मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय २०

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 20

शिवजलंधरयुद्धवर्णनम्

नारद उवाच

पतितं वीरभद्रं तु दृष्ट्वा रुद्रगणा भयात् ॥

अगमंस्ते रणं हित्वा क्रोशमाना महेश्वरम्

॥१॥

अथ कोलाहलं श्रुत्वा गणानां चंद्रशेखरः ॥

अभ्ययाद्वृषभारूढः संग्रामं प्रहसन्निव

॥२॥

रुद्रमायांतमालोक्य सिंहनादैर्गणाः पुनः ॥

निवृत्ताः संगरे दैत्यान्निर्जघ्नुः शरवृष्टिभिः

॥३॥

दैत्याश्च भीषणं दृष्ट्वा सर्वे चैव विदुद्रुवुः ॥

कार्तिकव्रतिनं दृष्ट्वा पातकानीव तद्भयात्

॥४॥

जलंधरोथ तान्दैत्यान्निवृत्तान्प्रेक्ष्य संगरे ॥

रोषादधावच्चंडीशं मुंचन्बाणान्सहस्रशः

॥५॥

शुंभो निशुंभोऽश्वमुखः कालनेमिर्बलाहकः ॥

खड्गरोमा प्रचंडश्च घस्मराद्याः शिवं ययुः

॥६॥

बाणांधकारसंछन्नं दृष्ट्वा गणबलं शिवः ॥

बाणजालमवाच्छिद्य स्वबाणैरावृणोन्नभः

॥७॥

दैत्यांश्च बाणवात्याभिः पीडितानकरोत्तदा ॥

प्रचंडबाणजालौघैरपातयत भूतले

॥८॥

खड्गरोम्णः शिरः कायात्तदा परशुनाऽच्छिनत् ॥

बलाहकस्य च शिरः खट्वांगेनाऽकरोद्द्विधा

॥९॥

बद्ध्वा च घस्मरं दैत्यं पाशेनाभ्यहनद्भुवि ॥

वृषभेण हताः केचित्केचिद्बाणैर्निपातिताः

॥१०॥

न शेकुरसुराः स्थातुं गजाः सिंहार्दिता इव ॥

ततः क्रोधपरीतात्मा वेगाद्रुद्रं जलंधरः

॥११॥

आह्वयामास समरे तीव्राशनिसमस्वनः ॥

जलंधर उवाच ॥

युध्यस्व च मया सार्द्धं किमेभिर्निहितैस्तव

॥१२॥

यच्च किंचिद्बलं तेऽस्ति तद्दर्शय जटाधर ॥

इत्युक्त्वा बाणसप्तत्या जघान वृषभध्वजम्

॥१३॥

तान्प्राप्तान्निशितैर्बाणैश्चिच्छेद प्रहसन्निव ॥

ततो हयान्ध्वजं छत्रं धनुश्चिच्छेद शक्तिभिः

॥१४॥

स च्छिन्नधन्वा विरथो गदामुद्यम्य वेगवान् ॥

अभ्यधावच्छिवस्तावद्गदां बाणैर्द्विधाऽच्छिनत्

॥१५॥

तथाऽपि मुष्टिमुद्यम्य ययौ रुद्रं जिघांसया ॥

तावच्छिवेन बाणौघैः क्रोशमात्रमपाकृतः

॥१६॥

ततो जलंधरो दैत्यो मत्वा रुद्रं बलाधिकम् ॥

ससर्ज मायां गांधर्वीमद्भुतां रुद्रमोहिनीम्

॥१७॥

ततो जगुश्च ननृतुर्गंधर्वाप्सरसां गणाः ॥

तालवेणुमृदंगाद्यान्वादयंति स्म चाऽपरे

॥१८॥

तद्दृष्ट्वा महदाश्चर्यं रुद्रो नादविमोहितः ॥

पतितान्यपि शस्त्राणि करेभ्यो न विवेद सः

॥१९॥

एकाग्रीभूतमालोक्य रुद्रं दैत्यो जलंधरः ॥

कामार्तः स जगामाशु यत्र गौरी स्थिताऽभवत्

॥२०॥

युद्धे शुंभनिशुंभाख्यौ स्थापयित्वा महाबली ॥

दशदोर्दंडपचास्यस्त्रिनेत्रश्च जटाधरः

॥२१॥

महावृषभमारूढः स बभूव जलंधरः ॥

अथो रुद्रं समायांतमालोक्य भववल्लभा

॥२२॥

अभ्याययौ सखीमध्यात्तद्दर्शनपथेऽभवत् ॥

यावद्ददर्श चार्वंगी पार्वती दनुजेश्वरः

॥२३॥

तावत्स्ववीर्यं मुमुचे जडांगश्चाऽभवत्तदा ॥

अथ ज्ञात्वा तदा गौरी दानवं भयविह्वला

॥२४॥

जगामाऽन्तर्हिता वेगात्सा तदोत्तरमानसे ॥

तामदृष्ट्वा ततो दैत्यः क्षणाद्विद्युल्लतामिव

॥२५॥

जवेनाऽऽगात्पुनर्युद्धं यत्र देवो वृषध्वजः ॥

पार्वत्यपि भयाद्विष्णुं सस्मार मनसा तदा

॥२६॥

तावद्ददर्श तं देवं सूपविष्टं समीपगम् ॥

पार्वत्युवाच ॥

विष्णो जलंधरो दैत्यः कृतवान्परमाद्भुतम्

॥२७॥

तत्किं न विदितं तेऽस्ति चेष्टितं तस्य दुर्मतेः ॥

विष्णुरुवाच ॥

तेनैव दर्शितः पंथा वयमप्यन्वयामहे

॥२८॥

नाऽन्यथा स भवेद्वध्यः पातिव्रत्यसुरक्षित्ः ॥

नारद उवाच ॥

जगाम विष्णुरित्युक्त्वा पुनर्जालंधरं पुरम्

॥२९॥

अथ रुद्रश्च गंधर्वाऽनुगतः संगरे स्थितः ॥

अंतर्धानं गतां मायां दृष्ट्वा स बुबुधे तदा

॥३०॥

ततो भवो विस्मितमानसः पुनर्जगाम युद्धाय जलंधरं रुषा ॥

स चाऽपि दैत्यः पुनरागतं शिवं दृष्ट्वा शरौघैः समवाकिरद्रणे

॥३१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने शिवजलंधरयुद्धवर्णनंनाम विंशोऽध्यायः ॥ २० ॥