मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय १६

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 16

नारदागमनम्

नारद उवाच

पुनर्दैत्यं समायांतं दृष्ट्वा देवाः सवासवाः ॥

भयप्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः

॥१॥

नमो मत्स्यकूर्मादिनानास्वरूपैः सदाभक्तकार्योद्यतायाऽर्तिहंत्रे ॥

विधात्रादिसर्गस्थितिध्वंसकर्त्रे गदाशंखपद्मारिहस्ताय तेस्तु

॥२॥

रमा वल्लभायाऽसुराणां निहंत्रे भुजंगारियानाय पीतांबराय ॥

मखादिक्रियापाककर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः

॥३॥

नमो दैत्यसंतापितामर्त्यदुःखाचलध्वंसदंभोलये विष्णवे ते ॥

भुजंगेशतल्पेशयायार्कचंद्रद्विनेत्राय तस्मै नताः स्मो नताः स्मः

॥४॥

नारद उवाच

संकष्टनाशनंनाम स्तोत्रमेतत्पठेन्नरः ॥

स कदाचिन्न संकष्टैः पीड्यते कृपया हरेः

॥५॥

इति देवाः स्तुतिं यावत्कुर्वंति दनुजद्विषः ॥

तावत्सुराणामापत्तिर्विज्ञाता विष्णुना तदा

॥६॥

सहसोत्थाय दैत्यारिः सक्रोधः खिन्नमानसः ॥

आरूढो गरुडं वेगाल्लक्ष्मीं वचनमब्रवीत्

॥७॥

श्रीभगवानुवाच

जलंधरेण ते भ्रात्रा देवानां कदनं कृतम् ॥

तैराहूतो गमिष्यामि युद्धायाद्य त्वरान्वितः

॥८॥

श्रीरुवाच

अहं ते वल्लभा नाथ भक्त्या च यदि सर्वदा ॥

तत्कथं ते मम भ्राता युद्धे वध्यः कृपानिधे

॥९॥

श्रीभगवानुवाच

रुद्रांशसंभवत्वाच्च ब्रह्मणो वचनादपि ॥

प्रीत्या च तव नैवायं मम वध्यो जलंधरः

॥१०॥

नारद उवाच

इत्युक्त्वा गरुडारूढः शंखचक्रगदासिभृत् ॥

विष्णुर्वेगाद्ययौ योद्धुं यत्र देवाः स्तुवंति ते

॥११॥

अथाऽरुणानुजात्युग्रपक्षवातप्रपीडिताः ॥

वात्या विमर्दिता दैत्या बभ्रमुः खे यथा घनाः

॥१२॥

ततो जलंधरो दृष्ट्वा दैत्यान्वात्याप्रपीडितान् ॥

उद्वृत्तनयनः क्रोधात्ततोविष्णुं समभ्ययात्

॥१३॥

ततः समभवद्युद्धं विष्णुदैत्येंद्रयोर्महत् ॥

आकाशं कुर्वतोर्बाणैस्तदा निरवकाशवत्

॥१४॥

विष्णुर्दैत्यस्य बाणौघैर्ध्वजं छत्रं धनुर्हयान् ॥

चिच्छेद तं च हृदये बाणेनैकेन ताडयत्

॥१५॥

ततो दैत्यः समुत्पत्य गदापाणिस्त्वरान्वितः ॥

आहत्य गरुडं मूर्ध्नि पातयामास भूतले

॥१६॥

विष्णुर्गदां स्वखङ्गेन चिच्छेद प्रहसन्निव ॥

तावत्स हृदये विष्णुं जघान दृढमुष्टिना

॥१७॥

ततस्तौ बाहुयुद्धेन युयुधाते महाबलौ ॥

बाहुभिर्मुष्टिभिश्चैव जानुभिर्नादयन्महीम्

॥१८॥

एवं तौ सुचिरं युद्धं कृत्वा विष्णुः प्रतापवान् ॥

उवाच दैत्यराजानं मेघगंभीरनिस्वनः

॥१९॥

विष्णुरुवाच

वरं वरय दैत्येंद्र प्रीतोऽस्मि तव विक्रमात् ॥

अदेयमपि ते दद्मि यत्ते मनसि वर्तते

॥२०॥

जलंधर उवाच

यदि भावुक तुष्टोऽसि वरमेनं ददस्व मे ॥

मद्भगिन्या सहाऽद्य त्वं मद्गृहे सगणो वस

॥२१॥

नारद उवाच

तथेत्युक्ता स भगवान्सर्वदेवगणैः सह ॥

तदा जलंधरपुरमगमद्रमया सह

॥२२॥

जलंधरस्तु देवानामधिकारेषु दानवान् ॥

स्थापयित्वा महाबाहुः पुनरागान्महीतलम्

॥२३॥

देवगंधर्वसिद्धेषु यत्किंचिद्रत्नसंयुतम् ॥

तदात्मवशगं कृत्वाऽतिष्ठत्सागरनंदनः

॥२४॥

पातालभुवने दैत्यं निशुंभं स महाबलम् ॥

स्थापयित्वा स शेषादीनानयद्भूतलं बली

॥२५॥

देवगंधर्वसिद्धाऽऽद्यान्सर्पराक्षसमानुषान् ॥

स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम्

॥२६॥

एवं जलंधरः कृत्वा देवान्स्ववशवर्तिनः ॥

धर्मेण पालयामास प्रजाः पुत्रानिवौरसान्

॥२७॥

न कश्चिद्व्याधितो नैव दुःखी नैव कृतस्तथा ॥

न दीनो दृश्यते तस्मिन्धर्माद्राज्यं प्रशासति

॥२८॥

एवं महीं शासति दानवेंद्रे धर्मेण सम्यक्च दिदृक्षयाऽहम् ॥

कदाचिदागामथ तस्य लक्ष्मीं विलोकितुं श्रीरमणं च सेवितुम्

॥२९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरसभायां नारदागमनंनाम षोडशोऽध्यायः ॥ १६ ॥