मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — बदरिकाश्रममाहात्म्यम्, अध्याय ८

3
वैष्णवखण्डः · बदरिकाश्रममाहात्म्यम् · 8

ब्रह्मकुण्डाद्दक्षिणतो नरावासगिरिर्महान्

शिव उवाच

ब्रह्मकुण्डाद्दक्षिणतो नरावासगिरिर्महान् ॥

यत्र भगवता मेरुः स्थापितो लोकसुन्दरः

॥१॥

स्कन्द उवाच

कथं भगवता मेरुः स्थापितो नरसन्निधौ ॥

महत्कौतूहलं तात कथ्यतां यदि रोचते

॥२॥

महादेव उवाच

यदा भगवतो वासो विशालायां समागतः ॥

देवा महर्षयः सिद्धाः सविद्याधरचारणाः

॥३॥

विहाय मेरुशृंगाणि भगवद्दर्शनोत्सुकाः ॥

भगवद्दर्शनाह्लादतिरस्कृतसुरालयाः

॥४॥

तदा तु भगवांस्तेषां सुखहेतोः षडानन ॥

उत्पाद्य मेरुशृंगाणि करेणैकेन लीलया ॥

स्थापयामास सर्वेषां भगवान्प्रीतिवर्द्धनः

॥५॥

ततः सर्वे समालोक्य गिरिं कांचननिर्मितम् ॥

प्रसन्नास्तुष्टुवुः सर्वे नारायणमनामयम्

॥६॥

देवा ऊचुः

योस्मत्सुखाय भवविश्रमणाय बिभ्रल्लीलातनूः कनकशैलमिहानिनाय ॥

जेता सुरार्द्दनशतं त्रिदशैकपक्षस्तस्मै विधेम नम उग्रतपःश्रियाय

॥७॥

यद्यत्करोति कृपया कृपणार्तितूलशैलाग्निराश्रितकृदेकविदां वरिष्ठः ॥

स्वेनैव तेन करणेन स तुष्यतां नो यस्यान्वकारि पुरुषेण न केनचिद्वै

॥८॥

अस्माकमुन्नतधियां विदधाति सम्यक्छिक्षां पितेव करुणो निजलाभपूर्णः ॥

त्रैलोक्यरक्षणविचक्षणदृष्टिपातपूर्णामृतांबुधिरसौ विपदः प्रपायात्

॥९॥

ऋषय ऊचुः

येनाध्यस्तं भाति समस्तं जगदेकं क्रीडाभांडं सत्यतयाऽजस्य विभूम्नः ॥

भानां वृदं यद्वदनेप्याश्रितमूर्तिस्तस्मै नित्यं शाश्वत तुभ्यं प्रणमाम

॥१०॥

सिद्धा ऊचुः

यत्कृपालवत एव महांतः सिद्धिमीयुरितरे भवभाजः ॥

तेऽचिरेण भवभीमपयोधिं तीर्णवंत इति नः सुमनीषा

॥११॥

विद्याधरा ऊचुः

विभो सद्गुणग्राम कल्याणमूर्ते परेशान संमानसंतानहेतो ॥

भवत्पादपद्मासवस्वादमत्ताः कृतार्था न चित्रं भवत्यत्र किंचित्

॥१२॥

ततस्तुष्टोऽथ भगवांस्तेषामासीद्दिवौकसाम् ॥

वरं वृणुध्वमित्युक्तास्ते प्रोचुर्वरदर्षभम्

॥१३॥

परितुष्टो भवान्साक्षाद्देवदेवो रमापतिः ॥

बदरी न त्वया त्याज्या न च मेरुः कदाचन

॥१४॥

मेरुशृंगं प्रपश्यंति ये जनाः पुण्यभागिनः ॥

तेषां वै त्वत्प्रसादेन मेरौ वासः प्रजायताम्

॥१५॥

तत्र भुक्त्वा चिराद्भोगान्भूयादन्ते लयस्त्वयि ॥

एवमस्त्विति चाभाष्य तत्रैवांतर्हितो हरिः

॥१६॥

ततः प्रभृति ते सर्वे मेरुशृंगविहारिणः ॥

नरनारायणस्यांते पाल्यमाना मुहुर्मुहुः

॥१७॥

कदाचिद्दिवि तिष्ठंति कदाचिन्मेरुमध्यतः ॥

निर्विशंका निरुद्वेगा ऋषयश्च तपोधनाः

॥१८॥

भगवानपि तत्रैव नररूपेण तिष्ठति ॥

धनुर्बाणधरः श्रीमांस्तपसा पावकोपमः ॥

आनंदमृषिवृंदस्य जनयंस्तप आस्थितः

॥१९॥

ततस्तु परमं तीर्थं लोकपालाभिवंदितम् ॥

यत्र संस्थापयामास लोकपालान्हरिः स्वयम्

॥२०॥

स्कंद उवाच

कथं भगवता तत्र लोकपालाश्च स्थापिताः ॥

महत्कौतूहलं तात कथयस्व महामते

॥२१॥

शिव उवाच

एकदा मेरुमध्यस्थाश्रयानिह हरन्हरिः ॥

देवानामृषिमुख्यानां चरितं द्रष्टुमुद्यतः

॥२१॥

तं दृष्ट्वा सहसोत्थाय नमस्कृत्य दिवौकसः ॥

ऊचुस्ते विनयात्सर्वे प्रसीद भगवन्विभो

॥२३॥

क्षणं विश्राम्य विधिवद्दृष्ट्वा तां विरलां भुवम् ॥

सान्निध्यमृषिदेवानामयुक्तं भावयन्मिथः

॥२४॥

ततः प्रहस्य भगवानुवाच मधुसूदनः ॥

लोकपालान्समाहूय नात्र स्थेयं भवद्विधैः

॥२५॥

ऋषयस्तापसाः सिद्धाः सस्त्रीका निवसंति हि ॥

भवद्विधानामास्थानं पुरेव कल्पितं मया

॥२६॥

ततः स त्वरितो गत्वा रम्ये गिरिवरे हरिः ॥

लोकपालान्समाहूय स्थापयामास तान्गुह

॥२७॥

तत्रैव शैलदंडेन हत्वाग्निं जलकांक्षया ॥

क्रीडापुष्करणीं तेषां निर्ममे सुमनोहराम

॥२८॥

सस्त्रीका यत्र गीर्वाणा विचरंति निजेच्छया ॥

गायंति स्वनुमोदंति गंधर्वास्त्रिदिवौकसाम्

॥२९॥

वनानि कुसुमामोदरम्याणि परितोषतः ॥

दिनानि यत्र गच्छंति क्षणप्रायाणि देहिनाम्

॥३०॥

भगवानपि तत्रैव तेषामानंदमावहन् ॥

द्वादश्यां पौर्णमास्यां च स्वयमायाति मज्जने

॥३१॥

तत्पश्चादृषयः सर्वे मुनयश्च तपोधनाः ॥

यत्र स्नात्वा विधानेन गुह मध्याह्नकालतः ॥

असंगं परमं ज्योतिर्जले पश्यंति चक्षुषा

॥३२॥

सर्वतीर्थावगाहेन यत्फलं परिकीर्तितम् ॥

तत्फलं तत्क्षणादेव दण्डपुष्करिणीक्षणात्

॥३३॥

यत्र काम्यानि कर्माणि सफलानि मनीषिणाम् ॥

यत्र पिंडप्रदानेन गयातोऽष्टगुणं फलम्

॥३४॥

यज्ञो दानं तपः कर्म सर्वमक्षयमुच्यते ॥

द्वादश्यां शुक्लपक्षस्य ज्येष्ठे मासि षडानन

॥३५॥

तत्र स्नात्वा विधानेन कृतकृत्यो भवेद्यतः ॥

बदरीतीर्थमध्ये तु गुप्तमेतत्सुरोत्तमैः ॥

न वाच्यं यत्र कुत्रापि तव प्रीत्या मयोदितम्

॥३६॥

वक्तव्यं किमिह बहु प्रभूतपुण्याः पश्यंति प्रथितमिदं सुरैकगुप्तम् ॥

नान्येषां कथमपि चेतसि प्रसंगाद्देवैः स्यादनुदिनचिंतितं गुहैतत्

॥३७॥

येषां वै भगवति चेत्समग्रकर्म स्वाध्यायाभ्यसनविधिक्रमेण जातम् ॥

पश्यंति त्रिभुवनदुर्ल्लभं सुतीर्थं दंडोदं न भवति चान्यथा सुदृष्टम्

॥३८॥

दंडोदकात्परं तीर्थं न विष्णोः सदृशोऽमरः ॥

विशालासदृशं क्षेत्रं न भूतं न भविष्यति

॥३९॥

सेवनीया प्रयत्नेन विशाला च विचक्षणैः ॥

य इच्छेत्सततं धाम भगवत्पार्श्ववर्ति वै

॥४०॥

स्कंद उवाच

गंगामाश्रित्य तीर्थानि कानि संतीह सत्पदे ॥

श्रेयस्कराणि भूरीणि संक्षेपात्तानि मे वद

॥४१॥

महादेव उवाच

गंगायां यत्र संयोगो मानसोद्भेदसन्निधौ ॥

तत्तीर्थं विमलं पुण्यं प्रयागादधिकं महत्

॥४२॥

त्रिंशद्वर्षसहस्राणि वायुभोजनतो भवेत् ॥

तत्फलं स्नानमात्रेण गंगायाः संगमे नृणाम्

॥४३॥

संगमाद्दक्षिणे भागे धर्मक्षेत्रं प्रकीर्तितम् ॥

यत्र मूर्त्या श्रुतौ जातौ नरनारायणावृषी

॥४४॥

तत्क्षेत्रं पावनं मर्त्ये सर्वेषामुत्तमोत्तमम् ॥

धर्मस्तत्रैव भगवांश्चतुष्पादवतिष्ठति

॥४५॥

यत्र यज्ञास्तपो दानं यत्किंचित्क्रियते नृभिः ॥

तत्पुण्यस्य क्षयो नास्ति कल्पकोटिशतैरपि

॥४६॥

ततो दक्षिणदिग्भाग उर्वशी संगमाभिधम् ॥

सर्वपापहरं पुंसां स्नानमात्रेण देहिनाम्

॥४७॥

कूर्मोद्धारस्ततः साक्षाद्धरिभक्त्येकसाधनम् ॥

स्नानमात्रेण भूतानां सत्त्वशुद्धिः प्रजायते

॥४८॥

ब्रह्मावर्त्तस्ततः साक्षाद्ब्रह्मलोकैककारणम् ॥

दर्शनादेव तीर्थस्य सर्वपापक्षयो भवेत्

॥४९॥

बहूनि संति तीर्थानि दुर्गम्यानीह देहिनाम् ॥

संक्षेपात्कथितं वत्स तवादरवशादिदम्

॥५०॥

य इदं शृणुयान्नित्यं श्रावयेद्वा समाहितः ॥

सर्वपापविनिर्मुक्तः पदं विष्णोः प्रपद्यते

॥५१॥

राजा विजयमाप्नोति सुतार्थी लभते सुतम् ॥

कन्यार्थी लभते कन्यां कन्या विंदति सत्पतिम्

॥५२॥

धनार्थी धनमाप्नोति सर्वकामैकसाधनम्

॥५३॥

मासमात्रं नरो भक्त्या शृणुयाद्यः समाहितः ॥

तस्याभीष्टसमावाप्तिर्दुर्लभोपि न संशयः

॥५४॥

आधिव्याधिभयं घोरं दारिद्र्य कलहं तथा ॥

यस्य गेहेषु माहात्म्यं तत्रैतानि न कर्हिचित्

॥५५॥

नापमृत्युर्न सर्पादि दौर्भाग्यं चापि वर्तते ॥

दुःस्वप्नग्रहपीडा च परराष्ट्रभयं तथा

॥५६॥

युद्धे यात्राप्रयाणे च पठनीयं प्रयत्नतः ॥

विवाहे च विवादे च शुभकर्मणि यत्नतः

॥५७॥

पूर्णं वाऽध्यायमात्रं वा तदर्धं वा विचक्षणैः ॥

सर्वकार्यप्रसिद्धिः स्यान्नात्र कार्या विचारणा

॥५८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे बदरिकाश्रममाहात्म्ये शिवकार्त्तिकेयसंवादे बदरिकाश्रमे मेरुसंस्थापनतीर्थलोकपालतीर्थदंडपुष्करिणीतीर्थधर्मक्षेत्रादिविविधतीर्थक्षेत्रमाहात्म्य वर्णनंनामाष्टमोऽध्यायः ॥ ८ ॥

छ ॥ इति श्रीस्कांदे द्वितीये वैष्णवखण्डे तृतीयं बदरिकाश्रममाहात्म्यं समाप्तम् ॥ २-३)