कलहामोक्षकथनम्
धर्मदत्त उवाच
विलयं यांति पापानि तीर्थे दानव्रतादिभिः ॥
प्रेतदेहस्थितायास्ते तेषु नैवाऽधिकारिता
॥१॥त्वद्ग्लानिदर्शनादस्मात्खिन्नं च मम मानसम् ॥
न वै निर्वृतिमायाति त्वामनुद्धृत्य दुःखिताम्
॥२॥तस्मादाजन्मचरितं यन्मया कार्तिकव्रतम् ॥
तत्पुण्यस्यार्द्धभागेन सद्गतिं त्वमवाप्नुहि
॥३॥नारद उवाच
इत्युक्त्वा धर्मदत्तोऽसौ यावत्तामभ्यषेचयत् ॥
तुलसीमिश्रतोयेन श्रावयन्द्वादशाक्षरम्
॥४॥तावत्प्रेतत्वनिर्मुक्ता ज्वलदग्निशिखोपमा ॥
दिव्यरूपधरा जाता लावण्येन यथेंदिरा
॥५॥ततः सा दंडवद्भूमौ प्रणनामाथ तं द्विजम् ॥
उवाच सा तदा वाक्यैर्हर्षगद्गदभाषिणी
॥६॥कलहोवाच
त्वत्प्रसादाद्द्विजश्रेष्ठ विमुक्ता निरयादहम् ॥
पापाब्धौ मज्जमानायास्त्वं नौभूतोऽसि मे ध्रुवम्
॥७॥नारद उवाच
इत्थं वदन्ती सा विप्रं ददर्शाऽऽयातमंबरात् ॥
विमानं भास्वरं युक्तं विष्णुरूपधरैर्गणैः
॥८॥अथ सा तद्विमानाऽग्र्यं द्वाःस्थाभ्यामवरोपिता ॥
पुण्यशीलसुशीलाभ्यामप्सरोगणसेविता
॥९॥तद्विमानं तदाऽपश्यद्धर्मदत्तः सविस्मयः ॥
पपात दण्डवद्भूमौ दृष्ट्वा तौ विष्णुरूपिणौ
॥१०॥पुण्यशीलसुशीलौ च तमुत्थाप्याऽऽनतं द्विजम् ॥
अभिनन्द्य ततो वाक्यमूचतुर्धर्मसंयुतम्
॥११॥गणावूचतुः
साधुसाधु द्विजश्रेष्ठ यस्त्वं विष्णुरतः सदा ॥
दीनाऽनुकम्पी सर्वज्ञो विष्णुव्रतपरायणः
॥१२॥आ बालत्वाच्छुभं त्वेतद्यत्त्वया कार्तिकव्रतम् ॥
कृतं तस्याऽर्द्धदानेन पुण्यं द्वैगुण्यमागमत्
॥१३॥जन्मांतरशतोद्भूतं पापं तद्विलयं गतम् ॥
स्नानैरेव गतं पापं यदस्याः पूर्वकर्मजम्
॥१४॥हरिजागरणाद्यैश्च विमानमिदमास्थिता ॥
वैकुण्ठे नीयते साधो नानाभोगयुता त्वियम्
॥१५॥दीपदानभवैः पुण्यैस्तेजःसारूप्यमास्थिता ॥
तुलसीपूजनाद्यैश्च कार्तिकव्रतकैः शुभैः ॥
विष्णुसान्निध्यगा जाता त्वया दत्तैः कृपानिधे
॥१६॥त्वमप्यस्य भवस्यांते भार्याभ्यां सह यास्यसि ॥
वैकुण्ठ भुवनं विष्णोः सान्निध्यं च सरूपताम्
॥१७॥ते धन्याः कृतकृत्यास्ते तेषां च सफलो भवः ॥
यैर्भक्त्याराधितो विष्णुर्धर्मदत्त यथा त्वया
॥१८॥सम्यगाराधितो विष्णुः किं न यच्छति देहिनाम् ॥
औत्तानचरणिर्येन ध्रुवत्वे स्थापितः पुरा
॥१९॥यन्नामस्मरणादेव देहिनो यांति सद्गतिम्
॥२०॥ग्राहग्रस्तो हि नागेंद्रो यन्नामस्मरणात्पुरा ॥
विमुक्तः संनिधिं प्राप्तो जातोऽयं जयसंज्ञकः
॥२१॥यतस्त्वयाऽर्चितो विष्णुस्तत्सान्निध्यं प्रयास्यसि ॥
बहून्यब्दसहस्राणि भार्याद्वययुतः किल
॥२२॥ततः पुण्यक्षयेजाते यदा यास्यसि भूतलम् ॥
सूर्यवंशोद्भवो राजा विख्यातस्त्वं भविष्यसि
॥२३॥नाम्ना दशरथस्तत्र भार्याद्वययुतः पुनः ॥
तृतीययाऽनया चाऽपि या ते पुण्यार्द्धभागिनी
॥२४॥तत्राऽपि तव सान्निध्यं विष्णुर्यास्यति भूतले ॥
आत्मानं तव पुत्रत्वे प्रकल्प्याऽमरकार्यकृत्
॥२५॥तव जन्मव्रतादस्माद्विष्णुसंतुष्टिकारकात् ॥
न यज्ञा न च दानानि न तीर्थान्यधिकानि वै
॥२६॥धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः ॥
यदर्धभागात्सफला मुरारेः प्रणीयतेऽस्माभिरियं सलोकताम्
॥२७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धर्मदत्तोपाख्याने कलहामोक्षकथनंनाम पञ्चविंशोऽध्यायः ॥ २५ ॥