नित्यकर्मकथनम्
नारद उवाच
कदा स्नानं प्रकर्तव्यं कथं स्थेयं दिनावधि ॥
आह्निकं तत्समाचक्ष्व विशेषेण पितामह
॥१॥ब्रह्मोवाच
रात्र्यां तुर्यांशशेषायामुत्तिष्ठेत्सर्वदा व्रती ॥
विष्णुं स्तुत्वा बहुस्तोत्रैर्दिनकार्यं विचारयेत्
॥२॥ग्रामनैर्ऋत्यदिग्भागे मलोत्सर्गं यथाविधि ॥
ब्रह्मसूत्रं दक्षकर्णे स्थाप्य तत्र उदङ्मुखः
॥३॥अंतर्धाय तृणं भूमौ शिरः प्रावृत्य वाससा ॥
वक्त्रं नियम्य वस्त्रेणाऽसंगः सोदकभाजनः
॥४॥कुर्यान्मूत्रपुरीषं तु रात्रौ चेद्दक्षिणामुखः ॥
तत उत्थाय चाऽऽगच्छेत्समीपं कलशस्य हि
॥५॥गंधलेपक्षयकरं मृत्तिकाशौचमाचरेत् ॥
एका लिंगे करे तिस्र उभयोर्मृद्द्वयं स्मृतम्
॥६॥मूत्रशौचे त्विदं ज्ञेयं विष्ठाशौचमतः शृणु ॥
पंचापानेऽथवा सप्त दश वामकरे तथा
॥७॥उभयोः सप्त दातव्याः पादयोर्मृत्तिकात्रयम् ॥
एतच्छौचं गृहस्थस्य द्विगुणं ब्रह्मचारिणः
॥८॥वानप्रस्थस्य त्रिगुणं यतीनां च चतुर्गुणम् ॥
एतच्छौचं दिवा प्रोक्तं रात्रावर्द्धं समाचरेत्
॥९॥मार्गस्थस्य तदर्धं स्यात्स्त्रीशूद्राणां तदर्धकम् ॥
शौचकर्मविहीनस्य समस्ता निष्फलाः क्रियाः
॥१०॥दंतजिह्वाविशुद्धिं च ततः कुर्यादतंद्रितः ॥
आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च
॥११॥ब्रह्म प्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥
दंतकाष्ठं तु गृह्णीयाद्द्वादशांगुलसंमितम्
॥१२॥क्षीरवृक्षस्य न ग्राह्यं कार्पासस्य तथैव च ॥
कंटकस्य च वृक्षस्य दग्धवृक्षस्य चैव हि
॥१३॥सद्वासनं मृदुतरं दंतधावनमादितः
॥१४॥उपवासे नवम्यां च षष्ठ्यां श्राद्धदिने रवौ ॥
ग्रहणे प्रतिपद्दर्शे न कुर्याद्दंतधावनम् ॥
कुर्याद्द्वादशगंडूषाननुक्ते दंतधावने
॥१५॥दंतान्विशोध्य विधिवन्मुखं संमार्ज्य वारिणा ॥
ललाटे चोर्ध्वपुंड्रं तु धृत्वा चाचम्य वारिणा
॥१६॥देवालये नदीतीरे राजमार्गे विशेषतः ॥
दत्त्वा चाकाशदीपं तु तुलसीसन्निधावथ
॥१७॥गृहीत्वार्चनसामग्रीमिष्टदेवगृहं व्रजेत् ॥
ततो गायेत नृत्येत पूजां कृत्वा तु बुद्धिमान्
॥१८॥पठित्वा विष्णुनामानि कुर्य्यान्नीराजनं हरेः ।
नाडीद्वयावशिष्टायां रात्र्यां गच्छेज्जलाशयम्
॥१९॥तत्रोक्तविधिना स्नानं कुर्याद्वै कार्तिकव्रती ॥
वस्त्रनिष्पीडनं कृत्वा कुर्याच्च तिलकं तथा
॥२०॥ततः संध्यामुपासीत स्वसूत्रोक्तेन वर्त्मना ॥
ततः कार्यो जपो देव्या यावदकोंदयो भवेत्
॥२१॥एतत्प्रोक्तं रात्रिशेषकृत्यं दैनमथोच्यते ॥
यस्मिन्कृते कार्तिकोऽयं सकलः सफलो भवेत्
॥२२॥विष्णोः सहस्रनामाऽऽद्यं संध्यांते च पठेत्ततः ॥
देवालये समागत्य पुनः पूजनमारभेत्
॥२३॥नृत्यगानादिकार्येषु प्रहरं दिवसं नयेत् ॥
ततः पुराणश्रवणं यामार्धं सम्यगाचरेत्
॥२४॥पौराणिकस्य पूजां तु तुलसीपूजनं तथा ॥
कृत्वा माध्याह्निकं कर्म भुंजीत द्विदलोज्झितम्
॥२५॥बलिदानं वैश्वदेवमतिथीनां समर्पणम् ॥
कृत्वा भुंक्ते तु यो मर्त्यः केवलं चाऽमृतं हि तत्
॥२६॥यथाशक्ति द्विजा भोज्याः प्रत्यहं वाऽथ पर्वणि ॥
हविष्यभोजनं कुर्यादामिषं परिवर्जयेत्
॥२७॥भक्षयेत्तुलसीं वक्त्रशुद्ध्यर्थं तीर्थवारिणा ॥
संसारव्यवहारेण दिनशेषं समापयेत्
॥२८॥सायंकाले पुनर्गच्छेद्विष्णोर्देवालयं प्रति ॥
संध्यां कृत्वा प्रयुंजीत तत्र दीपन्यथाबलम्
॥२९॥विष्णुं प्रणम्य हरये कृत्वा नीराजनं शुभम् ॥
स्तोत्रपाठादिकं कुर्वन्नाद्ययामे तु जागरम्
॥३०॥यामे तु प्रथमेऽतीते निद्रां कुर्याद्विचक्षणः ॥
ब्रह्मचर्यव्रतं कुर्याद्भार्यामीयादृतौ तथा
॥३१॥तया कामयमानो वा भार्यां गच्छेन्न दोषभाक् ॥
एवं प्रतिदिनं कुर्यादामासं तु यथाविधि
॥३२॥एवं तु कार्तिके मासि यः कुर्यात्परमं व्रतम् ॥
सर्वपापविनिर्मुक्तो याति विष्णोः सलोकताम्
॥३३॥रोगापहं पातकनाशकृत्परं सद्बुद्धिदं पुत्रधनादिसाधकम् ॥
मुक्तेर्निदानं नहि कार्तिकव्रताद्विष्णुप्रियादन्यदिहाऽस्ति भूतले
॥३४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये नित्यकर्मकथनंनाम पंचमोऽध्यायः ॥ ५ ॥