मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — पुरुषोत्तमजगन्नाथमाहात्म्यम्, अध्याय ३५

3
वैष्णवखण्डः · पुरुषोत्तमजगन्नाथमाहात्म्यम् · 35

अतः परं प्रवक्ष्यामि रथरक्षाकरं विधिम्

जैमिनिरुवाच

अतः परं प्रवक्ष्यामि रथरक्षाकरं विधिम् ॥

भूतप्रेतादयो घोरा दारुणान्यद्भुतानि च

॥१॥

न बाधंते रथान्येन मुनयो वश्च यन्मतम् ॥

प्रत्यहं पूजयेद्देवान्कृष्णादीन्ध्वजसंस्थितान्

॥२॥

गंधपुष्पाक्षतैर्माल्यैरुपहारैरनुत्तमैः ॥

गीतनृत्तादिकैश्चैव धूपदीपनिवेदनैः

॥३॥

दिक्पालेभ्यो बलिं दद्यात्पायसान्नेन चान्वहम् ॥

भूतप्रेतपिशाचेभ्यो दद्याच्च बलिमुत्तमम्

॥४॥

रक्षेच्च यत्नतस्तान्वै रथानारोहणोचितान् ॥

यथा न कश्चिदारोहेन्नरो ग्राम्यपशुस्तथा ॥

पक्षिणश्च विशेषेण येषां वासो न शोभनः

॥५॥

अष्टमेऽह्नि पुनः कृत्वा दक्षिणाभिमुखान्रथान् ॥

विभूषयेद्वस्त्रमाल्यपताकैश्चामरादिभिः

॥६॥

नवम्यां वासयेद्देवांस्तेषु प्रातः समृद्धिमत्

॥७॥

दक्षिणाभिमुखा यात्रा विष्णोरेषा सुदुर्लभा ॥

यात्रा प्रयत्नतः सा हि भक्तिश्रद्धासमन्वितैः

॥८॥

यथा पूर्वा तथा चेयं द्वे च मुक्तिप्रदायिके ॥

यात्राप्रवेशौ देवस्य एक एवोत्सवो मतः

॥९॥

पुराविदो वदंत्येतां यात्रां नवदिनात्मिकाम् ॥

एषा त्र्यवयवा यात्रा संपूर्णा यैरुपासिता

॥१०॥

सुसंपूर्णफलस्तेषां महावेदीमहोत्सवः

॥११॥

गुंडिचामंडपात्कृष्णमायांतं दक्षिणामुखम् ॥

रथस्थं बलिनं भद्रां पश्यंतो मुक्तिभागिनः

॥१२॥

उत्तराभिमुखान्दृदृष्ट्वा लभंते यादृश फलम् ॥

रामादीन्स्यंदनस्थान्ये पश्यंत्येवं महोदयान् ॥

यादृशं फलमाप्नुयुस्तादृशं दक्षिणामुखान्

॥१३॥

पदा यांतं रथे यांतं यः पश्येद्दक्षिणामुखम् ॥

तस्य जन्म कृतार्थं स्याद्वाजिमेधः पदे पदे

॥१४॥

स्तुतिभिः प्रणिपातैश्च पुष्पवृष्टिभिरेव च ॥

नानानृत्तोपहारैश्च व्यजनच्छत्रचामरैः ॥

उपायनैर्बहुविधैरुपतिष्ठेद्रथाग्रतः

॥१५॥

नीलाचलं समायांतं रथस्थं दक्षिणामुखम्।

ये पश्यंति हृषीकेशं सुभद्रां लांगलायुधम्

॥१६॥

कामकल्पतरुं पुंसां दर्शनादेव मुक्तिदम् ॥

ते व्रजंति महात्मानो वैकुण्ठ भवनं हरेः

॥१७॥

रथेन विचरंतं तं सिन्धुतीरे जनार्दनम् ॥

पश्यन्तं करुणापांगैः प्रणतान्पुरतो नरान्

॥१८॥

दक्षिणाभिमुखं यांतं प्रासादं नीलभूधरे ॥

सर्वतीर्थनिधिं सर्वदानकल्पतरुं हरिम्

॥१९॥

स्तुवंतः प्रणमंतश्च श्रद्दधानाश्च ये नराः ॥

न ते पुनरिहायांति ब्रह्मलोकस्थिता ध्रुवम्

॥२०॥

मुनयः कथितो वोऽयं महावेदीमहोत्सवः ॥

यस्य संकीर्त्तनादेव निर्मलो जायते नरः

॥२१॥

यश्चेदं कीर्तयेन्नित्यं प्रातरुत्थाय मानवः ॥

शृणुयादपि बुद्धिस्थः शक्रलोकं व्रजेदसौ

॥२२॥

प्रत्यर्चारूपमपि वा रथमास्थाप्य यो हरेः ॥

कुर्याद्यात्रामिमां श्रद्धाभक्तिभावेन मानवः

॥२३॥

सोऽपि विष्णोः प्रसादेन गुंडिचोत्सवजं फलम् ॥

प्राप्य वैकुण्ठभवनं याति नात्र विचारणा

॥२४॥

पश्य श्रीर्यावती विप्रा भक्तिर्वा श्रद्धयान्विता ॥

तावतीयं महायात्रा यो यथा कर्तुमिच्छति

॥२५॥

इदं पवित्रं परमं रहस्यं वेधसोदितम् ॥

कारयित्वाथवा दृष्ट्वा यन्नरो नावसीदति

॥२६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥