कार्तिकव्रतप्रशंसावर्णनम्
श्रीगणेशाय नमः
अथ कार्त्तिकमासमाहात्म्यप्रारम्भः
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥
देवीं सरस्वतीं चैव ततो जयमुदीरयेत्
॥१॥ऋषय ऊचुः
सूत नः कथितं पुण्यं माहात्म्यमाश्विनस्य च ॥
भूयोऽन्यच्छ्रोतुमिच्छामः कार्तिकस्य च वैभवम्
॥२॥कलौ कलुषचित्तानां नराणां पापकर्मणाम् ॥
संसाराब्धौ निमग्नानामनायासेन का गतिः
॥३॥को धर्मः सर्वधर्माणामधिको मोक्षसाधकः ॥
इहाऽपि मुक्तिदो नृणामेतत्त्वं कथय प्रभो
॥४॥सूत उवाच
भवद्भिर्यदहं पृष्टस्तदेतत्पृष्टवान्मुनिः ॥
नारदो ब्रह्मणः पुत्रो ब्रह्माणं तु जगद्गुरुम्
॥५॥तथैव सत्यभामा च श्रीकृष्णं जगदीश्वरम् ॥
अपृच्छत्कार्तिकस्यैव वैभवं श्रवणोत्सुका
॥६॥वालखिल्यैश्च ऋषिभिर्यदुक्तमृषिसंसदि ॥
श्रीसूर्यारुणसंवादरूपेणाऽतिमनोहरम्
॥७॥कैलासे शंकरेणैव कार्तिकस्य च वैभवम् ॥
वर्णितं षण्मुखस्याग्रे नानाख्यानसमन्वितम्
॥८॥पृथुं प्रति नारदेन कथितं च महात्म्यकम् ॥
कार्तिकस्य च विप्रेंद्रा श्रुत्वा ब्रह्ममुखात्पुरा
॥९॥एकदा नारदो योगी सत्यलोकमुपागतः ॥
पप्रच्छ विनयेनैव सर्वलोकपितामहम्
॥१०॥श्रीनारद उवाच
पापेंधनस्य घोरस्य शुष्कार्द्रस्य च भूरिशः ॥
को वह्निर्दहते ब्रह्मंस्तद्भवान्वक्तुमर्हति
॥११॥नाज्ञातं त्रिषु लोकेषु ब्रह्मांडांतर्गतस्य यत् ॥
विद्यते तव देवेश त्रिविधस्य सुनिश्चितम्
॥१२॥मासानां प्रवरो मासो देवानामुत्तमोत्तमः ॥
तीर्थानि तद्विशेषेण कथयस्व पितामह
॥१३॥ब्रह्मोवाच
मासानां कार्तिकः श्रेष्ठो देवानां मधुसूदनः ॥
तीर्थं नारायणाख्यं हि त्रितयं दुर्लभं कलौ
॥१४॥नारद उवाच
भगवंस्तव दासोऽस्मि भक्तोऽस्मि हरिवल्लभ ॥
वैष्णवान्ब्रूहि मे धर्मान्सर्वज्ञोऽसि पितामह
॥१५॥आदौ कार्तिकमाहात्म्यं वक्तुमर्हसि मे प्रभो ॥
दीपदानस्य माहात्म्यं व्रतिनां नियमांस्तथा
॥१६॥गोपीचंदनमाहात्म्यं तुलस्याश्च तथा विभो ॥
धात्र्याश्चैव च माहात्म्यं विधिं स्नानादिकस्य च ॥
व्रतारंभः कदा कार्यं उद्यापनविधिं तथा
॥१७॥यत्किंचिद्वैष्णवं धर्मं तत्सर्वं वक्तुमर्हसि ॥
येनाऽहं त्वत्प्रसादेन पदं यास्याम्यनामयम्
॥१८॥सूत उवाच
इति पुत्रवचः श्रुत्वा ब्रह्मा हर्षसमन्वितः ॥
राधादामोदरं स्मृत्वा प्रोवाच तनुजं प्रति
॥१९॥ब्रह्मोवाच
साधु पृष्टं त्वया पुत्र लोकोद्धरणहेतवे ॥
कथयामि न संदेहः कार्तिकस्य च वैभवम्
॥२०॥एकतः सर्वतीर्थानि सर्वे यज्ञाः सदक्षिणाः ॥
कार्तिकस्य तु मासस्य कलां नार्हंति षोडशीम्
॥२१॥एकतः पुष्करे वासः कुरुक्षेत्रे हिमालये ॥
एकतः कार्तिकः पुत्र सर्वपुण्याधिको मतः
॥२२॥स्वर्णानि मेरुतुल्यानि सर्वदानानि चैकतः ॥
एकतः कार्तिको वत्स सर्वदा केशवप्रियः
॥२३॥यत्किंचित्क्रियते पुण्यं विष्णुमुद्दिश्य कार्तिके ॥
तस्य क्षयं न पश्यामि मयोक्तं तव नारद
॥२४॥सोपानभूतं स्वर्गस्य मानुष्यं प्राप्य दुर्लभम् ॥
तथात्मानं समादद्यान्न भ्रश्येत यथा पुनः
॥२५॥दुष्प्राप्यं प्राप्य मानुष्यं कार्तिकोक्तं चरेन्न यः ॥
धर्मं धर्मभृतां श्रेष्ठ स मातापितृघातकः
॥२६॥कार्तिकः खलु वै मासः सर्वमासेषु चोत्तमः ॥
पुण्यानां परमं पुण्यं पावनानां च पावनम्
॥२७॥अस्मिन्मासे त्रयस्त्रिंशद्देवाः सन्निहिता मुने ॥
अत्र स्नानानिदानानि भोजनानि व्रतानि च
॥२८॥तिलधेनुं हिरण्यं च रजतं भूमिवाससी ॥
गोप्रदानानि कुर्वंति सर्वभावेन नारद
॥२९॥तानि दानानि दत्तानि गृह्णंति विधिवत्सुराः ॥
यत्किंच दत्तं विप्रेंद्र तपश्चैव तथा कृतम्
॥३०॥तदक्षय्यफलं प्रोक्तं विष्णुना प्रभविष्णुना ॥
पापानां मोक्षणं चैव कार्तिके मासि शस्यते
॥३१॥तस्माद्यत्नेन विप्रेंद्र कार्तिके मासि दीयते ॥
यत्किंचित्कार्तिके दत्तं विष्णुमुद्दिश्य मानवैः
॥३२॥तदक्षयं हि लभते अन्नदानं विशेषतः ॥
यथा नदीनां विप्रेंद्र शैलानां चैव नारद
॥३३॥उदधीनां च विप्रर्षे क्षयो नैवोपपद्यते ॥
दानं कार्तिकमासे तु यत्किंचिद्दीयते मुने
॥३४॥न तस्यास्ति क्षयो विप्र पापं याति सहस्रधा ॥
संप्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत्
॥३५॥दिनेदिनेऽतिकृच्छ्रस्य फलं प्राप्नोत्ययत्नतः ॥
न कार्तिकसमो मासो न कृतेन समं युगम्
॥३६॥न वेदसदृशं शास्त्रं न तीर्थं गंगया समम् ॥
न चान्नसदृशं दानं न सुखं भार्यया समम्
॥३७॥न्यायेनोपार्जितं द्रव्यं दुर्लभं दानकारिणाम् ॥
दुर्लभं मर्त्यधर्माणां तीर्थे च प्रतिपादनम्
॥३८॥कार्तिके मुनिशार्दूल शालिग्रामशिलार्चनम् ॥
स्मरणं वासुदेवस्य कर्तव्यं पापभीरुणा
॥३९॥एतादृशं कार्तिकं च अकृतेनैव यो नयेत् ॥
पूर्वं कृतस्य पुण्यस्य क्षयमाप्नोत्यसंशयम्
॥४०॥नारद उवाच
अशक्तेन कथं कार्यं कार्तिकव्रतमुत्तमम् ॥
येन तत्फलमाप्नोति तन्मे वद पितामह
॥४१॥ब्रह्मोवाच
अशक्तस्तु यदा मर्त्यस्तदैवं व्रतमाचरेत् ॥
अन्यस्मै द्रविणं दत्त्वा कारयेत्कार्तिकव्रतम्
॥४२॥तस्मात्पुण्यं प्रगृह्णीत दानसंकल्पपूर्वकम् ॥
द्रव्यदानेऽप्यशक्तश्चेद्यदा देवर्षिसत्तम
॥४३॥तदा तेन प्रकर्तव्यं पानं तीर्थजलस्य च ॥
तत्राप्यशक्तो यो मर्त्यस्तेन नित्यं हरेर्मुदा
॥४४॥स्मरणं च प्रकर्तव्यं नाम्ना नियमपूर्वकम् ॥
अखंडितं तदा तेन कार्तिकव्रतजं फलम्
॥४५॥विष्णोः शिवस्य वा कुर्यादालये हरिजागरम् ॥
शिवविष्ण्वोर्गृहाभावे सर्वदेवालयेष्वपि
॥४६॥दुर्गाटव्यां स्थितो वाऽथ यदिवाऽऽपद्गतो भवेत् ॥
कुर्यादश्वत्थमूले तु तुलसीनां वनेष्वपि
॥४७॥विष्णुनामप्रबंधानां गायनं विष्णुसन्निधौ ॥
गोसहस्रप्रदानस्य फलमाप्नोति मानवः
॥४८॥वाद्यकृत्पुरुषश्चापि वाजपेयफलं लभेत् ॥
सर्वतीर्थावगाहोत्थं नर्तकः फलमाप्नुयात्
॥४९॥सर्वमेतल्लभेत्पुण्यमेतेषां द्रव्यदः पुमान् ॥
श्रवणाद्दर्शनाद्वापि षडंशं फलमाप्नुयात्
॥५०॥आपद्गतो यदाप्यंभो न लभेत्कुत्रचिन्नरः ॥
व्याधितो वाथवा कुर्याद्विष्णोर्नाम्नाऽपि मार्जनम्
॥५१॥उद्यापनविधिं कर्तुमशक्तो यो व्रतस्थितः ॥
ब्राह्मणान्भोजयेत्पश्चाद्व्रतसंपूर्तिहेतवे
॥५२॥अशक्तो दीपदानाय परदीपं प्रबोधयेत् ॥
तस्य वा रक्षणं कुर्याद्वातादिभ्यः प्रयत्नतः
॥५३॥श्रीविष्णोः पूजनाऽभावे तुलसीधात्रिपूजनम् ॥
सर्वाऽभावे व्रती कुर्याद्ब्राह्मणानां गवामपि ॥
तस्याप्यभावे मनसि विष्णोर्नामानुकीर्तनम्
॥५४॥नारद उवाच
ब्रह्मन्ब्रूहि विशेषेण धर्मान्कार्तिकसंभवान्
॥५५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकव्रतप्रशंसावर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥