कार्तिकव्रतधर्मनिरूपणम्
ब्रह्मोवाच
अथ कार्तिकमासस्य धर्मान्वक्ष्यामि नारद ॥
संप्राप्तं कार्तिकं दृष्ट्वा परान्नं यस्तु वर्जयेत्
॥१॥स तु मोक्षमवाप्नोति नात्र कार्या विचारणा ॥
सर्वेषामेव धर्माणां गुरुपूजा परा मता ॥
गुरुशुश्रूषया सर्वं प्राप्नोति ऋषिसत्तम
॥२॥गुरौ तुष्टे च तुष्टाः स्युर्देवाः सर्वे सवासवा ॥
गुरौ रुष्टे च रुष्टाः स्युर्देवाः सर्वे सवासवाः
॥३॥कार्तिकं मासि संप्राप्ते कृत्वा कर्माणि भूरिशः
॥४॥अकृत्वा गुरुशुश्रूषां नरकानेव विंदति
॥४॥यत्किंचिद्वा समादिष्टो गुरुणा तत्समाचरेत्
॥५॥आज्ञप्तो गुरुणा विप्र न तद्वाक्यं तु लंघयेत् ॥
यदि दुःखादिकं प्राप्तं गुरुं तु शरणं व्रजेत्
॥६॥मातृत्वे च पितृत्वे च गुरुमेव स्मरेद्बुधः ॥
गुरौ न प्राप्यते यत्तन्नान्यत्राऽपि हि लभ्यते
॥७॥गुरुप्रसादात्सर्वं तु प्राप्नोत्येव न संशयः ॥
मेधावी कपिलश्चैव सुमतिश्च महातपाः ॥
गौतमस्य गुरोः सम्यक्सेवयाऽमरतां गताः
॥८॥* तस्मात्सर्वप्रयत्नेन कार्तिके विष्णुतत्परः ॥
गुरुसेवां प्रकुर्वीत ततो मोक्षमवाप्नुयात्
॥९॥नरेभ्यो वैष्णवं धर्मं यो ददाति द्विजोत्तमः ॥
ससागरमहीदाने तत्पुण्यं लभते हि सः
॥१०॥तिलधेनुं हिरण्यं च रजतं भूमिवाससी ॥
गोप्रदानानि दास्यंति सर्वभावेन सुव्रत
॥११॥सर्वेषामेव दानानां कन्यादानं विशिष्यते ॥
* सहस्रमेव धेनूनां शतं चानडुहां समम्
॥१२॥दशानडुत्समं यानं दशयानसमो हयः ॥
हयदान सहस्रेभ्यो गजदानं विशिष्यते
॥१३॥गजदानसहस्राणां स्वर्णदानं च तत्समम् ॥
स्वर्णदानसहस्राणां विद्यादानं च तत्समम्
॥१४॥विद्यादानात्कोटिगुणं भूमिदानं विशिष्यते ॥
भूमिदानसहस्रेण गोप्रदानं विशिष्यते
॥१५॥गोप्रदानसहस्रेभ्यो ह्यन्नदानं विशिष्यते ॥
अन्नाधारमिदं प्रोक्तं तस्माद्देयं तु कार्तिके
॥१६॥परान्नवर्जनादेव लभेच्चांद्रायणं फलम् ॥
दिनेदिनेऽतिकृच्छ्रस्य फलं प्राप्नोति मानवः
॥१७॥कार्तिके वर्जयेन्मांसं सन्धानं च विशेषतः ॥
राक्षसीं योनिमाप्नोति सकृन्मांसस्य भक्षणात्
॥१८॥प्रवृत्तानां तु भक्ष्याणां कार्तिके नियमे कृते ॥
अवश्यं विष्णुरूपत्वं प्राप्यते मोक्षदं पदम्
॥१९॥ब्राह्मणेभ्यो महीं दत्त्वा ग्रहणे सूर्यचंद्रयोः ॥
यत्फलं लभते वत्स तत्फलं भूमिशायिनः
॥२०॥भोजनं द्विजदंपत्योः पूजनं च विलेपनैः ॥
कंबलानि च रत्नानि वासांसि विविधानि च
॥२१॥तूलिकाश्च प्रदातव्याः प्रच्छादनपटैः सह ॥
उपानहावातपत्रं कार्तिके देहि सुव्रत
॥२२॥कार्तिके क्षितिशायी च हन्यात्पापं युगार्जितम् ॥
जागरं कार्तिके मासि यः करोत्यरुणोदये
॥२३॥दामोदराग्रे देवर्षे गोसहस्रफलं लभेत् ॥
नदीस्नानं कथा विष्णोर्वैष्णवानां च दर्शनम्
॥२४॥न भवेत्कार्तिके यस्य हरेत्पुण्यं दशाब्दिकम् ॥
पुष्करं यः स्मरेत्प्राज्ञः कर्मणा मनसा गिरा
॥२५॥कार्तिके मुनिशार्दूल लक्षकोटिगुणं भवेत् ॥
प्रयागो माघमासे तु पुष्करं कार्तिके तथा
॥२६॥अवन्ती माधवे मासि हन्यात्पापं युगार्जितम् ॥
धन्यास्ते मानवा लोके कलिकाले विशेषतः
॥२७॥ये कुर्वंति नरा नित्यं प्रीत्यर्थं हरिपूजनम् ॥
तारितास्तैश्च पितरो नरकाच्च न संशयः
॥२८॥क्षीरादिस्नपनं विष्णोः क्रियते पितृकारणात् ॥
कल्पकोटिं दिवं प्राप्य वसन्ति त्रिदिवैः सह
॥२९॥कार्तिके नार्चितो यैस्तु कृष्णस्तु कमलेक्षणः ॥
जन्मकोटिषु विप्रेन्द्र न तेषां कमला गृहे
॥३०॥अहो मुष्टा विनष्टास्ते पतिताः कलिकन्दरे ॥
यैर्नार्चितो हरिर्भक्त्या कमलैरसितैः सितैः
॥३१॥पद्मेनैकेन देवेशं योऽर्चयेत्कमलापतिम् ॥
वर्षायुतसहस्रस्य पापस्य कुरुते क्षयम् ॥
पुष्करार्चनयोगेन श्वेतो मुक्तिमवाप ह
॥३२॥* अपराधसहस्राणि तथा सप्तशतानि च ॥
पद्मेनैकेन देवेशः क्षमते प्रणतोऽर्चितः
॥३३॥तुलसीपत्रलक्षेण कार्तिके योऽर्चयेद्धरिम् ॥
पत्रेपत्रे मुनिश्रेष्ठ मौक्तिकं लभते फलम्
॥३४॥मुखे शिरसि देहे तु कृष्णोत्तीर्णां तु यो वहेत् ॥
तुलसी कृष्णनिर्माल्यैर्यो गात्रं परिमार्जयेत् ॥
सर्वरोगैस्तथा पापैर्मुक्तो भवति मानवः
॥३५॥शंखोदकं हरेर्भक्तिर्निर्माल्यं पादयोर्जलम् ॥
चन्दनं धूपशेषं च ब्रह्महत्यापहारकम्
॥३६॥कार्तिके मासि विप्रेन्द्र प्रातःस्नानपरायणः ॥
विप्रेभ्यश्चान्नदानं तु कुर्याच्छक्त्यनुसारतः
॥३७॥सर्वेषामेव दानानामन्नदानं विशिष्यते ॥
अन्नेन जायते लोको ह्यन्नेनैवाऽभिवर्द्धते
॥३८॥अन्नं हि सर्वभूतानां प्राणभूतं परं विदुः ॥
अन्नदः सर्वदो लोके सर्वयज्ञादिकृद्भवेत्
॥३९॥तीर्थस्नानेन किं तस्य देवयात्रादिनाऽपि किम् ॥
सर्वं संपाद्यते ब्रह्मन्नन्नदानान्न संशयः
॥४०॥सत्यकेतुर्द्विजः पूर्वं चान्नदानेन केवलम् ॥
सर्वपुण्यफलं प्राप्य मोक्षं प्राप सुदुर्लभम्
॥४१॥* कार्तिकव्रतनिष्ठस्तु कुर्याद्गोदानमुत्तमम् ॥
व्रतं संपूर्णतां याति गोदानेन न संशयः
॥४२॥गोदानात्परमं दानं संसारार्णवतारकम् ॥
नास्ति नारद लोकेऽस्मिन्सुशर्मा ब्राह्मणो यथा
॥४३॥* कार्तिके मासि विप्रेंद्र दत्त्वा दानान्यनेकशः ॥
हरिस्मृतिविहीनश्चेन्न पुनंति कदाचन
॥४४॥नामस्मरणमाहात्म्यं मया वक्तुं न शक्यते ॥
पुष्करेण यथा पूर्वं नारकीयाश्च मोचिताः
॥४५॥* गोविंद गोविंद हरे मुरारे गोविंद गोविंद् मुकुंद कृष्ण ॥
गोविंद गोविंद रथांगपाणे गोविंद दामोदर माधवेति
॥४६॥श्लोकार्द्धं श्लोकपादं वा नित्यं भागवतोद्भवम् ॥
कार्तिके यः पठन्मर्त्यः श्रद्धाभक्तिसमन्वितः
॥४७॥यैर्न श्रुतं भागवतं पुराणं नाराधितो वै पुरुषः पुराणः ॥
हुतं मुखे नैव धरामराणां तेषां वृथा जन्म गतं नराणाम्
॥४८॥कार्तिके मासि विप्रेंद्र यस्तु गीतां पठेन्नरः ॥
तस्य पुण्यफलं वक्तुं मम शक्तिर्न विद्यते
॥४९॥गीतायास्तु समं शास्त्रं न भूतं न भविष्यति ॥
सर्वपापहरा नित्यं गीतैका मोक्षदायिनी
॥५०॥एकेनाऽध्यायपाठेन सर्वपापकृतोऽपि च ॥
मुच्यंते नरकाद्घोराज्जडो वै ब्राह्मणो यथा
॥५१॥* शालिग्रामशिलादानं यः कुर्यात्कार्तिके मुने ॥
तस्य पुण्यस्य विश्रांतिर्विष्णुना न निरूपिता
॥५२॥* शालिग्रामं समभ्यर्च्य श्रोत्रियाय महामुने ॥
दानं यः कुरुते विप्र तस्य पुण्यफलं शृणु
॥५३॥सप्तसागरपर्यंतं भूदानाद्यत्फलं भवेत् ॥
शालिग्रामशिलादानात्तत्फलं समवाप्नुयात्
॥५४॥शालिग्रामशिलादानात्कार्तिके ब्राह्मणी यथा ॥
विधवा सधवा जाता विवाहे पंचमेऽहनि
॥५५॥* तस्मात्तु कार्तिके मासि स्नानदानपुरःसरम् ॥
शालिग्रामशिलादानं कर्तव्यं नाऽत्र संशयः
॥५६॥*
॥५७॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकव्रतधर्मनिरूपणंनाम द्वितीयोऽध्यायः ॥ २ ॥
२.४.२.८ गुरुसेवाप्रसादात्सर्वं प्राप्नोतीत्यत्र दृष्टांतमाह-मेधावी कपिलः सुमतिः इति त्रयः शिष्याः गौतमस्य ।
गुरोः उत्तमसेवया देवत्वं प्राप्ताः ॥
अत्र प्रसिद्धा कथा सारोद्धारोक्तकार्तिकमाहात्म्ये-पुरा भागीरथीतीरे सिद्धाश्रमे गौतमऋषेस्त्रयः शिष्याः मेधावी कपिलः सुमतिरिति, ते बाल्यादेव गुरुसेवातत्परा आसन्, एकदा गौतमस्तानाहूय उवाच-हे शिष्याः वने शीघ्रं गत्वा समित्पुष्पफलकुशा आनीयंताम्, ते च फलादिकं स्वल्पं गृहीत्वा मध्याह्ने गुरुनिकटं प्राप्ताः, तदा गौतमोऽतिक्रुद्धः सन्नुवाच हे शिष्याः यूयं प्रातरेव गताः अधुना तु मध्याह्नो जातः ।
फलादिकमपि स्वल्पमानीतं तर्हि एतावता कालेन किं कृतम्, हे दुर्वृत्ताः यदि जीवितुमिच्छथ तदा पुनः वनं गत्वा फलादीनि बहून्यादाय सत्वराः समागच्छत, तच्छ्रुत्वा भीताः क्षुत्क्षामकंठाः पुनरेव वनं ययुः, तत्र वनाद्वनं गच्छंतः पश्चिमाभिमुखाः तृषया परिपीडिताः एकस्मिन्सरोवरे स्नानं संध्यां च कृत्वा जलं पीत्वा फलादीनि विचिन्वंतोऽतिभयंकरं वनं विविशुः, तदानीं रात्रिश्च जाता।
सिंहव्याघ्रादीनां नादाश्च बभूवुः, तदा भीता मिथः प्रोचुः, अहो कष्टं महांधकारयुक्तेऽस्मिन्वने फलादीनि न पश्यामः, दिशो न जानीमः, किं गृहीत्वा गुरु सन्निधिं गच्छामः नः कथं भवेदिति भयातुरा इतस्ततो भ्रमंतस्तृणगुल्मसमावृते कूपे पतिताः, तत्र सर्पैर्दष्टा मृत्युं प्रापुः ।
अथ गौतमस्ताननागताञ्ज्ञात्वा स्वात्मानं बहु विनिंद्य प्रातर्भार्यया साकं वने तान्मृगयन्नेकस्मिन्कूपे मृतान्दृष्ट्वा विललाप, तदा सर्वाः स्वपापेनैवैते मृताः किमर्थं शोकः कार्य इति गौतमं सांत्वयांचक्रुः ।
अथ गौतम उवाच - कर्मणा मनसा वाचा पापमेभिः कदाचन ॥
न कृतं शिष्यवर्यैस्तैर्भवद्भिर्लोकनिष्ठुरैः ॥
वृथा संघातितास्ते तु कालमृत्युर्न चागतः ॥
तस्मान्न दोषो युष्माकं न चैषामपि पन्नगाः ॥
कर्तेषां यम एवाऽत्र यमं तस्माच्छपाम्यहम् ॥
इत्युक्त्वा जलमादाय यमं शप्तुं समुद्यतः ॥
” इति ।
तदा यमः सहसैव तत्रागत्योवाच-हे ऋषे ।
एषामकालमरणं न किंतु सर्पदंशनिमित्तेन महामृत्युकाल एवोपस्थितस्तस्माद्विचार्य शापं देहि नात्र ममापराधः ।
तदा गौतम उवाच-एवं सति एतैः सच्छिष्यैर्विना मम जीवितेन किं प्रयोजनम्, अतः मया यत्पुण्यमुपार्जितं यच्च तपस्तप्तं तेन पुण्येन तव कृपया च एते जीवनं प्राप्नुवंतु, एवमुक्ते ते सहसोत्थाय संहृष्टा अग्रतः गुरुं यमं च दृष्ट्वा ववंदिरे, गौतमः प्रीत्या तानालिंग्यातितुष्टः युष्माकं वरं दास्यामीत्युवाच-'सर्वान्वेदांश्च शास्त्राणि समस्तांगानि सुव्रताः ॥
इतिहासपुराणानि मत्प्रसादादवाप्स्यथ ॥
गुरुणैवं वरे दत्ते सेंद्रो गुरुरगात्ततः ॥
गौतमं प्रेतराजं च तांश्च विप्रानुवाच ह ॥
इन्द्रोहमस्मि भद्रं वः शृणुध्वं वचनं मम ॥
एतैर्द्विजैरतीवेह जिता लोकाश्च सर्वशः ॥
मम लोकमितस्तस्माद्गंतुमर्हथ सुव्रताः ॥
गौतमस्य प्रसादेन सदेहा एव गच्छत ॥
सामर्थ्यमेषां लोके च तव कीर्तिस्तथा मम ॥
कीर्तिश्च लोके ख्याता स्याद्गुरुपूजाफलं तथा ॥
" इत्युक्त्वा तान्विमाने चाऽऽरोप्य दिवं ययौ, यमः स्वपुरं गौतमश्च स्वाश्रमं ययाविति ॥
२.४.२.१२ कन्यादानफलमुक्तम्-"अष्टवर्षा भवेद्गौरी नववर्षा च रोहिणी ॥
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥
गौरीं ददद्ब्रह्मलोकं रोहिणीं सूर्यलोकं कन्यां स्वर्गलोकं रजस्वलां यमलोकं गच्छति ॥
यावंति चैव रोमाणि कन्यायास्तु तनौ सुत ॥
तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥
” इति ।
२.४.२.३२ श्वेतः श्वेतनृपः पुष्करार्चनयोगेन कमलपूजनेन मुक्तिं प्राप ॥
अत्र प्रसिद्धा कथा ब्राह्मे - पुरा काश्मीरदेशे श्वेतोनाम नृपः इष्टापूर्तकर्मनिष्ठः महावैष्णवः राज्ये पुत्रमभिषिच्य पुष्करक्षेत्रं गत्वा अतितीव्रेण तपसा स्वशरीरं शोषयन्नस्तोत् स्तुत्यंते स्वदेहान्निर्गतं महाभयंकरं पुरुषं दृष्ट्वा त्वं कोऽसि कुत आगतोऽसीत्यपृच्छत्, तदा व्याध उवाच - हे राजन् त्वं पूर्वजन्मनि जनस्थानीयो नृपः मृगयायां मृगरूपधरं मुनिं हतवान् तेन ब्रह्महा जातः, एकदा रात्रौ ब्रह्महत्याभयान्मुक्तो भवामीति विचिंत्य परमभक्त्या कार्तिके कमलैविष्णुं पूजयामासिथ, तदैव उदरव्याधितः कंठगतेन प्राणेन नारायणीनाम्नीं स्वपत्नीं संस्मरन्मृतः, तेन पुण्येन त्वं स्वर्गं गतः, अहमपि स्वेन तेजमा कल्पपर्यंतं तत्र तव निकटे स्थितः, ततः कल्पांते इदानीं स त्वं काश्मीरदेशे सुमनसः राज्ञः गृहे श्वेतनाम्ना जातः, अत्रापि विष्णोराराधनस्तोत्रपाठेन त्वं शुद्धः ।
अतः व्याधरूपेण तव देहादहं निर्गतः, शुद्धश्च जातः, तच्छ्रुत्वा विस्मितो राजा व्याधमुवाच, हे व्याध यतस्त्वया मम जन्मांतरं स्मारितं तस्मान्मत्प्रसादेन त्वं धर्मव्याधो भविष्यसि, इत्युक्त्वा विमानमारुह्य परं स्थानमवाप, तस्मात्-"सहस्रकमलैः पूजा कार्तिके मधुसूदने ।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि” इति ॥
२.४.२.४१ सत्यकेतुविषये कथामाह सारोद्धारे-पुरा सत्यजिन्नामा ब्राह्मणः धर्मशीलः सर्वकामेभ्यो यो निःस्पृहः सदा तीर्थयात्रापरः - "नान्येषु रमते चित्तं गंगां नित्यं स्मरत्यसौ ॥
भागीरथीं सुनिष्णातो विशेषेण महामुनिः ॥
” स तीर्थयात्रां कुर्वन्नेकदा विशालानगरीं गत्वा जनैर्दर्शितं सत्यकेतुगृहं प्रविवेश, तदा सत्यकेतुः तृट्परीतं क्षुधाविष्टं भोजनमिच्छंतं सत्यजितं दृष्ट्वा उत्थाय अर्घपाद्यपूजां कृत्वोवाच-हे द्विजोत्तम तवागमनेनाऽद्य मम जन्मनः साफल्यं जातम् ।
पितरस्तृप्ताः, देवाश्च सुप्रीता जाताः, हे द्विजेन्द्र इच्छितं भोजनं कुरु, त्वयि भुक्ते मे किंचित्कर्तव्यं नावशिष्यते, तव दर्शनादप्राप्यं न हि विद्यते, तदा सत्यजिदुवाच - हे सत्यकेतो तव शुश्रूषया वाक्येन च तृप्तोऽस्मि ।
किं च, अन्नदातारः लोके बहवः संति तत्र त्वया सदृशः कोपि न दृष्टः त्वं गृहस्थाश्रमिणां मध्ये श्रेष्ठोऽसि ।
त्वया गंगायात्रा कृता न वा, तदा सत्यकेतुरुवाच - हे द्विज, मद्गृहे अतिथीनामन्नदाता अन्यः कोऽपि नास्ति तेनाऽद्यापि भागीरथीस्नानं न जातं तच्छ्रुत्वा सत्यजितं विनिंदस्त्वया भागीरथीस्नानं न कृतम् अतः त्वद्गृहेऽद्य न भोक्ष्यामीत्युक्त्वा गृहान्निर्गत्य स्नानार्थं भागीरथीं गतः, तदैव गंगा अंतर्हिताऽभवत, स यदा जलं नापश्यत्तदा कृतांजलिर्गंगां तुष्टाव, हे देवि मया अणुमात्रोऽप्यपराधो न कृतः, मे दर्शनं देहि, अन्यायं क्षंतुमर्हसि, इति स्तुता गंगा प्रत्यक्षमूर्त्या द्विजमाह--हे सत्यजित् त्वं सत्यकेतुगृहं गत्वा तं प्रसाद्य अन्नं भुक्त्वा पुनरागच्छ तदन्नभोजनेन बहवो मोक्षं गताः, इति गंगावचः श्रुत्वा सत्यकेतुगृहे भोजनं कृत्वा, तदनुज्ञातः गंगामागतः गंगां दृष्ट्वा स्नानं चकार एवं सत्यकेतुः केवलमन्नदानपुण्येन सद्गतिं प्राप इति ।
२.४.२.४३ कश्चित्सुशर्मानाम ब्राह्मणः वेदवेदांगपारगः शांतो जितेंद्रियः सर्वयज्ञकर्ता धनी नित्यदानपरः सर्वेषां हिते रतः पुराणवक्ता बंधूनां हितकृत् बहुपुत्रवान् आसीत्, स च उत्तरे वयसि गृहभारं पुत्रेषु समर्प्य वनं गत्वा श्रीविष्णुमाराधयन् स्वीयतपसा स्वर्गं प्राप, तत्रैकदा यमदूतैः पराजितान्देवदूतान्प्रति इंद्रः प्रोवाच-हे दूताः धर्मिष्ठाः, ममाऽऽज्ञया दिवं यांतु पापिष्ठाः नरकं यांतु तत्रापि ये गोप्रदातारः ते पापिनोऽपि दिवं यांतु, गोदानेन पापराशिर्नश्यति, एतदिंद्रवचः श्रुत्वा सुशर्मा ब्राह्मणः स्वपुत्रानुपदेष्टुमंतरिक्षमार्गेण पुत्रान्संबोध्य प्रोवाच - हे पुत्राः यूयं यदि स्वर्गमीप्सथ तदा मद्वाक्याद्गोदानं कर्तव्यं, गोदानात्परमन्यद्दानं त्रिलोके नास्तीति उक्त्वा गतः, ते पुत्राश्च अशरीरवाचं श्रुत्वा विस्मिताः संतः सर्वेऽपि विधिना गोप्रदानं चक्रुः, तेन सद्गतिं प्राप्ताः ।
२.४.२.४५ पुष्करविषये प्रसिद्धा कथा सारोद्धारे - पुरा नंदिग्रामे पुष्करनामानौ द्वौ ब्राह्मणौ निवसतः तत्रैकः पुण्यात्मा, अपरः पापी, अथैकदा यमः पापिपुष्करानयने दूतानाज्ञापयत, ते च तं विहाय पुण्यवंतं पुष्करमानीतवंतः, तदा यमः दूतान्निर्भर्त्स्य बहुसंमानपूर्वकं पुष्करमुवाच-हे पुष्कर तवाऽऽनयने ममाज्ञा न त्वं पुनर्गच्छ तदा पुष्कर उवाच-हे यम अहं नरकान्द्रष्टुमिच्छामि, यत्र पापिभिर्यातना अनुभूयंते, ततो यमदर्शितं हाहाकाररवाकुलमतिदुःखितं नारकीयगणं दृष्ट्वाऽतिसंत्रस्तो दयापरः पुष्करस्तानुवाच--हे नारकाः पूर्वं किमपि न विचारितम् अधुना हाहाकारेण किं प्रयोजनं सर्वपापक्षयकरं भगवन्नामापि न गृहीतम्।
नारका ऊचुः-हे पुष्कर त्वयोक्तं सत्यं क्षणं तिष्ठ तवांगस्पर्शवायुनाऽस्माकं सुखं भविष्यति, तदा एतैः किं प्रयोजनं त्वं गच्छेति यमेनोक्तः पुष्कर उवाच-हे यम एतानमोचयित्वाऽहं गंतु नोत्सहे अतो मया सर्वभूतात्मा भगवान्गोविंद आराधितश्चेत्तेन पुण्येन एते नारका मुक्ता भवंतु एवमुक्त्वा गोविंदगोविंदेति विष्णोर्नामस्मरणमकरोत् ।
तदैव सर्वे नारकाः मुक्ताः दिव्यरूपधराः तव कीर्तिरतुला भविष्यतीति पुष्करमुक्तवंतो वैकुंठं ययुः, पुष्करोऽपि यममामंत्र्य नाममहिम्नैव परं पदं गतवानिति
॥४५॥२.४.२.५१ यथा जडोनाम ब्राह्मणः गीताध्यायश्रवणेन मुक्तोऽभूत् ।
अत्र प्रसिद्धा कथा सारोद्धारे-विदर्भनगरे कौशिकान्वयः जडोनाम ब्राह्मणः स्वधर्मं विहाय परस्त्रीगामी, मद्यपश्चौर्यकर्मरतः आसीत् ॥
स एकदा उत्तरदिक्तः चौर्येणाऽतीव धनं गृहीत्वा आगच्छन्मार्गे तरोर्मूले चौरैर्घातितः, ततस्तत्पुत्रः पितरं नित्यमन्वेषयन्वार्तामपि नोपलब्धवान् ततः पितुः पारलौकिकं कर्म कर्तुं संभारान्गृहीत्वा वाराणसीं गंतुमुपचक्र मे, मार्गे सप्ताष्टौ निवासान्नीत्वा एकस्मिंस्तरोर्मूले यत्र पूर्वं पिता निहतः तत्र संध्यां कृत्वा गीतायास्तृतीयाऽध्यायं जजाप, तदैव घोरशब्दं श्रुत्वा आकाशादुत्पतंतं विमानवरसंस्थितं दिव्यरूपवरं पितरं दृष्ट्वा प्रणम्य वृत्तांतमपृच्छत् ।
स च पिता आह-हे पुत्र यदर्थं वाराणसीं गंतव्यं, तत्सर्वमद्य कृतं; त्वं कृतकार्योऽसि निवर्तस्य ॥
गीताध्यायपठनेन त्वयाऽहं मोचितः, किंच-हे पुत्र मम भ्राता अन्ये मदन्वयाश्च नरकं प्रतिपेदिरे, ते सर्वे त्वया गीतापठनपुण्यदानेन मोचितव्याः, इत्युत्क्त्वा आशिषं दत्त्वा विष्णुपदं ययौ ॥
पुत्रोऽपि कालेन यमलोकं गत्वा गीतापाठजं पुण्यं दत्त्वा नारकीयान्मोचयित्वा स्वयमपि परं पदं ययाविति
॥५१॥२.४.२.५२ अथ कार्तिके शालिग्राम शिलादानप्रशंसामाह-शालिग्रामेति ॥
यथा ब्राह्मणी विवाहात्पंचमदिवसे भर्तृमरणयोगेन विधवा जाता, परंतु शालिग्रामशिलादानेन भर्ता जीवनं प्राप तेन सधवा जाता, अत्र प्रसिद्धा कथा सारोद्धारे-गोदातीरे कश्चिद्वैश्यः महापापरतः दुराचारः आसीत, स कदाचिदृणग्राहिणं ब्राह्मणं खड्गेनाघातयत्, ततः मरणांते रौरवनरके पतितः अथ धर्मचारोनाम तत्पुत्रः पित्रार्जितं धनं यज्ञदानव्रतजपतपइष्टापूर्तपरोपकारादिसन्मार्गेण व्ययीचकार, एकदा धर्मचारवैश्यगृहे लोमशमुनिरागत्य त्वं शालिग्रामशिलादानपुण्येन पितरं रौरवान्मोचयेत्युपदिदेश, तदा सः शिलादानं व्यर्थमिति मत्वा ऋषिवचनमनादृत्य तूष्णी स्थितः कालेन ममार च लोमशोऽपि तूष्णीं ययौ, स धर्मचारवैश्यः शिलाया अनादराद्विप्रवाक्यस्य लंघनान्मन्वंतरं नरकयातनां भुक्त्वा कर्मशेषेणाऽनेकपशुयोनिं भुक्त्वा स्त्रीजन्मानि च भुक्त्वा एकादशे जन्मनि याजकब्राह्मणस्य कन्या अभवत्, तदा पिता प्राप्तयौवनां कन्यां दृष्ट्वा समानकुलगोत्राय दत्त्वा विवाहमकरोत् अथ तद्भर्ता पंचमेऽहनि वमनरोगतः मृतः, तदा याजकः जामातरं मृतं दृष्ट्वा जामाता केन जीवेदिति क्षणमात्रं विचार्य कार्तिके शालिग्रामस्य दानं जीवने कारणमिति मत्वा सुलक्षणं मनोहरं शालिग्रामं पुत्र्या हस्तेन विप्राय दापयामास, तदा तत्क्षणादेव पतिः जीवनं प्रापं, ततः तौ दंपती चिरकालं चिक्रीडतुः, कालांतरे सा याजकसुता शालग्रामदानपुण्येन स्त्रीजन्मतो विनिर्मुक्ता सती विष्णुयशोनामकब्राह्मणजन्म लब्ध्वा प्रतिवर्षं कार्तिके शालिग्रामदानपुण्येन मोक्षं प्रापेति
॥५५॥शिलादानप्रसंगेन शिलालक्षणमाह पाद्मे-"चक्रांकितं हिरण्यांगं रश्मिजालं विनिर्दिशेत् ॥
सुवर्णरेखाबहुलं स्फटिक द्युतिशोभितम् ॥
अतिस्निग्धा सिद्धिकरी कृष्णा कीर्तिं ददाति च ॥
पांडुरा पापदहनी पीता पुत्रफलप्रदा ॥
नीला प्रयच्छते लक्ष्मीं रक्ता रोगप्रदायिनी ॥
रूक्षा उद्वेगजननी वक्रा दारिद्र्यभागिनी ॥
एकं सुदर्शनं ज्ञेयं लक्ष्मीनारायणं द्वयम् ॥
तृतीयं चाऽच्युतं विद्याच्चतुर्थं तु जनार्दनम् ॥
पंचमं वासुदेवं च षष्ठं प्रद्युम्नमेव च ॥
संकर्षणं सप्तमं च अष्टमं पुरुषोत्तमम् ॥
नवमं च नवव्यूहं दशमं तु दशात्मकम् ॥
एकादशं चाऽनिरुद्धं द्वादशं द्वादशात्मकम् ॥
अत ऊर्ध्वं तु चक्राणि दृश्यंतेऽनंतसंज्ञके ॥
खंडिते त्रुटिते भग्ने शालिग्रामे न दोषभाक् ॥
” इति ।
२.४.२.५५ यथा ब्राह्मणी विवाहात्पंचमदिवसे भर्तृमरणयोगेन विधवा जाता, परंतु शालिग्रामशिलादानेन भर्ता जीवनं प्राप तेन सधवा जाता, अत्र प्रसिद्धा कथा सारोद्धारे - गोदातीरे कश्चिद्वैश्यः महापापरतः दुराचारः आसीत्, स कदाचिदृणग्राहिणं ब्राह्मणं खड्गेनाघातयत्, ततः मरणांते रौरवनरके पतितः अथ धर्मचारोनाम तत्पुत्रः पित्रार्जितं धनं यज्ञदानव्रतजपतपइष्टापूर्तपरोपकारादिसन्मार्गेण व्ययीचकार, एकदा धर्मचारवैश्यगृहे लोमशमुनिरागत्य त्वं शालिग्रामशिलादानपुण्येन पितरं रौरवान्मोचयेत्युपदिदेश, तदा सः शिलादानं व्यर्थमिति मत्वा ऋषिवचनमनादृत्य तूष्णीं स्थितः कालेन ममार च लोमशोऽपि तूष्णीं ययौ, स धर्मचारवैश्यः शिलाया अनादराद्विप्रवाक्यस्य लंघनान्मन्वंतरं नरकयातनां भुक्त्वा कर्मशेषेणाऽनेकपशुयोनिं भुक्त्वा स्त्रीजन्मानि च भुक्त्वा एकादशे जन्मनि याजकब्राह्मणस्य कन्या अभवत्, तदा पिता प्राप्तयौवनां कन्यां दृष्ट्वा समानकुलगोत्राय दत्त्वा विवाहमकरोत् अथ तद्भर्ता पंचमेऽहनि वमनरोगतः मृतः, तदा याजकः जामातरं मृतं दृष्ट्वा जामाता केन जीवदिति क्षणमात्रं विचार्य कार्तिके शालिग्रामस्य दानं जीवने कारणमिति मत्वा सुलक्षणं मनोहरं शालिग्रामं पुत्र्या हस्तेन विप्राय दापयामास, तदा तत्क्षणादेव पतिः जीवनं प्रापं, ततः तौ दंपती चिरकालं चिक्रीडतुः, कालांतरे सा याजकसुता शालग्रामदानपुण्येन स्त्रीजन्मतो विनिर्मुक्ता सती विष्णुयशोनामकब्राह्मणजन्म लब्ध्वा प्रतिवर्षं कार्तिके शालिग्रामदानपुण्येन मोक्षं प्रापेति
॥५५॥२.४.२.५६ शिलादानप्रसंगेन शिलालक्षणमाहपाद्मे-"चक्रांकितं हिरण्यांगं रश्मिजालं विनिर्दिशेत् ॥
सुवर्णरेखाबहुलं स्फाटिकद्युतिशोभितम् ॥
अतिस्निग्धा सिद्धिकरी कृष्णा कीर्तिं ददाति च ॥
पांडुरा पापदहनी पीता पुत्रफलप्रदा ॥
नीला प्रयच्छते लक्ष्मीं रक्ता रोगप्रदायिनी ॥
रूक्षा उद्वेगजननी वक्रा दारिद्र्यभागिनी ॥
एकं सुदर्शनं ज्ञेयं लक्ष्मीनारायणं द्वयम् ॥
तृतीयं चाऽच्युतं विद्याच्चतुर्थं तु जनार्दनम् ॥
पंचमं वासुदेवं च षष्ठं प्रद्युम्नमेव च ॥
संकर्षणं सप्तमं च अष्टमं पुरुषोत्तमम् ॥
नवमं च नवव्यूहं दशमं तु दशात्मकम् ॥
एकादशं चाऽनिरुद्धं द्वादशं द्वादशात्मकम् ॥
अत ऊर्ध्वं तु चक्राणि दृश्यतेऽनंतसंज्ञके ॥
खंडिते त्रुटिते भग्ने शालिग्रामे न दोषभाक् ॥
” इति ।
एवं दामोदरादिमूर्तीनां लक्षणं वर्तते ग्रंथविस्तरभयान्नोच्यते इति
॥५६॥