दमनकभंजनविधिवर्णनम्
मुनय ऊचुः
मुने व्रतमिदं पुण्यं श्रुतं वै मूर्तिपंजरम् ॥
अन्तःप्रमोदजननं महिम्ना च महत्तरम्
॥१॥यात्रा द्वादश पुण्या या उद्दिष्टा भगवत्प्रियाः ॥
तासां द्वे अवशिष्टे नः कथयस्व महामुने
॥२॥जैमिनिरुवाच
वासंतिकां समाख्यास्ये यात्रां दमनभंजिकाम् ॥
यस्यां कृतायां दृष्टायां प्रीणाति पुरुषोत्तमः
॥३॥पुरा यत्कथितं विप्रास्तृणं दमनकाह्वयम् ॥
चैत्रशुक्लत्रयोदश्यामाहरेत्तत्समूलकम्
॥४॥तन्मध्ये मंडलं कुर्यात्सुशुभं पद्मसंज्ञितम् ॥
तदंतर्वासयेद्देवप्रत्यर्चां प्रतिपूजिताम्
॥५॥युक्तां श्रीसत्यभामाभ्यां पूजयेद्विधिवच्च ताः ॥
अर्द्धरात्रे तु कर्मेदं देवदेवस्य कारयेत्
॥६॥पुरा निशीथेऽपि विभुर्बभंज दमनासुरम् ॥
भंक्त्वा लेभे परां प्रीतिं तदंगोत्थं च तत्तृणम्
॥७॥तस्यामेव त्रयोदश्यां तृणं दैत्यं विभावयेत् ॥
कृतांजलिपुटो भूत्वा वाक्यं चेदमुदाहरेत्
॥८॥अवधीर्दमनं दैत्यं पुरा त्रैलोक्यकंटकम् ॥
स एवेत्थं परिणतः पुरतस्तव तिष्ठति
॥९॥अस्योत्पत्तौ तदा प्रीतिरासीद्या तव माधव ॥
अधुनापि तथैवास्तां प्रीतिर्दमनभंजने
॥१०॥इत्युक्त्वा तृणमेके तु करे देवस्य दापयेत् ॥
ततोऽवशिष्टां रात्रिं च नृत्यगीतादिभिर्नयेत्
॥११॥ततश्चाभ्युदिते सूर्ये देवं तृणपुरःसरम् ॥
नयेच्च जगदीशस्य समीपं द्विजसत्तमाः
॥१२॥उपचारैर्जगन्नाथं पूजयेत्पूर्ववत्ततः ॥
हिरण्यकशिपुं हत्वा ह्यन्त्रमालां तदंगजाम्
॥१३॥कृत्वा कण्ठे यथाऽप्रीणास्तथेदं दमनं तृणम् ॥
तव प्रीत्यै तु भगवन्मया दत्तं तवांगके
॥१४॥इत्युच्चार्य हरेर्मूर्ध्नि दद्याद्गंधतृणं शुभम् ॥
तदा दृष्ट्वा हरेर्वक्त्रपद्मं प्रीतिकरं मुदा ॥
भवदुःखपरिक्षीणः सुखमाप्नोत्यनुत्तमम्
॥१५॥गृहीत्वा मूर्ध्नि तच्छाखां विष्णुमूर्ध्नोऽपकाषताम् ॥
सर्वपापविनिर्मुक्तो वसेद्विष्णुपुरे ध्रुवम्
॥१६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये दमनकभंजनविधिवर्णनंनाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥