जलंधरोत्पत्तिवर्णनम्
पृथुरुवाच
यत्त्वया कथितं ब्रह्मन्व्रतमूर्जस्य विस्तरात् ॥
तत्र या तुलसीमूले विष्णोः पूजा त्वयोदिता
॥१॥तेनाऽहं प्रष्टुमिच्छामि माहात्म्यं तुलसीभवम् ॥
कथं साऽतिप्रिया तस्य देवदेवस्य शार्ङ्गिणः
॥२॥कथमेषा समुत्पन्ना कस्मिन्स्थाने च नारद ॥
एवं ब्रूहि समासेन सर्वज्ञोऽसि मतो मम
॥३॥नारद उवाच
शृणु राजन्नवहितो माहात्म्यं तुलसीभवम् ॥
सेतिहासं पुरावृत्तं तत्सर्वं कथयामि ते
॥४॥पुरा शक्रः शिवं द्रष्टुमगात्कैलासपर्वतम् ॥
सर्वदेवैः परिवृतो ह्यप्सरोगणसेवितः
॥५॥यावद्गतः शिवगृहं तावत्तत्र स दृष्टवान् ॥
पुरुषं भीमकर्माणं दंष्ट्राऽऽननविभीषणम्
॥६॥स पृष्टस्तेन कस्त्वं भोः क्व गतो जगदीश्वरः ॥
एवं पुनः पुनः पृष्टः स तदा नोक्तवान्नृप
॥७॥ततः कुद्धो वज्रपाणिस्तं निर्भर्त्स्य वचोऽब्रवीत् ॥
रे मया पृच्छयमानोऽपि नोत्तरं दत्तवानसि
॥८॥अतस्त्वां हन्मि वज्रेण कस्ते त्राताऽस्ति दुर्मते ॥
इत्युदीर्य ततो वज्री वज्रेणाऽभ्यहनद्दृढम्
॥९॥तेनास्य कण्ठो नीलत्वमगाद्वज्रं च भस्मताम् ॥
ततो रुद्रः प्रजज्वाल तेजसा प्रदहन्निव
॥१०॥दृष्ट्वा बृहस्पतिस्तूर्णं कृतांजलिपुटोऽभवत् ॥
इन्द्रं च दंडवद्भूमौ कृत्वा स्तोतुं प्रचक्रमे
॥११॥बृहस्पतिरुवाच
नमो देवाधिपतये त्र्यंबकाय कपर्दिने ॥
त्रिपुरघ्नाय शर्वाय नमोऽधंकनिषूदिने
॥१२॥विरूपायाऽतिरूपाय बहुरूपाय शंभवे ॥
यज्ञविध्वंसकर्त्रे च यज्ञानां फलदायिने
॥१३॥कालांतकाय कालाय कालभोगिधराय च ॥
नमो ब्रह्मशिरोहंत्रे ब्राह्मणाय नमो नमः
॥१४॥नारद उवाच
एवं स्तुतस्तदा शंभुर्धिषणेन जगाद तम् ॥
संहरन्नयनज्वालां त्रिलोकीदहन क्षमाम्
॥१५॥वरं वरय भो ब्रह्मन्प्रीतः स्तुत्याऽनया तव ॥
इन्द्रस्य जीवदानेन जीवेति त्वं प्रथां वज्र
॥१६॥बृहस्पतिरुवाच
यदि तुष्टोऽसि देव त्वं पाहींद्रं शरणागतम् ॥
अग्निरेष शमं यातु भालनेत्रसमुद्भवः
॥१७॥ईश्वर उवाच
पुनः प्रवेशमायाति भालनेत्रे कथं शिखी ॥
एनं त्यक्ष्याम्यहं दूरे यथेंद्रं नैव पीडयेत्
॥१८॥नारद उवाच
इत्युक्त्वा तं करे धृत्वा प्राक्षिपल्लवणार्णवे ॥
सोऽपतत्सिंधुगंगायाः सागरस्य च संगमे
॥१९॥तावत्स बालरूपत्वमगात्तत्र रुरोद च ॥
रुदतस्तस्य शब्देन प्राकंपद्धरणी मुहुः
॥२०॥स्वर्गाद्याः सत्यलोकांतास्तत्स्वनाद्बधिरीकृताः ॥
श्रुत्वा ब्रह्मा ययौ तत्र किमेतदिति विस्मितः
॥२१॥तावत्समुद्रस्योत्संगे तं बालं स ददर्श ह ॥
दृष्ट्वा ब्रह्माणमायातं समुद्रोऽपि कृतांजलिः
॥२२॥प्रणम्य शिरसा बालं तस्योत्संगे न्यवेशयत् ॥
भो ब्रह्मन्सिंधुगंगायां जातोऽयं मम पुत्रकः ॥
जातकर्माऽऽदिसंस्कारान्कुरुष्वाऽद्य जगद्गुरो
॥२३॥नारद उवाच
इत्थं वदति पाथोधौ स बालः सागरात्मजः
॥२४॥ब्रह्माणमग्रहीत्कूर्चे विधुन्वंस्तं मुहुर्मुहुः ॥
धुन्वतस्तस्य कूर्चे तु नेत्राभ्यामगमज्जलम् ॥
कथंचिन्मुक्तकूर्चोऽथ ब्रह्मा प्रोवाच सागरम्
॥२५॥ब्रह्मोवाच
नेत्राभ्यां विधृतं यस्मादनेनैतज्जलं मम ॥
तस्माज्जलंधर इति ख्यातो नाम्ना भविष्यति
॥२६॥अनेनैवैष तरुणः सर्वशस्त्रास्त्रपारगः ॥
अवध्यः सर्वभूतानां विना रुद्रं भविष्यति
॥२७॥यत एष समुद्भूतस्तत्रैवांतं गमिष्यति
॥२८॥नारद उवाच
इत्युक्त्वा शुक्रमाहूय राज्ये तं चाभ्यषेचयत् ॥
आमंत्र्य सरितां नाथं ब्रह्मांतर्धानमागमत्
॥२९॥अथ तद्दर्शनोत्फुल्लनयनः सागरस्तदा ॥
कालनेमिसुतां वृंदां तद्भार्यार्थमयाचत
॥३०॥ते कालनेमिप्रमुखास्ततोऽसुरास्तस्मै सुतां तां प्रददुः प्रहर्षिताः ॥
स चाऽपि तां प्राप्य सुहृद्वरां वशां शशास गां शुक्रसहायवान्बली
॥३१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोत्पत्तिवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥