प्रबोधोत्सवद्वादशीतिथिकृत्यवर्णनम्
ईश्वर उवाच
प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्धनम् ॥
मुक्तिदं तत्त्वबुद्धीनां शृणुष्व सुरसत्तम
॥१॥तावद्गर्जति सेनानीर्गंगा भागीरथी क्षितौ ॥
यावत्प्रयाति पापघ्नी कार्तिके हरिबोधिनी
॥२॥तावद्गर्जंति तीर्थानि आसमुद्रसरांसि वै ॥
यावत्प्रबोधिनी विष्णोस्तिथिर्नाऽऽयाति कार्तिके
॥३॥अश्वमेधसहस्राणि राजसूयशतानि च ॥
एकेनैवोपवासेन प्रबोधिन्या यथाऽभवत्
॥४॥दुर्लभं चैव दुष्प्राप्यं त्रैलोक्ये सचराचरे ॥
तदपि प्रार्थितं विप्र ददाति प्रतिबोधिनी
॥५॥ऐश्वर्यं संततिं ज्ञानं राज्यं च सुखसंपदः ॥
ददात्युपोषिता विप्र हेलया हरिबोधिनी
॥६॥मेरुमंदरतुल्यानि पापान्युपार्जितानि च ॥
एकेनैवोपवासेन दहते हरिबोधिनी
॥७॥उपवासं प्रबोधिन्यां यः करोति स्वभावतः ॥
विधिना नरशार्दूल यथोक्तं लभते फलम्
॥८॥पूर्वजन्मसहस्रेषु पापं यत्समुपार्जितम् ॥
जागरेण प्रबोधिन्यां दह्यते तृलराशिवत्
॥९॥शृणु षण्मुख वक्ष्यामि जागरस्य च लक्षणम् ॥
तस्य विज्ञानमात्रेण दुर्लभो न जनार्दनः
॥१०॥गीतं वाद्यं च नृत्यं च पुराणपठनं तथा ॥
धूपं दीपं च नैवेद्यं पुष्पगंधाऽनुलेपनम् ॥
फलमर्घ्यं च श्रद्धा च दानमिंद्रियसंयमम् ॥
सत्याऽन्वितं विनिंदं च मुदा युक्तं क्रियान्वितम्
॥१२॥साश्चर्यं चैव प्रोत्साहमालस्यादिविवर्जितम् ॥
प्रदक्षिणादिसंयुक्तं नमस्कारपुरःसरम्
॥१३॥नीराजनसमायुक्तमनिर्विण्णेन चेतसा ॥
यामेयामे महाभाग कुर्वन्नीराजनं हरेः
॥१४॥एतैर्गुणैः समायुक्तं कुर्याज्जागरणं विभोः ॥
एकाग्रमनसा यस्तु न पुनर्जायते भुवि
॥१५॥य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितः ॥
जागरं वासरे विष्णोर्लीयते परमात्मनि
॥१६॥पुरुषसूक्तेन यो नित्यं कार्तिकेऽथार्चयेद्धरिम् ॥
वर्षकोटिसहस्राणि पूजितस्तेन केशवः
॥१७॥यथोक्तेन विधानेन पंचरात्रोदितेन वै ॥
कार्तिके त्वर्चयेन्नित्यं मुक्तिभागी भवेन्नरः
॥१८॥नमो नारायणायेति कार्तिके योर्चयेद्धरिम् ॥
स मुक्तो नारकैर्दुःखैः पदं गच्छत्यनामयम्
॥१९॥हरेर्नामसहस्रं च गजराजस्य मोक्षणम् ॥
कार्तिके पठते यस्तु पुनर्जन्म न विंदति
॥२०॥युगकोटिसहस्राणि मन्वंतरशतानि च ॥
द्वादश्यां कार्तिके मासि जागरी वसते दिवि
॥२१॥कुले तस्य च ये जाताः शतशोथ सहस्रशः ॥
प्राप्नुवंति पदं विष्णोस्तस्मात्कुर्वीत जागरम्
॥२२॥कार्तिके पश्चिमे यामे स्तवं गानं करोति यः ॥
श्वेतद्वीपे तु वसते पितृभिः सह सुव्रत
॥२३॥नैवेद्यदानं हरये कार्तिके दिनसंक्षये ॥
युगानि वसते स्वर्गे तावंति मुनिसत्तमाः
॥२४॥अक्षयं मुनिशार्दूल मालतीकमलार्चनम् ॥
अर्चयेद्देवदेवेशं स याति परमं पदम्
॥२५॥कार्तिके शुक्लपक्षे तु कृत्वा ह्येकादशीं नरः ॥
प्रातर्दत्त्वा शुभान्कुंभान्स याति मम मंदिरम्
॥२६॥अत्रैव तु प्रकर्तव्यः प्रबोधस्तु हरेः खग ॥
हतः शंखासुरो दैत्यो नभसः शुक्लपक्षके
॥२७॥एकादश्यां ततो विष्णुश्चातुर्मास्ये प्रसुप्तवान् ॥
क्षीरांभोधौ जागृतोऽसावेकादश्यां तु कार्तिके
॥२८॥अतः प्रबोधनं कार्यमेकादश्यां तु वैष्णवैः ॥
उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुडध्वज ॥
उत्तिष्ठ कमलाकांत त्रैलोक्यं मंगलं कुरु
॥२९॥इत्युक्त्वा शंखभेर्यादि प्रातःकाले तु वादयेत् ॥
वीणावेणुमृदंगादि नृत्यगीतादि कारयेत्
॥३०॥उत्थापयित्वा देवेशं पूजां तस्य विधाय च ॥
सायंकाले प्रकर्तव्यस्तुलस्युद्वाहजो विधिः
॥३१॥सर्वदैकादशी पुण्या विशेषात्कार्तिकी स्मृता ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च
॥३२॥अन्नमाश्रित्य तिष्ठंति संप्राप्ते हरिवासरे ॥
स केवलमघं भुंक्ते यो भुंक्ते हरिवासरे
॥३३॥तस्मात्सर्वप्रयत्नेन कुर्यादेकादशीव्रतम् ॥
न कुर्याद्यदि मोहेन उपवासं नराधमः
॥३४॥नरके नियतं वासः पितृभिः सह तस्य वै ॥
सूतके मृतके वाऽपि नोपवासं त्यजेद्बुधः
॥३५॥दशमीवेधसंयुक्ता त्याज्या चैकादशी व्रते ॥
गांधार्याऽपि पुरा तस्यामुपवासः कृतो गुह
॥३६॥तस्याः पुत्रशतं नष्टं तस्मात्तां वधजां त्यजेत् ॥
एकादशीमुपवसेत्स्नानदानपुरःसरम्
॥३७॥रुक्मांगदोऽपि राजर्षिर्मोहिन्याः संगमेन च ॥
इह लोके सुखं भुक्त्वा चांऽते विष्णुपुरं ययौ
॥३८॥इति प्रबोधोत्सवः ॥
अथ द्वादशीमाहात्म्यम् ॥
द्वादशी पुण्यदा प्रोक्ता सर्वाऽघौघविनाशिनी ॥
किं दानैः कि तपोभिश्च किमु पोष्यैर्व्रतैश्च किम्
॥३९॥किमिष्टैश्चैव पुत्रैश्च द्वादशी येन सेविता ॥
गंगायां चैव दुर्भिक्षे प्रत्यहं कोटिभोजनात्
॥४०॥यत्फलं तदवाप्नोति द्वादश्यामेकभोजनात् ॥
यद्दत्तं चार्हते दानं द्वादश्यां तु सिते शुभे
॥४१॥सिक्थेसिक्थे च वैकस्य कतिब्राह्मणभोजनम् ॥
तदहं नैव जानामि महिमानं हि सुव्रत
॥४२॥शालिग्रामशिलादानं यः कुर्याद्द्वादशीदिने ॥
सप्तद्वीपवतीं भूमिं गंगायां च रविग्रहे ॥
दत्त्वा यत्फलमाप्नोति तत्फलं लभते नरः
॥४३॥पंचामृतैस्तु यो विष्णुं भक्त्या संस्नापयेद्द्विज ॥
स सर्वकुलमुद्धृत्य विष्णुलोके महीयते
॥४४॥शुक्ले कार्तिकमासस्य द्वादश्यां परमोत्सवे ॥
प्रातरारभ्य यः कुर्यात्स्नानदानादिकं तथा ॥
स तु मोक्षमवाप्नोति नाऽत्र कार्या विचारणा
॥४५॥द्वादश्यां कार्तिके मासि स्नानसंध्यादिकर्म च ॥
कृत्वा दामोदरं पूज्य भक्तिश्रद्धासमन्वितः
॥४६॥यस्तस्यां सूपनैवेद्यं न ददाति नराधमः ॥
नरके नियतं वासो भवतीत्यनुशुश्रुम
॥४७॥तस्मात्सूपस्य नैवेद्यं द्वादश्यां कार्तिके शुभे ॥
दद्याद्भक्तियुतो ब्रह्मंश्चान्यथा नरकं व्रजेत्
॥४८॥यस्तस्यां दंपतीनां तु भोजनं कुरुते नरः ॥
न तस्य फलविश्रांतिर्मया वक्तुं तु शक्यते
॥४९॥धात्रीच्छायां गतो यस्तु द्वादश्यां पूजयेद्धरिम् ॥
तत्रैव भोजनं यस्तु ब्राह्मणानां तु कारयेत्
॥५०॥स्वयं च तत्र भुंक्ते यः सूपभक्ष्यादिकं तथा ॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि
॥५१॥एवं प्रातर्विधायाऽथ पूजां दामोदरस्य हि ॥
रात्रौ पुनः प्रकर्तव्यं पूजाकर्म हरेर्द्विज
॥५२॥तुलसीसन्निधौ कृत्वा पताकाध्वजशोभितम् ॥
पुष्पमालासमाकीर्णं नानारत्नोपशोभितम्
॥५३॥मुक्तादामभिराच्छन्नं कृत्वा मंडपमुत्तमम् ॥
पूजयेद्विष्णुमव्यग्रस्तद्गतैकाग्रमानसः
॥५४॥पंचरात्रोक्तमार्गेण गन्धपुष्पाक्षतादिभिः ॥
नवनीतं दधिक्षीरं तथैव च घनं घृतम्
॥५५॥विविधैः खाद्यनैवेद्यैर्जलेन च सुगंधिना ॥
युक्तं निवेदयेद्विष्णोस्तांबूलं सलवंगकम्
॥५६॥पुष्पाणि च विचित्राणि सुगन्धीनि बहूनि च ॥
प्रोक्षयित्वा च विधिवदर्पयित्वा दलैः शुभैः
॥५७॥तुलस्याश्चापि धात्र्याश्च फलैश्चाऽपि प्रपूजयेत् ॥
नीराजनं ततः कृत्वा मंत्रपुष्पं समर्पयेत्
॥५८॥अभिषेकं विना सर्वपूजां कृत्वा विधानतः ॥
विष्णोः पूजां समाप्याऽथ ब्राह्मणानां प्रपूजनम्
॥५९॥कुर्याद्भक्तियुतो विप्र दद्याच्चैव फलादिकम् ॥
तांबूलं च ततो दत्त्वा दक्षिणां शक्तितोऽर्पयेत्
॥६०॥ततो वृद्धान्पितॄन्मातॄन् पूजयित्वा विधानतः ॥
ततः स्वयं स्वभार्याभिर्नैवेद्यं भक्षयेत्सुधीः
॥६१॥इत्येवं तु विधानेन यः कुर्याद्द्वादशीव्रतम् ॥
न तस्य लोकाः क्षीयंते कल्पकोटिशतैरपि
॥६२॥पुत्रपौत्रैः परिवृतो भुक्त्वा भोगान्मनोहरान् ॥
भोगांते च व्रजेन्मोक्षमतीतकुलसप्तकैः
॥६३॥तस्मान्नारद माहात्म्यं द्वादश्याः कार्तिकस्य च ॥
न मया शक्यते वक्तुं किमन्यैर्मनुजैरपि
॥६४॥द्वादश्या ह्युत्तमं पुण्यं माहात्म्यं यः पठेन्नरः ॥
शृणुयाद्वा मुनिश्रेष्ठ स याति परमां गतिम्
॥६५॥राजर्षिरम्बरीषोऽपि चकारैतद्व्रतं शुभम् ॥
यथाविधि तपोनिष्ठस्तेन मोक्षमवाप्तवान्
॥६६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये प्रबोधोत्सवद्वादशीतिथिकृत्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥