि कर्तव्या निश्चिता मुने

॥२३॥

तस्यांतरायं संभाव्य दुःखितं मे मनः प्रभो ॥

तस्य तद्वचं श्रुत्वा प्रहस्य मुनिरब्रवीत्

॥२४॥

प्रजापतिसमत्वं हि न तु सामान्यभूपतिः ॥

केनाप्यपकृतं नैव भूमौ पूर्वैरनुष्ठितम्

॥२५॥

किं पुनस्तव कृत्यं तु यः सृष्टिस्थितिहानिकृत् ॥

ब्रह्मलोकं गतस्याद्य प्रतापयशसा तव

॥२६॥

त्रैलोक्ये भ्रमतो नित्यं यथा सूर्यनिशाकरौ ॥

यस्य कार्येषु भगवान्सहायोऽसौ चतुर्मुखः

॥२७॥

तेषु किं राजशार्दूल विघ्नशंकापि जायते ॥

एष दूरेऽस्ति राजेंद्र प्रत्यक्षं यस्तव द्विषाम्

॥२८॥

सदोमध्य गतः शक्रः साक्षात्त्रिजगतीपतिः ॥

विशेषतो जगन्नाथप्रासादे कः पुमान्नृप

॥२९॥

निहंतुं मनसापीच्छेत्तत्र शंकास्तु मा तव ॥

तदग्रतः पश्य भूप चंद्रकोटिसमत्विषा

॥३०॥

परितो ह्लादजनकः सुधासागरकोटिवत् ॥

यश्चायं तेजसां राशिर्जानीहि ब्रह्मसद्मनः

॥३१॥

इत्थमालपतस्तौ तु ब्रह्मलोकांतिकं गतौ ॥

शुश्रुवाते सुदूरात्तौ ब्रह्मर्षीणां मुखोद्गतम्

॥३२॥

स्वाध्यायशब्दं सुपदं स्पष्टवर्णक्रमस्वरम् ॥

इतिहासपुराणानि च्छंदः कल्पानि गाथिकाः

॥३३॥

असंकीर्णोज्ज्वलपदं श्रूयते प्रविभागशः ॥

अत्रैतद्राजशार्दूल जानीहि ब्रह्मणः पुरम्

॥३४॥

सभा हि दृश्यते चैषा यत्र लोकपितामहः ॥

सार्द्धं ब्रह्मर्षिमुख्यैश्च सुखासीनश्चतुर्मुखः

॥३५॥

नाना चैतन्यशबलैर्जीवन्मुक्तैरुपासितः ॥

यत्रागतानि वर्त्तंते न संसाराब्धिसंकटे

॥३६॥

सदिति ब्रह्मणो नाम तस्यायं भुवनोत्तमः ॥

सत्यलोक इति ख्यातस्तदूर्ध्वं नास्ति किंचन

॥३८॥

अस्यैव किंचिदुपरि अधश्चांडकपालतः ॥

वैकुण्ठभुवनं राजन्मुक्ता यत्र वसंति वै

॥३८॥

यत्र योगीश्वरः साक्षाद्योगिचिंत्यो जनार्दनः ॥

चैतन्यवपुरास्ते वै सांद्रानंदात्मकः प्रभुः

॥३९॥

यं प्राप्य न निवर्त्तंते मृत्युसंसारवर्त्मनि ॥

यमुपास्ते सदा ब्रह्मा जीवन्मुक्तैः स्वमुक्तये

॥४०॥

कल्पितस्यायुषोन्तेऽसावेभिः सार्द्धं प्रपद्यते ॥

स एष स्रष्टा लोकानां मत्स्यकूर्मादिरूपधृक्

॥४१॥

रक्षिता रौद्ररूपेण संहर्त्ता लोकभावनः ॥

इन्द्रद्युम्नं वदन्नित्थं प्राप ब्रह्मनिकेतनम्

॥४२॥

क्षणेन च सभाद्वारि प्रकोष्ठे स न्यवर्तत ॥

यत्र तिष्ठन्ति दिक्पालाः शक्राद्याः परितस्तथा

॥४३॥

चिरकालं ध्यानपरास्तथा मन्वंतराधिपाः ॥

पृथग्जननिभा द्वाःस्थनिषिद्धांतः प्रवेशनाः

॥४४॥

इन्द्रद्युम्नेन सहितं नारदं प्रविलोक्य सः ॥

द्वारपालः सविनयं ननामानतकन्धरः

॥४५॥

चतुर्दशानां लोकानां भ्रमणे रसिक प्रभो ॥

त्वया विना शोभते नो स्वामिंस्तव पितुः सभा

॥४६॥

संत्येव मुनयः श्रेष्ठा ब्राह्मणा ब्रह्मविद्वराः ॥

गौतमाद्यास्तथाप्येषा न रम्या ब्रह्मणः सभा

॥४७॥

बहुतारा सुरजनी चंद्रेणेव प्रकाशते ॥

इति स्तुवन्ददौ तस्य प्रवेशं विनयान्वितः

॥४८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे द्वाविंशोऽध्यायः ॥ २२ ॥