इत्युक्त्वा नृपशार्दूलं लोकसंग्रहणाय वै
जैमिनिरुवाच
इत्युक्त्वा नृपशार्दूलं लोकसंग्रहणाय वै ॥
सिंहाकृति स हृदये उद्वास्य कमलासनः
॥१॥पूर्वं प्रकाशरूपं यद्विष्णोस्तु प्रकटीकृतम् ॥
रथावरोहणे दृष्टाश्चतस्रो मूर्त्तयः पुरा
॥२॥ता एव सिंहासनगाः सर्वे ते ददृशुः पुनः ॥
द्विषडक्षरमन्त्रेण बलभद्रमपूजयत्
॥३॥सूक्तेन पौरुषेणैनं नारायणमनामयम् ॥
देवीसूक्तेन चक्रं च द्वादशाक्षरकेण च ॥
पूजयित्वानुग्रहाय पार्थिवस्य न्यवेदयत्
॥४॥ब्रह्मोवाच
भगवन्देवदेवेश भक्तानुग्रहकारक ॥
इन्द्रद्युम्नस्य जन्मानि त्वयि भक्तिं प्रकुर्वतः ॥
सहस्रं समतीतानि तदन्ते त्वामलोकयत्
॥५॥त्वद्दर्शनं हि भगवंस्त्वयि सायुज्यकारणम् ॥
यद्यप्ययं भक्तियोगेनेच्छति त्वां समर्चितुम्
॥६॥तदाज्ञापय येन त्वां भक्तियोगेन भावयेत् ॥
देशकालव्रताद्यैस्तु तथा नानोपचारकैः
॥७॥त्वन्मुखांभोजगलितमाज्ञामृतरसं नृपः ॥
पिपासुस्त्वां जगन्नाथ पश्यत्येषोऽनिमेषकम्
॥८॥जैमिनिरुवाच
इति विज्ञापितो देवः साक्षात्कमलयोनिना ॥
दारुदेहोऽपि विहसन्प्राह गंभीरया गिरा
॥९॥श्रीप्रतिमोवाच
इन्द्रद्युम्न प्रसन्नस्ते भक्त्या निष्कामकर्मभिः ॥
त्वदन्येनेदृशी संपन्न केनाप्यपवर्जिता
॥१०॥वरं ददामि ते भूप मयि भक्तिः स्थिराऽस्तु ते ॥
उत्सृज्य वित्तकोटीस्तु यन्ममायतनं कृतम्
॥११॥भंगेप्येतस्य राजेंद्र स्थानं न त्यज्यते मया ॥
कालांतरेऽपि योऽप्यन्यः प्रासादं कारयिष्यति
॥१२॥तवैव कीर्त्तिः सा नूनं त्वत्प्रीत्या तत्र मे स्थितिः ॥
सत्यं सत्यं पुनः सत्यं सत्यमेव ब्रवीमि ते
॥१३॥प्रासाद भंगे तत्स्थानं न त्यक्ष्यामि कदाचन ॥
अनेन दारुवपुषा स्थास्याम्यत्र परार्द्धकम्
॥१४॥द्वितीयं पद्मयोनेस्तु यावत्परिसमाप्यते ॥
मनोः स्वायंभुवस्यास्य द्वितीये च चतुर्युगे
॥१५॥कृतस्य प्रथमे ज्येष्ठे दशेति क्रतुसंस्थितिः ॥
ज्यैष्ठ्यामहं चावतीर्णस्तत्पुण्यजन्मवासरम्
॥१६॥तस्यां मे स्नपनं कुर्यान्महास्नानविधानतः ॥
प्रत्यर्चायां महाराज साधिवासं समृद्धिमत्
॥१७॥पापं विनाशयिष्यामि कोटिजन्मभिरर्जितम् ॥
सर्वतीर्थक्रतुफलं सर्वदानफलं तथा
॥१८॥पश्यतां चापि राजेंद्र फलं तावत्प्रपद्यते ॥
न्यग्रोधादुत्तरे कूपः सर्वतीर्थमयोऽस्ति हि
॥१९॥स्नानाय पूर्वं निर्माय किंचिदाच्छादितं भुवा ॥
अवतीर्णस्त्वहं पश्चात्तं विविच्य प्रकाशय
॥२०॥संस्कार्यः स चतुर्दश्यां बलिं दत्त्वा विधानतः ॥
रक्षकक्षेत्रपालाय दिशांपालेभ्य एव च
॥२१॥कम्बुकाहालमुरजध्वनिषु सुस्वरेषु च ॥
द्विजातयः स्वर्णकुम्भैरुद्धरेयुस्ततो जलम्
॥२२॥ज्यैष्ठ्यां प्रातस्तने काले ब्रह्मणा सहितं च माम् ॥
रामं सुभद्रां संस्नाप्य मम लोकमवाप्नुयात्
॥२३॥स्नाप्यमानं तु यः पश्येन्मां तदा नृपसत्तम ॥
देहबन्धं च नाप्नोति स पुनर्न तु पूरुषः
॥२४॥कारयित्वा दृढं मंचमैशान्यां दिशि मंडितम् ॥
वितानशोभारचितं चंदनांभः समुक्षितम्
॥२५॥तत्र मां रामभद्राभ्यां स्नापयित्वा पुनर्नयेत्
॥२६॥दक्षिणाभिमुखं यांतं यो मां पश्यति भक्तितः ॥
तत्तद्ध्रुवमवाप्नोति मनसा यद्यदिच्छति
॥२७॥ततः पंचदशाहानि स्थापयित्वा तु मां नृप ॥
विरूपमभिरूपं वा न पश्येत्तु कदाचन
॥२८॥ज्येष्ठस्नानमिदं कृत्वा सर्वपापैः प्रमुच्यते
॥२९॥गुंडिचाख्यां महायात्रां प्रकुर्वीथाः क्षितीश्वर ॥
यस्याः संकीर्तनादेव नरः पापाद्विमुच्यते
॥३०॥माघमासस्य पंचम्यामष्टम्यां चैत्रशुक्लके ॥
एते कालाः प्रशस्ता हि गुंडिचाख्यमहोत्सवे
॥३१॥विशेषान्मोक्षदाषाढद्वितीया पुष्यसंयुता ॥
ऋक्षाभावे तिथौ कार्या सदा सा प्रीतये मम
॥३२॥आषाढस्य सिते पक्षे द्वितीया पुष्यसंयुता ॥
तस्यां रथे समारोप्य रामं मां भद्रया सह
॥३३॥महोत्सवप्रवृत्त्यर्थं प्रीणयित्वा द्विजान्बहून् ॥
गुंडिचामण्डपंनाम यत्राहमजनं पुरा
॥३४॥अश्वमेधसहस्रस्य महावेदी तदाभवत् ॥
तस्याः पुण्यतमं स्थानं पृथिव्यां नेह विद्यते
॥३५॥यत्राजुहोः पंचशतवर्षाणि प्रीतये मम ॥
मम प्रीतिकरं स्थानं तस्मान्नान्यद्धरागतम्
॥३६॥यथेयं नीलशिखरा प्रासादेन तवाधुना ॥
चतुर्मुखानुरोधेन महाप्रीतिकरी मम
॥३७॥तथा नृसिंहक्षेत्रे वै महावेदी तव क्रतोः ॥
ममोत्पत्तेश्च निलयं प्रीतिकृन्मम शाश्वतम्
॥३५॥बहुकालं स्थितश्चाहं तस्यां मे प्रीतिरुत्तमा ॥
आत्मा मे पद्मभूरेष प्रासादे स्थापितोऽमुना
॥३९॥अस्यानुरोधात्त्वद्भक्त्या ह्यवतिष्ठेऽत्र नित्यदा ॥
दिनानि नव यास्यामि तथा तस्मादिहागतः
॥४०॥तत्रास्ति ते महाराज सर्वतीर्थमयं सरः ॥
तत्तीरे सप्तदिवसान्स्थास्याम्यनुजिघृक्षया
॥४१॥तत्र स्थितं मां पश्यंतो यांति मर्त्या ममालयम् ॥
तिस्रः कोट्योऽर्द्धकोटी च तीर्थानां भुवनत्रये
॥४२॥तानि सर्वाणि सरसि मत्सान्निध्याद्व्रजंति ते ॥
तत्र स्नात्वा च विधिवद्दृष्ट्वा मां भक्तिभावतः
॥४३॥जननीजठरे क्लेशं पुनर्नानुभवंति हि ॥
नवमेऽह्नि समायातं दक्षिणाशामुखं तदा
॥४४॥ये पश्यन्ति प्रतिपदमश्वमेधक्रतोः फलम् ॥
प्राप्य भोगानिंद्रसमान्भुक्त्वान्ते मां विशंति ते
॥४५॥ममोत्थानं मम स्वापं मत्पार्श्वपरिवर्त्तनम् ॥
मार्गप्रावरणं चैव पुष्यस्नानमहोत्सवम्
॥४६॥फाल्गुन्यां क्रीडनं कुर्याद्दोलायां मम भूमिप ॥
दोलायां येऽपि पश्यंति दक्षिणामुखपूजितम्
॥४७॥ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः
॥४८॥अनयोर्मां समभ्यर्च्य दृष्ट्वा मां प्रणिपत्य च ॥
प्रत्येकमष्टसाहस्रं वाजिमेधफलं लभेत्
॥४९॥चैत्रे सितत्रयोदश्यां कुर्यात्कर्मप्रपूरणम् ॥
चैत्रे मासि चतुर्दश्यां दमनैर्मे प्रपूजनम् ॥
शुक्लपक्षे तु ये लोकाः सर्वपापक्षयो भवेत्
॥५०॥वैशाखस्य सिते पक्षे तृतीयाऽक्षयसंज्ञिता ॥
तत्र मां लेपयेद्गन्धलेपनैरतिशोभनैः
॥५१॥प्रीतये मम ये कुर्युरुत्सवान्मम शाश्वतान् ॥
चतुर्वर्गप्रदा ह्येते प्रत्येकं परिकीर्तिताः
॥५२॥जैमिनिरुवाच
इति दत्त्वा वरं तस्मा इन्द्रद्युम्नाय भो द्विजाः ॥
ब्रह्माणमाह भगवान्स्मेरांभोरुहसन्मुखः
॥५३॥चतुर्मुख तव प्रीत्यै सर्वं संपादितं मया ॥
त्वदिच्छा हि ममैवेच्छा न भेदो ह्यावयोर्ध्रुवम्
॥५४॥यन्मां माधवमूर्तिं त्वं पुरा प्रार्थितवानसि ॥
तस्यैव परिपाकोऽयमवतारः कृतो मया
॥५५॥मामत्र दृष्ट्वा त्वभ्यर्च्य प्राणान्संत्यज्य मुच्यते ॥
क्रमात्सर्वे त्वया सार्द्धं भूयः सायुज्यमेव च
॥५६॥यद्वाचाभिलपन्मर्त्यो मामत्र हि निषेवते ॥
अवश्यं तदवाप्नोति संगत्या चात्र भूपतिः
॥५७॥व्रजेदानीं सत्यलोकं त्रिदिवं यांतु देवताः ॥
तवायुःपूर्णिपर्यंतमहमत्र स्थितो ध्रुवम्
॥५८॥ततस्ते हर्षिताः सर्वे ब्रह्मर्षिसुरसत्तमाः ॥
प्रणम्य शिरसा देवं जग्मुस्ते निलयं स्वकम्
॥५९॥देवोऽपि च जगन्नाथः प्रतिमारूपधृक्तदा ॥
तूष्णीं तिष्ठति सर्वेषां हर्षमापादयन्नृणाम्
॥६०॥इन्द्रद्युम्नोऽपि धर्मात्मा विष्णुभक्तो दृढव्रतः ॥
अनुव्रजन्पद्मयोनिं तेनादिष्टो न्यवर्तत
॥६१॥यात्राः सर्वा भगवता आज्ञप्ताः साधु कारय ॥
अस्मिंस्तुष्टे जगन्नाथे सन्तुष्टं वै चराचरम्
॥६२॥इत्याज्ञां पद्मयोनेस्तु मूर्ध्न्याधाय क्षितीश्वरः ॥
नारदेन सह श्रीमान्निधिना च समृद्धिमत् ॥
ज्येष्ठस्नानादिकं सर्वमुत्सवं निरवर्तयत्
॥६३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्य एकोनत्रिंशोऽध्यायः ॥ २९ ॥