मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय १०

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 10

कार्तिकशुक्लप्रतिपन्माहात्म्यवर्णनम्

ब्रह्मोवाच

प्रतिपद्यथ चाऽभ्यंगं कृत्वा नीराजनं ततः ॥

सुवेषः सत्कथागीतैर्दानैश्च दिवसं नयेत्

॥१॥

शंकरस्तु पुरा द्यूतं ससर्ज सुमनोहरम् ॥

कार्तिके शुक्लपक्षे तु प्रथमेऽहनि सत्यवत्

॥२॥

बलिराज्यदिनस्याऽपि माहात्म्यं शृणु तत्त्वतः ॥

स्नातव्यं तिलतैलेन नरैर्नारीभिरेव च

॥३॥

यदि मोहान्न कुर्वीत स याति यमसादनम् ॥

पुरा कृतयुगस्यादौ दानवेंद्रो बलिर्महान्

॥४॥

तेन दत्ता वामनाय भूमिः स्वमस्तकान्विता ॥

तदानीं भगवान्साक्षात्तुष्टो बलिमुवाच ह

॥५॥

कार्तिके मासि शुक्लायां प्रतिपद्यां यतो भवान् ॥

भूमिं मे दत्तवान्भक्त्या तेन तुष्टोऽस्मि तेऽनघ

॥६॥

वरं ददामि ते राजन्नित्युक्त्वाऽदाद्वरं तदा ॥

त्वन्नाम्नैव भवेद्राजन्कार्तिकी प्रतिपत्तिथिः

॥७॥

एतस्यां ये करिष्यंति तैलस्नानादिकार्चनम् ॥

तदक्षयं भवेद्राजन्नात्र कार्या विचारणा

॥८॥

तदाप्रभृति लोकेऽस्मिन्प्रसिद्धा प्रतिपत्तिथिः ॥

प्रतिपत्पूर्वविद्धा नो कर्तव्या तु कथंचन

॥९॥

तत्राभ्यंगं न कुर्वीत अन्यथा मृतिमाप्नुयात् ॥

प्रतिपद्यां यदा दर्शो मुहूर्तप्रमितो भवेत्

॥१०॥

मांगल्यं तद्दिने चेत्स्याद्वित्तादिस्तस्य नश्यति ॥

बलेश्च प्रतिपद्दर्शाद्यदि विद्धं भविष्यति

॥११॥

तस्यां यद्यथ चाऽऽर्तिक्यं नारी मोहात्करिष्यति ॥

नारीणां तत्र वैधव्यं प्रजानां मरणं ध्रुवम्

॥१२॥

अविद्धा प्रतिपच्चेत्स्यान्मुहूर्तमपरेऽहनि ॥

उत्सवादिककृत्येषु सैव प्रोक्ता मनीषिभिः

॥१३॥

प्रतिपत्स्वल्पमात्राऽपि यदि न स्यात्परेऽहनि ॥

पूर्वविद्धा तदा कार्या कृता नो दोषभाग्भवेत्

॥१४॥

तद्दिने गृहमध्ये तु कुर्यान्मूर्तिं तदांगणे ॥

गोमयेन च तत्राऽपि दधि तत्पुरतः क्षिपेत्

॥१५॥

आर्तिक्यं तत्र संस्थाप्य एवं कुर्याद्विधानतः ॥

अभ्यंगं ये न कुर्वंति तस्यां तु मुनिपुंगव

॥१६॥

न मांगल्यं भवेत्तेषां यावत्स्याद्वत्सरं ध्रुवम् ॥

यो यादृशेन रूपेण तस्यां तिष्ठेच्छुभे दिने

॥१७॥

आवर्षं तद्भवेत्तस्य तस्मान्मंगलमाचरेत् ॥

यदीच्छेत्स्वशुभान्भोगान्भोक्तुं दिव्यान्मनोहरान्

॥१८॥

कुरु दीपोत्सवं रम्यं त्रयोदश्यादिकेषु च ॥

शंकरश्च भवानी च क्रीडया द्यूतमास्थिते

॥१९॥

गौर्या जित्वा पुरा शंभुर्नग्नो द्यूते विसर्जितः ॥

अतोऽर्थं शंकरो दुःखी गौरी नित्यं सुखस्थिता

॥२०॥

द्यूतं निषिद्धं सर्वत्र हित्वा प्रतिपदं बुधाः ॥

प्रथमं विजयो यस्य तस्य संवत्सरं सुखम्

॥२१॥

भवान्याऽभ्यर्थिता लक्ष्मीर्धेनुरूपेण संस्थिता ॥

प्रातर्गोवर्द्धनः पूज्यो द्यूतं रात्रौ समाचरेत्

॥२२॥

भूषणीयास्तदा गावो वर्ज्या वहनदोहनात्

॥२३॥

गोवर्द्धन धराऽऽधार गोकुलत्राणकारक ॥

विष्णुबाहुकृतोच्छ्राय गवां कोटिप्रदो भव

॥२४॥

या लक्ष्मीर्लोकपालानां धेनुरूपेण संस्थिता ॥

घृतं वहति यज्ञार्थे मम पापं व्यपोहतु

॥२५॥

अग्रतः संतु मे गावो गावो मे संतु पृष्ठतः ॥

गावो मे हृदयं संतु गवां मध्ये वसाम्यहम्

॥२६॥

इति गोवर्द्धनपूजा ॥

सद्भावेनैव संतोष्य देवान्सत्पुरुषान्नरान् ॥

इतरेषामन्नपानैर्वाक्यदानेन पंडितान्

॥२७॥

वस्त्रैस्तांबूलधूपैश्च पुष्पकर्पूरकुंकुमैः ॥

भक्ष्यैरुच्चावचैर्भोज्यैरंतःपुरनिवासिनः

॥२८॥

ग्राम्यान्वृषभदानैश्च सामंतान्नृपतिर्धनैः ॥

पदातिजनसंघांश्च ग्रैवेयैः कटकैः शुभैः ॥

स्वनामांकैश्च तान्राजा तोषयेत्सज्जनान्पृथक्

॥२९॥

यथार्थं तोषयित्वा तु ततो मल्लान्नरांस्तथा ॥

वृषभान्महिषांश्चैव युध्यमानान्परैः सह

॥३०॥

राज्ञस्तथैव योधांश्च पदातीन्समलंकृतान् ॥

मंचाऽऽरूढः स्वयं पश्येन्नटनर्तकचारणान्

॥३१॥

युद्धापयेद्वासयेच्च गोमहिष्यादिकं च यत् ॥

वत्सानाकर्षयेद्गोभिरुक्तिप्रत्युक्तिवादनात्

॥३२॥

ततोऽपराह्नसमये पूर्वस्यां दिशि सुव्रत ॥

मार्गपालीं प्रबध्नाति दुर्गस्तंभेऽथ पादपे

॥३३॥

कुशकाशमयीं दिव्यां लंबकैर्बहुभिः प्रिये ॥

वीक्षयित्वा गजानश्वान्मार्गपाल्यास्तले नयेत्

॥३४॥

गावो वृषांश्च महिषान्महिषीर्घटकोत्कटान् ॥

कृतहोमैर्द्विजेंद्रैस्तु बध्नीयान्मार्गपालिकाम्

॥३५॥

नमस्कारं ततः कुर्यान्मन्त्रेणानेन सुव्रत ॥

मार्गपालि नमस्तुभ्यं सर्वलोकसुखप्रदे ॥

तले तव सुखेनाश्वा गजा गावश्च संतु मे

॥३६॥

मार्गपालीतले पुत्र यांति गावो महावृषाः ॥

राजानो राजपुत्राश्च ब्राह्मणाश्च विशेषतः

॥३७॥

मार्गपाली समुल्लंघ्य नीरुजः सुखिनो हि ते ॥

कृत्वैतत्सर्वमेवेह रात्रौ दैत्यपतेर्बलेः

॥३८॥

पूजां कुर्यात्ततः साक्षाद्भूमौ मंडलके कृते ॥

बलिमालिख्य दैत्येंद्रं वर्णकैः पंचरंगकैः

॥३९॥

सर्वाभरणसंपूर्णं विंध्यावलिसमन्वितम् ॥

कूष्मांडमयजंभोरुमधुदानवसंवृतम्

॥४०॥

संपूर्णं कृष्टवदनं किरीटोत्कटकुण्डलम् ॥

द्विभुजं दैत्यराजानं कारयित्वा स्वके पुनः

॥४१॥

गृहस्य मध्ये शालायां विशालायां ततोऽर्चयेत् ॥

मातृभ्रातृजनैः सार्द्धं संतुष्टो बन्धुभिः सह

॥४२॥

कमलैः कुमुदैः पुष्पैः कह्लारै रक्तकोत्पलैः ॥

गन्धपुष्पान्ननैवेद्यैः सक्षीरैर्गुडपायसैः

॥४३॥

मद्यमांससुरालेह्यचोष्यभक्ष्योपहारकैः ॥

मन्त्रेणाऽनेन राजेंद्र समन्त्री सपुरोहितः ॥

पूजां करिष्यते यो वै सौख्यं स्यात्तस्य वत्सरम्

॥४४॥

बलिराज नमतुभ्यं विरोचनसुत प्रभो ॥

भविष्येंद्र सुराराते पूजेयं प्रतिगृह्यताम्

॥४५॥

एवं पूजाविधानेन रात्रौ जागरणं ततः ॥

कारयेद्वै क्षणं रात्रौ नटनृत्यकथानकैः

॥४६॥

लोकश्चापि गृहस्यांते सपर्यां शुक्लतंदुलैः ॥

संस्थाप्य बलिराजानं फलैः पुष्पैः प्रपूजयेत्

॥४७॥

बलिमुद्दिश्य वै तत्र कार्यं सर्व च सुव्रत ॥

यानि यान्यक्षयाण्याहुर्मुनयस्तत्त्वदर्शिनः

॥४८॥

यदत्र दीयते दानं स्वल्पं वा यदि वा बहु ॥

तदक्षयं भवेत्सर्वं विष्णोः प्रीतिकरं शुभम्

॥४९॥

रात्रौ ये न करिष्यंति तव पूजां बले नराः ॥

तेषां च श्रोत्रियो धर्मः सर्वस्त्वामुपतिष्ठतु

॥५०॥

विष्णुना च स्वयं वत्स तुष्टेन बलये पुनः ॥

उपकारकरं दत्तमसुराणां महोत्सवम्

॥५१॥

एकमेवमहोरात्रं वर्षेवर्षे च कार्तिके ॥

दत्तं दानवराजस्य आदर्शमिव भूतले

॥५२॥

यः करोति नृपो राज्ये तस्य व्याधिभयं कुतः ॥

सुभिक्षं क्षेममारोग्यं तस्य संपदनुत्तमा

॥५३॥

नीरुजश्च जनाः सर्वे सर्वोपद्रववर्जिताः

॥५४॥

कौमुदी क्रियते यस्माद्भावं कर्तुं महीतले ॥

यो यादृशेन भावेन तिष्ठत्यस्यां च सुव्रत ॥

हर्षदुःखादिभावेन तस्य वर्षं प्रयाति हि

॥५५॥

रुदिते रोदितं वर्षं प्रहृष्टे तु प्रहर्षितम् ॥

भुक्तौ भोग्यं भवेद्वर्षं स्वस्थे स्वस्थं भविष्यति

॥५६॥

वैष्णवी दानवी चेयं तिथिः प्रोक्ता च कार्तिके

॥५७॥

दीपोत्सवं जनितसर्वजनप्रमोदं कुर्वंति ये शुभतया वलिराजपूजाम् ॥

दानोपभोगसुखबुद्धिमतां कुलानां हर्षं प्रयाति सकलं प्रमुदा च वर्षम्

॥५८॥

बलिपूजां विधायैवं पश्चाद्गोक्रीडनं चरेत्

॥५९॥

गवां क्रीडादिने यत्र रात्रौ दृश्येत चन्द्रमाः ॥

सोमो राजा पशून्हंति सुरभीपूजकांस्तथा

॥६०॥

प्रतिपद्दर्शसंयोगे क्रीडनं तु गवां मतम् ॥

परविद्धासु यः कुर्यात्पुत्रदारधनक्षयः

॥६१॥

अलंकार्यास्तदा गावो गोग्रासादिभिरर्चिताः ॥

गीतवादित्रनिर्घोषैर्नयेन्नगरबाह्यतः ॥

आनीय च ततः पश्चात्कुर्यान्नीराजनाविधिम्

॥६२॥

अथ चेत्प्रतिपत्स्वल्पा नारी नीराजनं चरेत् ॥

द्वितीयायां ततः कुर्यात्सायं मंगलमालिकाः

॥६३॥

एवं नीराजनं कृत्वा सर्वपापैः प्रमुच्यते ॥

प्रतिपत्पूर्वविद्धैव यष्टिकाकर्षणे भवेत्

॥६४॥

कुशकाशमयीं कुर्याद्यष्टिकां सुदृढां नवाम् ॥

देवद्वारे नृपद्वारेऽथवाऽऽनेया चतुष्पथे

॥६५॥

तामेकतो राजपुत्रा हीनवर्णास्तथैकतः ॥

गृहीत्वा कर्षयेयुस्ते यथासारं मुहुर्मुहुः

॥६६॥

समसंख्या द्वयोः कार्या सर्वेऽपि बलवत्तराः ॥

जयोऽत्र हीनजातीनां जयो राज्ञस्तु वत्सरम्

॥६७॥

उभयोः पृष्ठतः कार्या रेखा तत्कर्षकोपरि ॥

रेखांते यो नयेत्तस्य जयो भवति नाऽन्यथा

॥६८॥

जयचिह्नमिदं राजा निदधीत प्रयत्नतः

॥६९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकशुक्लप्रतिपन्माहात्म्यवर्णनंनाम दशमोऽध्यायः ॥ १० ॥