मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय २९

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 29

संपूज्य नारदं सम्यग्विससर्ज तदा प्रिये

श्रीकृष्ण उवाच

इति तद्वचनं श्रुत्वा पृथुर्विस्मितमानसः ॥

संपूज्य नारदं सम्यग्विससर्ज तदा प्रिये

॥१॥

पुराऽवंतीपुरे कश्चिद्विप्र आसीद्धनेश्वरः ॥

ब्रह्मकर्मपरिभ्रष्टः पापकर्मा सुदुर्मतिः

॥२॥

देशाद्देशातरं गच्छन्क्रयविक्रयकारणात् ॥

माहिष्मतीपुरीमागात्कदाचित्स धनेश्वरः

॥३॥

महिषेण कृता पूर्वं तस्मान्माहिष्मतीति सा ॥

यस्या वप्रगता भाति नर्मदा पापनाशिनी

॥४॥

कार्तिकव्रतिनस्तत्र नानादेशाऽऽगतान्नरान् ॥

स दृष्ट्वा विक्रयं कुर्वन्मासमेकमुवास सः

॥५॥

स नित्यं नर्मदातीरे भ्रमन्विक्रयकारणात् ॥

ददर्श ब्राह्मणान्स्नानजपदेवार्चने स्थितान्

॥६॥

कांश्चित्पुराणं पठतः कांश्चिच्च श्रवणे रतान् ॥

नृत्यगायनवादित्रविष्णुश्रवणतत्परान्

॥७॥

उद्यापनविधौ सक्तान्कांश्चिज्जागरणे रतान् ॥

विप्रगोपूजनरतान्दीपदानरतांस्तथा

॥८॥

ददर्श कौतुकाविष्टस्तत्रतत्र धनेश्वरः ॥

नित्यं परिभ्रमंस्तत्र दर्शनस्पर्शभाषणात्

॥९॥

वैष्णवानां तथा विष्णोर्नामश्रावादि सोऽलभत् ॥

एवं मासं स्थितस्तस्या नर्मदायास्तटे द्विजः

॥१०॥

तावत्कृष्णाऽहिना दष्टो विह्वलः स पपात ह ॥

अथ देहपरित्यक्तं तं वद्ध्वा यमकिंकराः

॥११॥

यमाज्ञया कुंभिपाके चिक्षिपुस्तं धनेश्वरम् ॥

यावत्क्षिप्तश्च तत्रासौ तावच्छीतलतां ययौ

॥१२॥

कुंभीपाको यथा वह्निः प्रह्लादक्षेपणात्पुरा ॥

यमस्तु कौतुकं दृष्ट्वा पप्रच्छानीय तं ततः

॥१३॥

तावदभ्यागतस्तत्र नारदः प्राह सत्वरम् ॥

नारद उवाच ॥

नैवाऽयं निरयान्भोक्तुमर्हो ह्यरुणनंदन

॥१४॥

यस्मादंतेऽस्य संजातं कर्म यन्निरयापहम् ॥

यः पुण्यकर्मिणां कुर्याद्दर्शनस्पर्शभाषणम्

॥१५॥

ततः षडंशमाप्नोति पुण्यस्य नियतं नरः ॥

सख्यं तु तैस्तु संसर्गं कृतवान्वै धनेश्वरः

॥१६॥

कार्तिकव्रतिभिर्मासं तेषां पुण्यांशभागयम्

॥१७॥

तस्मादकामपुण्यो हि यक्षयोनिस्थितो ह्ययम् ॥

विलोक्य निरयान्सर्वान्पापभोगप्रदर्शकान्

॥१८॥

श्रीकृष्ण उवाच

इत्युक्त्वा गतवति नारदे स सौरिस्तद्वाक्यश्रवणविबुद्धतत्सुकर्मा ॥

तं विप्रं पुनरनयत्स्वकिंकरेण तान्सर्वान्निरयगणान्प्रदर्शयिष्यन्

॥१९॥

ततो धनेश्वरं नीत्वा निरयान्प्रेतपोऽब्रवीत् ॥

दर्शयिष्यंस्तु तान्सर्वान्यमानुज्ञाकरस्तदा

॥२०॥

प्रेतप उवाच

पश्येमान्निरयान्घोरान्धनेश्वर महाभयान् ॥

एषु पापकरा नित्यं पच्यंते यमकिंकरैः

॥२१॥

अकामात्पातकं शुष्कं कामादार्द्रमुदाहृतम् ॥

आर्द्रशुष्कादिभिः पापैर्द्विप्रकारानवस्थितान्

॥२२॥

चतुराशीतिसंख्याकैः पृथग्भेदैरवस्थितान् ॥

यत्प्रकीर्णमपांक्तेयं मलिनीकरणं तथा

॥२३॥

जातिभ्रंशकरं तद्वदुपपातकसंज्ञकम् ॥

अतिपापं महापापं सप्तधा पातकं स्मृतम्

॥२४॥

एभिः सप्तसु पच्यंते निरयेषु यथाक्रमम् ॥

कार्तिकव्रतिभिर्यस्मात्संसर्गो ह्यभवत्तव

॥२५॥

तत्पुण्योपचयादेते निर्हृता निरयाः खलु ॥

श्रीकृष्ण उवाच ॥

दर्शयित्वेति निरयान्प्रेतपस्तमथाहरत्

॥२६॥

धनेश्वरं यक्षलोकं यक्षश्चाऽभूत्स तत्र हि ॥

धनदस्याऽनुगः सोऽयं धनयक्षेति विश्रुतः

॥२७॥

सूत उवाच

इत्युक्त्वा वासुदेवोऽसौ सत्यभामामतिप्रियम् ॥

सायंसंध्याविधिं कर्तुं जगाम जननीगृहम्

॥२८॥

ब्रह्मोवाच

एवंप्रभावः खलु कार्तिकोऽयं मुक्तिप्रदो भुक्तिकरश्च यस्मात् ॥

प्रयांत्यनेकाऽर्जितपातकानि व्रतस्य संदर्शयतोऽपि मुक्तिम्

॥२९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धनेश्वरयक्षजन्मप्राप्तिवर्णनंनामैकोनत्रिंशोऽध्यायः ॥ २९ ॥