मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय २१

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 21

वेदांतविज्ज्ञानशीलो द्विजो वाक्यं मुदा जगौ

जैमिनिरुवाच

इति ब्रुवाणं राजर्षिं कश्चिदृग्वेदपारगः ॥

वेदांतविज्ज्ञानशीलो द्विजो वाक्यं मुदा जगौ

॥१॥

अहो तवायं खलु भाग्यराशिर्येनाविरासीद्भुवि दारुमूर्तिः ॥

यस्यात्युपास्तिं श्रुतिराह मुक्तिप्रदामनात्मज्ञविमोहितानाम्

॥२॥

य एष प्लवते दारुः सिंधोः पारे ह्यपौरुषम् ॥

तमुपास्य दुराराध्यं मुक्तिं यांति सुदुर्लभाम्

॥३॥

ब्रह्मज्ञाननिधिः साक्षान्नारदः प्रत्युवाच यत् ॥

न हि वेदांतवचसोऽपरस्माज्ज्ञानमस्य वै

॥४॥

न हि प्रवृत्तिर्विष्णोस्तु विना वेदं प्रवर्तते ॥

परेषां स्वस्य वा सृष्टौ श्रुतिप्रामाण्यवान्प्रभुः

॥५॥

विना श्रुतिं प्रवर्तेच्चेत्कस्तत्प्रामाण्यमृच्छति ॥

तस्माच्छ्रुतिप्रसिद्धोऽयमवतारोऽत्र भूपते

॥६॥

वेदांतवेद्यं पुरुषं गीतं तं सामगीतिषु ॥

प्रतिमां न तु जानीहि निःश्रेयसकरं नृणाम्

॥७॥

दर्शनादेव नः शांतं सुदृढं तम उत्तमम् ॥

संत्येव श्रुतयः पूर्वमेतदर्चाप्रकाशिकाः

॥८॥

एतदर्चा प्रशस्ता वै सदर्थे विनियोजिता ॥

अहो भारतवर्षस्था मनुष्याः क्षीणकल्मषाः

॥९॥

अपवर्गप्रदो येषामाविरासीज्जनार्दनः ॥

तत्राप्ययं चोढ्रदेशः सर्वेषामुत्तमोत्तमः

॥१०॥

यत्रस्थाश्चर्मनेत्रेण पश्यंति ब्रह्मरूपिणम् ॥

श्रुतिस्मृतीनां गहनः पंथा कर्मभिराकुलः

॥११॥

येन याता भ्रमंतीह घटीयंत्रवदाकुलाः ॥

निर्व्यलीकपदप्राप्तिहेतुरेष स चिन्मयः

॥१२॥

श्रुत्यादिभिर्विनोपायैः परमानंदमुक्तिदः ॥

निरंतरगतायातदुःस्थितानां दुरात्मनाम्

॥१३॥

एष दारुवपुर्विष्णुः सुखदाता सुबांधवः ॥

श्रुतिस्मृत्युक्तनियमा वर्तंते नेह पार्थिव

॥१४॥

यथा तथा दृष्टिपथमाचांडालाद्विमुक्तिदः ॥

अभक्तश्चेदमुं पश्येद्गतानुगतिको नरः

॥१५॥

अश्वमेधसहस्राणां फलं ह्यविकलं लभेत् ॥

भजेच्चेन्नियमस्थो हि भक्तिमान्दृढमानसः

॥१६॥

असंशयं स सायुज्यं ब्रह्मणा लभते नरः ॥

क्व दुःखायासबहुलमनायासविनश्वरम्

॥१७॥

अचिरस्थं क्षुद्रफलं पुनरावृत्तिलक्षणम् ॥

क्वेदं दारुमयं ब्रह्म पापराशिदवानलम्

॥१८॥

सच्चिदानंदकैवल्यमुक्तिदं दर्शनादपि ॥

वेदानुवचनादीनि दुष्कराणि दुरात्मनाम्

॥१९॥

महात्मभिस्तैर्यत्प्राप्यं तदव्यग्रमयं ददेत् ॥

अन्यक्षेत्रेषु भगवान्सुदूरो मर्त्यवासिनाम्

॥२०॥

स्वक्षेत्रेऽस्मिन्निवसति नित्यं मुक्तिप्रदो विभुः ॥

अस्मादत्र महाभाग तिष्ठ स्वबलपौरुषः

॥२१॥

विद्वत्तमोऽसि भक्तश्च सांगोपांगममुं भज

॥२२॥

जैमिनिरुवाच

द्विजस्य तद्वचः श्रुत्वा नारदो हृष्टमानसः ॥

साधूक्तं द्विजवर्येण श्रौतमार्गानुसारिणा

॥२३॥

सृष्ट्यादौ ब्रह्मनिश्वासैरभवद्वेदसंहतिः ॥

तत्रोपनिषदर्थोऽयं सांप्रतं व्यक्तिमागतः

॥२४॥

वेत्त्येतदर्थं भगवान्पद्मयोनिः प्रजापतिः ॥

अज्ञासिषं च भूपाल सांप्रतं तन्मुखादहम्

॥२५॥

तस्याज्ञया कृतं सर्वं यथाभिलषितं तव ॥

एनमाराध्य तिष्ठात्र याम्यहं ब्रह्मणोंऽतिकम्

॥२६॥

कृतं निवेदयिष्यामि प्रकाशं च मुरद्विषः ॥

प्रासादं कुरु भूपाल धनेन महता तथा

॥२७॥

प्रासादे नरसिंहं तु प्रतिष्ठाप्य विमुच्यसे

॥२८॥

जैमिनिरुवाच

तच्छ्रुत्वा स तु भूमींद्रः प्रत्युवाच मुनिं तदा ॥

महर्षेऽहं त्वया सार्द्धं यियासुर्ब्रह्मणोंऽतिकम्

॥२९॥

यत्प्रसादाज्जगन्नाथश्चकेऽयं लोचनातिथिः ॥

निवेद्य तं च प्रासादं प्रतिष्ठार्थं मुरद्विषः

॥३०॥

विज्ञापयिष्ये सान्निध्ये प्रासादस्थापनोत्सवम् ॥

यथा स्वयं समागम्य ब्रह्मलोकात्पितामहः

॥३१॥

महोत्सवं भगवतः प्रासादेऽत्र करिष्यति ॥

तन्मुने मामपि विधेः संनिधिं प्रापयस्व च

॥३२॥

गर्भप्रतिष्ठां प्रासादे समाप्येह स्थितो मुने ॥

पश्चादावां गमिष्यावः कंचित्कालं प्रतीक्ष मे

॥३३॥

ततः स नृपतिः सर्वाञ्छिल्पशास्त्रविशारदान् ॥

पाषाणखंडघटनाकर्मण्येकैकयोगतः

॥३४॥

सत्कारैर्दानमानैश्च योजयामास सादरम् ॥

दिने दिने सुघटितः प्रासादो ववृधे द्विजाः

॥३५॥

परितः पूर्यमाणस्तु शुक्लपक्षे यथा शशी ॥

एवं संवर्ध्यमानोऽपि प्रासादः परिवर्द्धितः

॥३६॥

महोच्छ्रयत्वादल्पेन न कालेनाभिलक्ष्यते ॥

पाषाणसंख्या शक्या वा कथंचिद्घटनाक्रमात्

॥३७॥

वित्तव्ययस्तु कोटीनां न संख्यातुं च शक्यते ॥

यावन्तो भारते वर्षे लोकाः समयवर्तिनः

॥३८॥

इन्द्रद्युम्नस्य नृपतेर्नियुक्तास्ते महीभृतः ॥

एकैकशो नियुक्ता ये परस्परसमन्विताः

॥३९॥

तेऽपि चान्यैर्नियुक्तास्ते सर्वे तत्र प्रवर्तिताः ॥

अजस्रं तन्नियुक्तानां यो हर्षोत्थो महारवः

॥४०॥

आकाशमश्नुवानोऽसौ दिशां भागानपूरयत् ॥

नृपतेः श्रद्धया भक्त्या सात्त्विकेन प्रसादिता

॥४१॥

श्रीः समृद्धाभवद्विप्राः कीर्त्या सह महीपतेः ॥

क्वचित्कांचनविन्यस्तनानारत्नमहोज्ज्वलः

॥४२॥

क्वचित्स्फटिकभागांतशारदाभ्रनिभच्छविः ॥

क्वचिन्नीलाश्मघटिता भित्तिः कालाभ्रमेदुरा

॥४३॥

एवं सुघटिते विष्णोः प्रासादे सुमनोहरे ॥

गर्भप्रतिष्ठां विधिवत्कृत्वा स नृपसत्तमः

॥४४॥

वज्रपातादिभंगादिवारणार्थं यथोचितम् ॥

शिल्पशास्त्रेषु मण्यादि विन्यस्य पौरुषाहृतम्

॥४५॥

पुनः प्रासादघटनासंभारोचितमेव वै ॥

बहुमूल्यं वस्तुजातं यत्नात्तत्र न्यवेशयत्

॥४६॥

ततो विरच्यमानेऽस्मिन्प्रासादे कीर्तिवर्द्धने ॥

मनसापि न संभाव्ये त्रिषु लोकेषु भूभुजाम्

॥४७॥

देवानामपि नो लक्ष्ये द्विजाः कल्पांतवासिनाम् ॥

प्रासाद ईदृशो भूमौ क्वचिच्च घटितो न हि

॥४८॥

स्वर्गे वा इत्थमादित्या आलपंति परस्परम् ॥

अहो सुबुद्धिरस्योच्चैर्येयमीदृक्परीणता

॥४९॥

श्रद्धया भगवत्पादपद्मयोः साभिलाषिणी ॥

अलौकिकानि कर्माणि पश्यंति हि रचंत्यपि

॥५०॥

के वात्र भूमौ राजानो बभूवुर्नीतिशालिनः ॥

सार्वभौमास्तु साम्राज्यजेतारः सर्वविद्विषाम्

॥५१॥

वित्तानि यैः संचितानि सुबहूनि च कोटिशः ॥

अश्वमेधसहस्रं तु यत्कृतं त्रिदिवेशितुः

॥५२॥

शक्यं वा स्याद्भूभुजां तु नातः पूर्वमनुष्ठितम् ॥

न दृष्टं न श्रुतं वापि वाजिमेधसहस्रकम्

॥५३॥

महीक्षितानुष्ठितं वै यत्र त्रैलोक्य वासिनः ॥

पृथिव्यामस्य नृपतेः सहस्था भोगभोगिनः

॥५४॥

ब्रह्मलोक इवाभाति सभ यस्य च यज्विनः ॥

मूर्तिमंतस्त्रयो वेदाश्चतुष्पादो वृषस्तथा

॥५५॥

सुराः संकल्पकामास्तु यत्राद्भुतधियोऽभवन् ॥

अयं प्रासादवर्यो वै बुद्धेर्विषयतां गतः

॥५६॥

मनोऽपि यत्र भवति न वा त्रैलोक्यवासिनाम् ॥

भूपतेर्दुर्लभं किं स्यात्सहायो यस्य नारदः

॥५७॥

पितामहश्च जगतां स्रष्टा सर्वामरेश्वरः ॥

अथवा विष्णुभक्तस्य नातिदूरं चिकीर्षितम्

॥५८॥

विष्णोस्तद्भक्तलोकस्य नांतरं विद्यते द्विजः ॥

ततः स नारदं प्राह प्रासादांते मुनीश्वरम्

॥५९॥

सर्वं सपन्नमासीन्मे यदशक्यं सुरासुरैः ॥

साक्षाद्भगवतो विष्णोरद्वैतोपासनारतः

॥६०॥

भगवद्वपुराभाषि प्रासादस्तु चिरं मयि ॥

इत्युक्त्वा पादयोर्मूर्ध्ना प्रणनाम स नारदम्

॥६१॥

नारदोऽपि तमुत्थाप्य परिपूज्य नृपोत्तमम् ॥

त्वत्तो न भेदो नृपते ममास्ति खलु तत्त्वतः

॥६३॥

यस्तु साक्षाज्जगन्नाथ आविर्भूतः कृतेन वा ॥

अवश्यमर्चयस्वैनं जीवन्मुक्तोऽसि सांप्रतम्

॥६३॥

तत्पादपद्मे यादृक्ते चेतः प्र प्रवणतान्वितम् ॥

भक्त्या ह्यनन्यया पुंसः किमतः परमस्ति वै

॥६४॥

तीर्थैर्मंत्रैर्जपैर्दानैः क्रतुभिर्भूरिदक्षिणैः ॥

व्रतैरध्ययनैर्भूप तपोभिश्च यदर्जितुम्

॥६५॥

न शक्यं तव राजेन्द्र भक्त्या तत्करमागतम् ॥

अतः परं न शोचस्व भक्तियोगे नमोऽस्तु ते

॥६६॥

प्रकर्षं बहुराजेंद्र स्थित्वा चास्मिंश्चिरं भुवि ॥

आराधय जगन्नाथमुपचारैर्महोत्सवैः

॥६७॥

पितामहं द्रष्टुकामो गंता चेदंतिकं विभोः ॥

उपदेक्ष्यति सोऽप्यस्य यात्रास्तास्ता महोत्सवाः

॥६८॥

स्वयं च भगवानेव वरं तुभ्यं प्रदास्यति ॥

प्रतिष्ठापिते प्रासादे तस्मिन्काले स्वयंभुवा

॥६९॥

अहमप्यागमिष्यामि तदा सप्तर्षिभिः सह ॥

तदावां तत्र गच्छावो ब्रह्मलोकमकल्मषम्

॥७०॥

त्वां विना भुवि कः शक्तो ब्रह्मलोकगतिं प्रति ॥

इत्युक्त्वा नारदो भूपं समुत्तस्थौ नभस्तलम्

॥७०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवाद एकविंशोऽध्यायः ॥ २१ ॥