वत्सद्वादशीयमत्रयोदशीनरकचतुर्दशीदीपावलीकृत्यवर्णनम्
वालखिल्या ऊचुः
कृष्णः प्रोवाच धर्माय द्वादशीं वत्ससंज्ञिताम् ॥
गोधूलिकालसंयुक्ता द्वादशी वत्सपूजने
॥१॥वत्सपूजा वटे चैव कर्तव्या प्रथमेऽहनि ॥
सवत्सां तुल्यवर्णां च शीलिनीं गां पयस्विनीम् ॥
चंदनादिभिरालिप्य पुष्पमालाभिरर्चयेत्
॥२॥तद्दिने तैलपक्वं च स्थालीपक्वं युधिष्ठिर ॥
गोक्षीरं गोघृतं चैव दधिक्षीरं च वर्जयेत्
॥३॥दिनांते सूर्यबिंबार्धादुभयत्र घटीदलम् ॥
ततो नीराजनं कार्य्यं निरीक्षेच्च शुभाऽशुभम्
॥४॥नानादीपान्प्रकल्प्याऽऽदौ स्वर्णपात्रादि संस्थितान् ॥
नीराजयेद्दीपपूर्वं निरीक्षेत शुभाऽशुभम्
॥५॥लापयित्वा सर्वदीपानुत्तराभिमुखान्न्यसेत् ॥
मुख्या दीपा नव प्रोक्ता अन्यानपि च कल्पयेत्
॥६॥ज्वाला चेद्दक्षिणासंस्था सतेजस्का शिखान्विता ॥
स्थिरा चेत्सौख्यदा प्रोक्ता विपरीता तु दुःखदा
॥७॥कार्तिके कृष्णपत्रे तु द्वादश्यादिषु पंचसु ॥
तिथिषूक्तः पूर्वरात्रे नृणां नीराजनाविधिः
॥८॥पक्षं संसूचयत्यादिर्द्वितीयो मासमेव च ॥
तृतीय ऋतुमेवेह चतुर्थस्त्वयनं तथा ॥
वर्षं तु पंचमो दीपः शुभाशुभं विनिर्णयेत्
॥९॥सूर्यांशसंभवा दीपा अंधकारविनाशकाः ॥
त्रिकाले मां दीपयंतु दिशंतु च शुभाऽशुभम्
॥१०॥अभिमंत्र्य च मंत्रेण ततो नीराजयेत्क्रमात्
॥११॥आदौ देवांस्ततो विप्रान्हस्तिनश्च तुरंगमान् ॥
ज्येष्ठाञ्च्छ्रेष्ठाञ्जघन्यांश्च मातृमुख्याश्च योषितः
॥१२॥ततो नीराजितान्दीपान्स्वस्वस्थानेषु विन्यसेत् ॥
रूक्षैर्लक्ष्मीविनाशः स्याच्छ्वेतैरन्नक्षयो भवेत् ॥
अतिरक्तेषु युद्धानि मृत्युः कृष्णशिखेषु च
॥१३॥एकांगीनाम गोपाला तयैतच्च व्रतं कृतम् ॥
धनधान्यसमायुक्ता जाता वर्षत्रयेण सा
॥१४॥* तस्माद्गोपूजनं कार्यं द्वादश्यां कार्तिकस्य तु ॥
एतद्गोव्रतमाहात्म्यं श्रुत्वा कुर्वंति ये नराः
॥१५॥ते गोव्रतप्रभावेन न गोभिर्विच्युता भुवि ॥
गोऽपराधः कृतो यः स्यात्स व्रताद्विलयं व्रजेत्
॥१६॥वालखिल्या ऊचुः
कृष्णपक्षे चतुर्दश्यां मासि चाऽऽश्वयुजे तथा ॥
दीपोत्सव समीपे तु व्रतमेतत्समाचरेत्
॥१७॥प्रातः स्नात्वा त्रयोदश्यां कृत्वा वै दंतधावनम् ॥
त्रिरात्रनियमं कृत्वा गोविंदे भक्तितत्परः
॥१८॥कार्य एतद्व्रतस्यांते तथा गोवर्द्धनोत्सवः ॥
त्रिमुहूर्ताऽधिका ग्राह्या परवेधो न दोषभाक्
॥१९॥आश्विनस्याऽसिते पक्षे त्रयोदश्यां निशामुखे ॥
यमदीपं बलिं दद्यादपमृत्युर्विनश्यति
॥२०॥पुरा हेमनकस्यैव बालकश्चाऽपमृत्युतः ॥
मुक्तोभूदाश्विने कृष्णत्रयोदश्यां दयावशात्
॥२१॥दूता ऊचुः
यथा न जीविताद्भ्रश्येदीदृशे तु महोत्सवे ॥
तथोपायं ब्रूहि यम कृपां कृत्वाऽस्मदग्रतः
॥२२॥यम उवाच
आश्विनस्याऽसिते पक्षे त्रयोदश्यां निशामुखे ॥
प्रतिवर्षं तु यो दद्याद्गृहद्वारे सुदीपकम्
॥२३॥मन्त्रेणाऽनेन भो दूताः समानेयः स नोत्सवे ॥
प्राप्तेऽपमृत्यावपि च शासनं क्रियतां मम
॥२४॥मृत्युना पाशदंडाभ्यां कालेन च मया सह ॥
त्रयोदश्यां दीपदानात्सूर्यजः प्रीयतामिति
॥२५॥मन्त्रेणानेन यो दीपं द्वारदेशे प्रयच्छति ॥
उत्सवे चाऽपमृत्योश्च भयं तस्य न जायते
॥२६॥वालखिल्या ऊचुः
पूर्वविद्धचतुर्दश्यामाश्विनस्य सितेतरे ॥
पक्षे प्रत्यूषसमये स्नानं कुर्यात्प्रयत्नतः
॥२७॥अरुणोदयतोऽन्यत्र रिक्तायां स्नाति यो नरः ॥
तस्याऽब्दिकभवो धर्मो नश्यत्येव न संशयः
॥२८॥तथा कृष्णचतुर्दश्यामाश्विनेऽर्कोदये सुराः ॥
यामिन्याः पश्चिमे यामे तैलाभ्यंगो विशिष्यते
॥२९॥यदा चतुर्दशी न स्याद्द्विदिने चेद्विधूदये ॥
दिनद्वये भवेच्चाऽपि तदा पूर्वैव गृह्यते
॥३०॥बलात्काराद्धठाद्वाऽपि शिष्टत्वान्न करोति चेत् ॥
तैलाभ्यंगं चतुर्दश्यां रौरवं नरकं व्रजेत्
॥३१॥तैले लक्ष्मीर्जले गंगा दीपावल्याश्चतुर्दशीम् ॥
प्रातःस्नानं हि यः कुर्याद्यमलोकं न पश्यति
॥३२॥अपामार्गमथो तुंबीं प्रपुन्नाडमथाऽपरम् ॥
भ्रामयेत्स्नानमध्ये तु नरकस्य क्षयाय वै
॥३३॥वारत्रयं त्रिवारं च पठित्वा मन्त्रमुत्तमम्
॥३४॥सीतालोष्टसमायुक्त सकंटकदलान्वित ॥
हर पापमपामार्ग भ्राम्यमाणः पुनः पुनः ॥
अपामार्गं प्रपुन्नाडं भ्रामयेच्छिरसोपरि
॥३५॥स्नात्वार्द्रवाससा दद्याद्दीपकं मृत्युपुत्रयोः ॥
शुनकौ श्यामशबलौ भ्रातरौ यमसेवकौ ॥
तुष्टौ स्यातां चतुर्दश्यां दीपदानेन मृत्युजौ
॥३६॥इष्टवंधुजनैः सार्द्धमेतत्स्नानं समाचरेत् ॥
स्नानांगतर्पणं कृत्वा यमं संतर्पयेत्ततः
॥३७॥यमाय धर्मराजाय मृत्यवे चाऽन्तकाय च ॥
वैवस्वताय कालाय सर्वभूतक्षयाय च
॥३८॥औदुंबराय दध्नाय नीलाय परमेष्ठिने ॥
वृकोदराय चित्राय चित्रगुप्ताय ते नमः
॥३९॥चतुर्दशैते मन्त्राः स्युः प्रत्येकं च नमोऽन्विताः ॥
एकैकेन तिलैर्मिश्रान्दद्यात्त्रीनुदकाञ्जलीन्
॥४०॥यज्ञोपवीतिना कार्यं प्राचीनावीतिनाऽथवा ॥
देवत्वं च पितृत्वं च यमस्याऽस्ति द्विरूपता
॥४१॥जीवत्पिताऽपि कुर्वीत तर्पणं यमभीष्मयोः ॥
नरकाय प्रदातव्यो दीपः संपूज्य देवताः
॥४२॥* अत्रैव लक्ष्मीकामस्य विधिः स्नाने मयोच्यते ॥
इषे भूते च दर्शे च कार्तिके प्रथमे दिने
॥४३॥यदा स्नाति तदाऽभ्यंगस्नानं कुर्याद्विधूदये।
ऊर्ज्जशुक्लद्वितीयायां तिथौ च स्वातियुग्मगे
॥४४॥मानवो मंगलस्नायी नैव लक्ष्म्या वियुज्यते ॥
दीपैर्नीराजनादत्र सैषा दीपावलिः स्मृता
॥४५॥इंदुक्षयेऽपि संक्रातौ रवौ पाते दिनक्षये ॥
अत्राऽभ्यंगो न दोषाय प्रातः पापाऽपनुत्तये
॥४६॥माषपत्रस्य शाकं वै भुक्त्वा तस्मिन्दिने नरः ॥
प्रेताख्यायां चतुर्दश्यां सर्वपापैः प्रमुच्यते
॥४७॥इषासितचतुर्दश्यामिन्दुक्षयतिथावपि ॥
दर्शादौ स्वातिसंयुक्ते तदा दीपावलिर्भवेत्
॥४८॥कुर्यात्संलग्नमेतच्च दीपोत्सवदिनत्रयम् ॥
महाराजो बलिः प्रोक्तस्तुष्टेन हरिणा तथा
॥४९॥वरं याचस्व भद्रं ते यद्यन्मनसि वर्तते ॥
इति विष्णुवचः श्रुत्वा बलिर्वचनमब्रवीत्
॥५०॥आत्मार्थं किं याचनीयं सर्वं दत्तं मया तथा ॥
लोकार्थं याचयिष्यामि शक्तश्चेद्देहि तच्च मे
॥५१॥मयाऽद्य ते धरा दत्ता वामनच्छद्मरूपिणे ॥
त्रिभिः पदैस्त्रिदिवसैः सा चाऽऽक्रांता यतस्त्वया
॥५२॥तस्माद्भूमितले राज्यमस्तु घस्रत्रये हरे
॥५३॥मद्राज्ये ये दीपदानं भुवि कुर्वंति मानवाः ॥
तेषां गृहे तव स्त्रीयं सदा तिष्ठतु सुस्थिरा
॥५४॥मम राज्ये गृहे यैषामंधकारः पतिष्यति ॥
लक्ष्मीसंतानांधकारः सदा पततु तद्गृहे
॥५५॥चतुर्दश्यां च ये दीपान्नरकाय ददंति च ॥
तेषां पितृगणाः सर्वे नरके न वसंति च
॥५६॥बलिराज्यं समासाद्य यैर्न दीपावलिः कृता ॥
तेषां गृहे कथं दीपाः प्रज्वलिष्यंति केशव
॥५७॥बलिराज्ये तु ये लोकाः शोकाऽनुत्साहकारिणः ॥
तेषां गृहे सदा शोकः पतेदिति न संशयः
॥५८॥चतुर्दशीत्रये राज्यं बलेरस्त्विति याचयेत् ॥
पुरा वामनरूपेण प्रार्थयित्वा धरामिमाम् ॥
ददावतिथयेंद्राय बलिं पातालवासिनम्
॥५९॥दत्तं दैत्यपतेरित्थं हरिणा तद्दिनत्रयम् ॥
तस्मान्महोत्सवं चात्र सर्वथैव हि कारयेत्
॥६०॥महारात्रिः समुत्पन्ना चतुर्दश्यां मुनीश्वराः ॥
अतस्तदुत्सवः कार्यः शक्तिपूजापरायणैः
॥६१॥बलिराज्यं समासाद्य यक्षगंधर्वकिन्नराः ॥
औषध्यश्च पिशाचाश्च मंत्राश्च मणयस्तथा
॥६२॥सर्व एव प्रहृष्यंति नृत्यंति च निशामुखे ॥
तत्तन्मंत्राश्च सिद्ध्यंति बलिराज्ये न संशयः
॥६३॥बलिराज्यं समासाद्य यथा लोकाः सुहर्षिताः ॥
तथा तद्दिनमध्ये तु लोकाः स्युर्हर्षिता भृशम्
॥६४॥तुलासंस्थे सहस्रांशौ प्रदोषे भूतदर्शयोः ॥
उल्काहस्ता नराः कुर्युः पितॄणां मार्गदर्शनम्
॥६५॥नरकस्थास्तु ये प्रेतास्ते मार्गं तु व्रतात्सदा ॥
पश्यंत्येव न संदेहः कार्योऽत्र मुनिपुंगवैः
॥६६॥आश्विने मासि भूतादितिथयः कीर्तितास्त्रयः ॥
दीपदानादिकार्येषु ग्राह्या मध्याह्नकालिकाः
॥६७॥यदि स्युः संगवादर्वागेताश्च तिथयस्त्रयः ॥
दीपदानादिकार्येषु कर्तव्याः पूर्वसंयुताः
॥६८॥ऋषय ऊचुः
कौमोदिन्यास्तु माहात्म्यं प्रष्टुमिच्छामहे द्विजाः ॥
तस्मिन्दिने तु किं भोज्यं कस्य पूजां तु कारयेत्
॥६९॥किमर्थं क्रियते सा तु तस्याः का देवता भवेत् ॥
किं च तत्र भवेद्देयं किं न देयं विशेषतः
॥७०॥प्रहर्षः कोऽत्र निर्दिष्टः क्रीडा काऽत्र प्रकीर्तिता ॥
दीपावल्याः फलं सर्वं वदन्तु ऋषिसत्तमाः
॥७१॥वालखिल्या ऊचुः
ततः प्रभात समये त्वमायां तु मुनीश्वराः ॥
स्नात्वा देवान्पितॄन्भक्त्या संपूज्याऽथ प्रणम्य च
॥७२॥कृत्वा तु पार्वणश्राद्धं दधिक्षीरघृतादिभिः ॥
दिवा तत्र न भोक्तव्यमृते बालातुराज्जनात्
॥७३॥ततः प्रदोषसमये पूजयेदिंदिरां शुभाम् ॥
कुर्यान्नानाविधैर्वस्त्रैः स्वच्छं लक्ष्म्याश्च मण्डपम्
॥७४॥नानापुष्पैः पल्लवैश्च चित्रैश्चाऽपि विचित्रितम् ॥
तत्र संपूजयेल्लक्ष्मीं देवांश्चाऽपि प्रपूजयेत्
॥७५॥संपूज्या देवनार्योऽपि वहुभिश्चोपचारकैः ॥
पादसंवाहनं कुर्याल्लक्ष्म्यादीनां तु भक्तितः
॥७६॥अस्मिन्नहनि सर्वेऽपि विष्णुना मोचिताः पुरा ॥
बलिकारागृहाद्देवा लक्ष्मीश्चाऽपि विमोचिता
॥७७॥लक्ष्म्या सार्द्धं ततो देवा जग्मुः क्षीरोदधौ पुनः ॥
प्रसुप्ता बहुकालं ते सुखं तस्मान्मुनीश्वराः
॥७८॥रचनीयाः सूत्रगर्भाः पर्यंकाश्च सुतूलिकाः ॥
दुग्धफेनोपमैर्वस्त्रैरास्तृताश्च यथादिशम्
॥७९॥स्थापयेत्तान्सुराँल्लक्ष्मीं वेदघोषसमन्वितः ॥
लक्ष्मीर्दैत्यभयान्मुक्ता सुखं सुप्तांबुजोदरे
॥८०॥अतोऽत्र विधिवत्कार्या तुष्ट्यै तु सुखसुप्तिका ॥
तदह्नि पद्मशय्यां यः पद्मासौख्यविवृद्धये
॥८१॥कुर्यात्तस्य गृहं मुक्त्वा तत्पद्मा क्वाऽपि न व्रजेत् ॥
न कुर्वंति नरा इत्थं लक्ष्म्या ये सुखसुप्तिकाम्
॥८२॥धनचिन्ता विहीनास्ते कथं रात्रौ स्वपंति हि ॥
तस्मात्सर्वप्रयत्नेन लक्ष्मीं संपूजयेन्नरः
॥८३॥स तु दारिद्र्यनिर्मुक्तः स्वजातौ स्यात्प्रतिष्ठितः ॥
जातिपत्रलंवगैलात्वक्कर्पूरसमन्वितम्
॥८४॥पाचयित्वा गव्यदुग्धं सितां दत्त्वा यथोचिताम् ॥
लड्डुकांस्तस्य कुर्वीत तांश्च लक्ष्म्यै समर्पयेत्
॥८५॥अन्यच्चतुर्विधं भक्ष्यं दद्याच्छ्रीः प्रीयतामिति ॥
अप्रबुद्धे हरौ पूर्वं स्त्रीभिर्लक्ष्मीं प्रबोधयेत्
॥८६॥प्रबोधसमये लक्ष्मीं बोधयित्वा भुनक्ति या ॥
पुमान्वा वत्सरं यावल्लक्ष्मीस्तं नैव मुञ्चति
॥८७॥अभयं प्राप्य विप्रेभ्यो विष्णुभीताः सुरद्विषः ॥
क्षीराब्धौ तुष्टुवुर्ज्ञात्वा सुप्तां पद्माश्रितां श्रियम्
॥८८॥त्वं ज्योतिः श्रीरवीन्द्वग्निविद्युत्सौवर्णतारकाः ॥
सर्वेषां ज्योतिषां ज्योतिर्दीपज्योतिःस्थिते नमः
॥८९॥या लक्ष्मीर्दिवसे पुण्ये दीपावल्यां च भूतले ॥
गवां गोष्ठे तु कार्तिक्यां सा लक्ष्मीर्वरदा मम
॥९०॥दीपदानं ततः कुर्यात्प्रदोषे च तथोल्मुकम् ॥
भ्रामयेत्स्वस्य शिरसि सर्वाऽरिष्टनिवारणम्
॥९१॥दीपवृक्षास्तथा कार्याः शक्त्या देवगृहादिषु ॥
चतुष्पथे श्मशाने च नदीपर्वतवेश्मसु
॥९२॥वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु च ॥
वस्त्रैः पुष्पैः शोभितव्या राजमार्गस्य भूमयः
॥९३॥सर्वं पुरमलंकृत्य प्रदोषे तदनन्तरम् ॥
ब्राह्मणान्भोजयित्वाऽऽदौ संभोज्य च बुभुक्षितान्
॥९४॥अलंकृतेन भोक्तव्यं नववस्त्रोपशोभिना ॥
ततोऽपराह्नसमये घोषयेन्नगरं नृपः
॥९५॥अद्य राज्यं बलेर्लोका यथेच्छं क्रीड्यतामिति ॥
यथेच्छं क्रीडतां बाला इत्याज्ञाप्य नृपेण तु
॥९६॥तेभ्यो दद्यात्क्रीडनकं ततः पश्येच्छुभाशुभ्य ॥
बलिराज्ये प्रकर्तव्यं यद्यन्मनसि वर्तते
॥९७॥जीवहिंसा सुरापानमगम्यागमनं तथा ॥
चौर्यं विश्वासघातश्च पंचैतानि मुनीश्वराः ॥
बलिराज्ये तु नरकद्वाराण्युक्तानि संत्यजेत्
॥९८॥ततोऽर्द्धरात्रसमये स्वयं राजा व्रजेत्पुरम् ॥
अवलोकयितुं रम्यं पद्भ्यामेव शनैःशनैः ॥
बलिराज्यप्रमोदं च दृष्ट्वा स्वगृहमाव्रजेत्
॥९९॥एवं गते निशीथे च जने निद्रार्द्धलोचने ॥
एवं नगरनारीभिः शूर्पडिंडिमवादनैः ॥
निष्कास्यते प्रदृष्टाभिरलक्ष्मीः स्वगृहांऽगणात्
॥१००॥दंडैकरजनीयोगे दर्शः स्यात्तु परेऽहनि ॥
तदा विहाय पूर्वेद्युः परेऽह्नि सुखरात्रिका
॥१०१॥* ये वैष्णवाऽवैष्णवाश्च बलिराज्योत्सवं नराः ॥
न कुर्वंति वृथा तेषां धर्माः स्युर्नात्र संशयः
॥१०२॥रात्रौ जागरणं कुर्यात्पुराणपठनादिभिः ॥
द्यूतेन वा हरेरग्रे गीतया वा तथैव च
॥१०३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये वत्सद्वादशीयमत्रयोदशीनरकचतुर्दशीदीपावलीकृत्यवर्णनंनाम नवमोऽध्यायः ॥ ९ ॥
२.४.९.१४ अत्र प्रसिद्धा कथा सनत्कुमारसंहितायाम्-पुरा हृषीकेशोनाम आभीरः अष्टसहस्रगवां पालकः आसीत्तस्य एकांगीनाम कन्या जाता ।
पुत्राऽभावे पुत्रोत्पत्तये दानधर्मादिकमतीव चकार, तेन पुत्रो जातः ।
तदा तत्पुरोहितः दुंदुभिनामकः काणः लोभी तत्रागत्य लोभेच्छया अयं मूलजात इति मिथ्यैवाऽवदत् ।
तदा भीतः पिता कन्यामवदत, हे एकांगि “नयेमं बालकं शीघ्रं मुखे दत्त्वा घृतं मधु ॥
क्षिपस्व तूर्णं गंगायामस्माकं सुखवृद्धये ॥
” इति ।
तदा एकांगी तमादाय दयया महावृक्षस्य कोटरे ऽस्थापयत् “वारंवारं समागत्य दिवसेषु निशासु च ॥
तस्मै पयः पाययित्वा पुनर्याति स्वकं गृहम् ॥
जातोऽसौ वर्षमात्रेण कलभाषी स बालकः ॥
एकांग्यपि च संजाता यौवनाक्रांतदेहिका ॥
” इति।
एकदा दुंदुभिः पुरोहितः एकांगीं कामवासनया प्रार्थयत्, तदा सा धिक्कारं कृतवती, तेन द्वेषेण दुंदुभिः तत्पितरमुवाच, हे हृषीकेश इयं तव कन्या यवनैः सह क्रीडंती मया दृष्टा यवनाद्बालको जातः स च कोटरे स्थापितः, गत्वा पश्य, अहो तव कुलं नष्टम् अस्याः त्याग एव उचितः, अन्यथा बहिष्कारो भवेत् ।
एवं श्रुत्वा हृषीकेशः पुरोहितोक्तप्रकारेण एकांगीं तत्पुत्रं च वृषस्य पृष्ठे बद्ध्वा वने अत्यजत्, स वृषोऽपि दैवयोगेन तामादाय हरिद्वारं ययौ, बंधश्च शिथिलतां प्राप्तः, तदा एकांगी तत्र कुटिं बद्ध्वा तृणविक्रयं कृत्वा तेन द्रव्येण पुत्रं वृषभं च पुष्णाति, कार्तिके मास आगते स्नानार्थं देशदेशतः लोकाः आययुः, ते इमां गोपालिकां ज्ञात्वा दानार्थमानीताः गावः रक्षणाय ददुः, अनयाऽपि गवां सेवा भूयसी आरब्धा ततः वैष्णवैः तया च द्वादश्यां गोपूजा कृता एवं वर्षत्रयमकरोत्, तत्र दैवयोगाद्धृषीकेशः पुरोहितेन दुंदुभिना सह आगतः, तत्र स्वकन्यां दृष्ट्वाऽतिविस्मितो भूत्वा तया ज्ञातवृत्तांतः तस्याः विवाहमकरोत्, दुंदुभिश्च धिक्कृतः साऽपि शापं ददौ ।
अद्यप्रभृति ये काणे विश्वासकारकाः ते अवश्यं विलयं यांतु, इति शप्त्वा बालकं पित्रे दत्त्वा गोव्रतमुपदिश्य भर्त्रा सह स्वयं जगामेति
॥१४॥२.४.९.४२ यमतर्पणं तु पूर्वमेवोक्तं भीष्मतर्पणं चाग्रे भीष्मपंचकव्रते कथयिष्यति ।
नरकाय नरकासुराय दीपः प्रदातव्यः ।
अत्र विशेषः सारोद्धारे-"पुरा सौवीरदेशे तु वेश्याऽभूद्विजनप्रिया ॥
नाम्ना लीलावती पुण्या हरिभक्तिपरायणा ॥
कदाचित्सा समायाता वसिष्ठस्याऽऽश्रमं मुदा ॥
चतुर्दशीमाहात्म्यं सा पप्रच्छ विनयान्विता ॥
वसिष्ठ उवाच ॥
एवं व्रतं त्रयोदश्यां कृत्वा रात्रौ विधूदये ॥
स्नातव्यं तिलतैलेन नरैर्नरकभीरुभिः ॥
नारकीति च सा प्रोक्ता तिथिर्लोकेषु विश्रुता ॥
पूर्वं वराहदेवाच्च जातो नरकनामकः ॥
धरण्यां स तु पापात्मा देवान्सर्वाञ्जिगाय च ॥
ऐश्वर्यं चैव देवानां हृतवान्पापचेतनः ॥
तदानीं देवताः सर्वे कृष्णं शरणमाययुः ॥
तैः प्रार्थितश्च श्रीकृष्णो वधार्थं नरकस्य च ॥
जगाम यत्र पापात्मा नरको धरणीसुतः ॥
साऽमात्यं नरकं हत्वा चतुर्दश्यां तु कार्तिके ॥
सर्वोत्तमस्तदा कृष्णश्चतुर्दश्या वरं ददौ ॥
ये करिष्यंति चाभ्यंगं वस्त्रदानादिकं च यत् ॥
तेषां यशश्च कीर्तिं च पुत्रैश्वर्यं ददाम्यहम् ॥
इति तस्यै वरान्दत्त्वा प्रसिद्धा सा ततो भुवि ॥
तस्मिन्दिने महालक्ष्मीस्तैले सन्निहिता यतः ॥
विष्णुपादाब्जसंभूता गंगा लोकमलापहा ॥
तस्मिन्नुष्णोदके देवी सन्निधानं करोति वै ॥
विधूदये त्रयोदश्यां भवेद्यदि चतुर्दशी ॥
नारकीति च सा प्रोक्ता आश्विनस्य सितेतरे ॥
व्यतीपाते च वैधृत्यां मातापित्रोर्दिनेऽपि वा ॥
नारकी चतुर्दशी चेत्स्यात्स्नातव्यं तिलतैलतः ॥
स्नातव्यं तिलतैलेन नारीभिश्च नरैरपि ॥
यतिभिर्विधवाभिश्च निष्कामैर्वा विधानतः ॥
कार्यमभ्यंजनं तत्र चाऽन्यथा निरयं व्रजेत् ॥
” इति
॥४२॥२.४.९.१०१ अत्र विशेषः ब्राह्मे-"नारद उवाच
येन स्त्रियः सुरूपाः स्युः सुभगाः सुप्रजास्तथा ॥
पतिव्रतपरा ब्रह्मंस्तद्व्रतं ब्रूहि मे प्रभो ॥
श्रीब्रह्मोवाच ॥
श्रूयतां ब्राह्मणश्रेष्ठ सुखरात्रि शुभं व्रतम् ॥
यन्मया कस्यचिन्नोक्तं रहस्यं शिवशर्मदम् ॥
ऊर्जे मासि चतुर्दश्यां कृष्णायां व्रतमुत्तमम् ॥
यस्याऽऽचरणमात्रेण स्त्रियः सौभाग्यवर्द्धनाः ॥
श्रिया सार्द्धं जगद्योनिः शेते विष्णुः सुखान्वितः ॥
तस्यां रात्रौ जनैस्तस्मात्संप्रोक्ता जनसुप्तिका ॥
तस्यां धातुमयैर्वर्ण्यैभगवत्पंचरंगकैः ॥
निजाऽऽलये जीवरात्री लिखित्वा सुखरात्रिकाम् ॥
ब्रह्मविष्णुशिवादीनां मूर्तीश्च विलिखेत्ततः ॥
सौभाग्यहेतवे भर्तुरनुज्ञां प्रतिगृह्य च ॥
व्रतार्थं कल्पयेत्तस्याः पूजोपकरणानि च ॥
ततः सुगंधद्रव्येण गात्रमुद्वर्त्य यत्नतः ॥
स्त्रीभिः सुखोदकस्नानं कर्तव्यं द्विजसत्तम ॥
स्नात्वा वस्त्रं मनोहारि परिधाय यथाविधि ॥
सुखरात्र्याः सुप्रतिष्ठां कारयित्वा द्विजन्मना ॥
पूजनीया विधानेन गंधपुष्पाक्षतादिभिः ॥
स्त्रीभिः सखीसंयुताभिः सुखरात्र्यादिदेवताः ॥
सुखरात्री गृहस्था या देवता लिखिता मया ॥
पूजां गृह्णातु मद्दत्तां साः प्रयच्छतु मे सुखम् ॥
सुखरात्रि नमस्तुभ्यं जीवदात्रि सुखप्रदे ॥
शिवप्रिये गृहाणेमां पूजां वै रक्ष बालकान् ॥
रूपं देहि जयं देहि विद्यां देहि सुखं धनम् ॥
प्रज्ञां प्रयच्छ मे कामान्समस्तान्सुखमादरात् ॥
इति संप्रार्थ्य तां देवीं गीतवादित्रनिस्वनैः ॥
लक्ष्मीपूजा ततः कार्या धवयुक्ताभिरादरात् ॥
त्रिभिः पूजोपहारेण मंत्रैरेभिर्हरिप्रियाम् ॥
जय देवि जगन्मातर्विष्णोर्वक्षसि संस्थिते ॥
रमे नमोऽस्तु ते मेऽत्र सौभाग्यं देहि निश्चलम् ॥
जागर्ति या महालक्ष्मीर्दीपमाला सुभूतले ॥
हरिवक्षःस्थिता रम्या सा देवी वरदाऽस्तु मे ॥
इति स्तुत्वा भगवतीं महालक्ष्मीं सुखप्रदाम् ॥
भर्त्रा सह क्रीडनीयं दीपावल्यां जयेच्छया ॥
द्यूतं पत्याश्रितं स्त्रीभिरित्याह पुरुषोत्तमः ॥
इत्थं विधानेन पतिव्रता या करोति हृद्यं सुखरात्रिकाख्यम् ॥
व्रतं सपुत्रा धनधान्ययुक्ता सभर्तृका सा भवतीह सत्यम् ॥
” इति
॥१०१॥