मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय २७

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 27

चोलविष्णुदासमुक्तिकथनम्

नारद उवाच

कदाचिद्विष्णुदासोऽथ कृत्वा नित्यविधिं द्विज ॥

स पाकमकरोत्तावदहरत्कोऽप्यलक्षितः

॥१॥

तमदृष्ट्वाऽप्यसौ पाकं पुनर्नैवाऽकरोत्तदा ॥

सायंकालाऽर्चनस्याऽसौ व्रतभंगभयाद्द्विजः

॥२॥

द्वितीयेऽह्नि पुनः पाकं कृत्वा यावत्स विष्णवे ॥

उपहारार्पणं कर्तुं गतः कोऽप्यहरत्पुनः

॥३॥

एवं सप्तदिनं तस्य पाकं कोऽप्यहरन्नृप ॥

ततः सविस्मयश्चाथ मनस्येवमधारयत्

॥४॥

अहो नित्यं समभ्येत्य कः पाकं हरते मम ॥

क्षेत्रसंन्यासिनः स्थानं न त्याज्यं मम सर्वथा

॥५॥

पुनः पाकं विधायाऽत्र भुज्यते यदि चेन्मया ॥

सायंकालाऽर्चनं चैव परित्याज्यं कथं भवेत्

॥६॥

यदि पाकं विधायैवं भोक्तव्यं तु मया न तत् ॥

अनिवेद्य हरौ सर्वं वैष्णवैर्नैव भुज्यते

॥७॥

उपोषितोऽहं सप्ताऽहं तिष्ठाम्यत्र व्रतस्थितः ॥

अद्यसंरक्षणं सम्यक्पाकस्याऽत्र करोम्यहम्

॥८॥

इति पाकं विधायाऽसौ तत्रैवाऽलक्षितः स्थितः ॥

तावद्ददर्श चंडालं पाकान्नहरणे स्थितम्

॥९॥

क्षुत्क्षामं दीनवदनमस्थिचर्माऽवशेषितम् ॥

तमालोक्य द्विजाग्र्योऽभूत्कृपयाऽन्वितमानसः

॥१०॥

विलोक्याऽन्नहरं विप्रस्तिष्ठतिष्ठेत्यभाषत ॥

कथमश्नासि तद्रूक्षं घृतमेतद्गृहाण भोः

॥११॥

इत्थं वदंतं विप्राग्र्यमायांतं स विलोक्य च ॥

वेगादधावत्तद्भीत्या मृर्च्छितश्च पपात ह

॥१२॥

भीतं संमूर्च्छितं दृष्ट्वा चंडालं स द्विजाग्रणीः ॥

वेगादभ्येत्य कृपया स्ववस्त्रांतैरवीजयत्

॥१३॥

अथोत्थितं तमेवासौ विष्णुदासो व्यलोकयत् ॥

साक्षान्नारायणं देवं शंखचक्रगदाधरम्

॥१४॥

तं दृष्ट्वा सात्त्विकैर्भावैरावृतो द्विजसत्तमः ॥

स्तोतुं चैव नमस्कर्तुं तदा नाऽलं बभूव सः

॥१५॥

अथ शक्रादयो देवास्तत्रैवाभ्याययुस्तदा ॥

गंधर्वाप्सरसश्चाऽपि जगुश्च ननृतुर्मुदा

॥१६॥

विमानशतसंकीर्णं देवर्षिशतसंकुलम् ॥

गीतवादित्रनिर्घोषं स्थानं तदभवत्तदा

॥१७॥

ततो विष्णुः समालिंग्य स्वभक्तं सात्त्विकव्रतम् ॥

सारूप्यमात्मनो दत्त्वाऽनयद्वैकुण्ठमंदिरम्

॥१८॥

विमानवरसंस्थं तं गच्छंतं विष्णुसन्निधिम् ॥

दीक्षितश्चोलनृपतिर्विष्णुदासं ददर्श सः

॥१९॥

वैकुण्ठभुवनं यांतं विष्णुदासं विलोक्य सः ॥

स्वगुरुं मुद्गलं वेगादाहूयेत्थं वचोऽब्रवीत्

॥२०॥

चोल उवाच

यत्स्पर्द्धया मया चैव यज्ञदानादिकं कृतम् ॥

स विष्णुरूपधृग्विप्रो याति वैकुण्ठमंदिरम्

॥२१॥

दीक्षितेन मया सम्यक्सत्रेऽस्मिन्वैष्णवे त्वया ॥

हुतमग्नौ कृता विप्रा दानाद्यैः पूर्णमानसाः

॥२२॥

नैवाऽद्यापि स मे देवः प्रसन्नो जायते ध्रुवम् ॥

विष्णुदासस्य भक्त्यैव साक्षात्कारं ददौ हरिः

॥२३॥

तस्माद्दानैश्च यज्ञैश्च नैव विष्णुः प्रसीदति ॥

भक्तिरेव परं तस्य निदानं दर्शने विभोः

॥२४॥

गणावूचतुः

इत्युक्त्वा भागिनेयं स्वमभ्यषिंचन्नृपासने ॥

आबाल्याद्दीक्षितो यज्ञे ह्यपुत्रत्वमगाद्यतः

॥२५॥

तस्मादद्याऽपि तद्देशे सदा राज्यांऽशभागिनः ॥

स्वस्रेया एव जायंते तत्कृतावधिवर्तिनः

॥२६॥

यज्ञवाटं ततोऽभ्येत्य यज्ञकुण्डाग्रतः स्थितः ॥

त्रिरुच्चैर्व्याजहाराऽऽशु विष्णुं संबोधयंस्तदा

॥२७॥

विष्णो भक्तिं स्थिरां देहि मनोवाक्काय कर्मभिः ॥

इत्युक्त्वा सोऽपतद्वह्नौ सर्वेषामेव पश्यताम्

॥२८॥

मुद्गलस्तु तदा क्रोधाच्छिखामुत्पाटयत्स्वकाम् ॥

ततस्त्वद्यापि तद्गोत्रे मुद्गला विशिखा बभुः

॥२९॥

तावदाविरभूद्विष्णुः कुण्डाग्नौ भक्तवत्सलः ॥

तमालिंग्य विमानाग्र्यं समारोहयदच्युतः

॥३०॥

तमालिंग्याऽऽत्मसारूप्यं दत्त्वा वैकुण्ठमंदिरम् ॥

तेनैव सह देवेशो जगाम त्रिदशैर्वृतः

॥३१॥

नारद उवाच

यो विष्णुदासः स तु पुण्यशीलो यश्चोलभूपः स सुशीलनामा ॥

एतावुभौ तत्समरूपभाजौ द्वाःस्थौ कृतौ तेन रमाप्रियेण

॥३२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये चोलविष्णुदासमुक्तिकथनंनाम सप्तविंशोऽध्यायः ॥ २७ ॥