मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय ११

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 11

भगवन्प्रष्टुमिच्छामि त्वामहं विनयान्वितः

नारद उवाच

भगवन्प्रष्टुमिच्छामि त्वामहं विनयान्वितः ॥

तद्व्रतं ब्रूहि मे मर्त्यो मृत्युं येन न पश्यति

॥१॥

ब्रह्मोवाच

यदि पृच्छसि विप्रेन्द्र व्रतानामुत्तमं व्रतम् ॥

व्रतं यमद्वितीयाख्यं शृणु त्वं मृत्युनाशनम्

॥२॥

कार्तिके मासि शुद्धायां द्वितीयायां मुनीश्वर ॥

कर्तव्यं तद्विधानेन सर्वमृत्युनिवारणम्

॥३॥

ब्राह्मे मुहूर्ते चोप्थाय द्वितीयायां मुनीश्वर ॥

मनसा चिंतयेदात्महितं नैवाऽहितं स्मरेत्

॥४॥

प्रातःस्नानं ततः कुर्याद्दन्तधावनपूर्वकम् ॥

ततः शुक्लांबरधरः शुक्लमाल्यानुलेपनः

॥५॥

कृतनित्यक्रियो हृष्टः कुण्डलांगदभूषितः ॥

औदुम्बर तरुं गत्वा कृत्वा मण्डलमुत्तमम्

॥६॥

पद्ममष्टदलं कृत्वा तस्मिन्नौदुम्बरे शुभे ॥

विधिं विष्णुं च रुद्रं च वरदां च सरस्वतीम्

॥७॥

वीणापुस्तकसंयुक्तां पूजयेत्स्वस्थमानसः ॥

चन्दनागरुकस्तूरीकुंकुमैर्द्विजसत्तम

॥८॥

पुष्पैर्धूपैश्च नैवेद्यैर्नारिकेलफलादिभिः ॥

ततो मृत्युविनाशाथ सालंकारां पयस्विनीम्

॥९॥

विप्राय वेदविदुषे गां दद्याच्च सवत्सकाम् ॥

अपमृत्युविनाशार्थं संसारार्णवतारकाम्

॥१०॥

हे विप्र ते त्विमां सौम्यां धेनुं संप्रददाम्यहम् ॥

इति मंत्रेण गां दद्याद्विप्राय ब्रह्मवादिने

॥११॥

तदलाभे तु विप्राय भक्त्या दद्यादुपानहौ ॥

ततः पूजां समाप्याथ भक्तिमान्पुरुषोत्तमे

॥१२॥

ज्ञातिश्रेष्ठान्वयोवृद्धान्सम्यग्भक्त्याऽभिवादयेत् ॥

नानाविधैः फलै रम्यैस्तर्प्पयेत्स्वजनानपि

॥१३॥

ततः सोदरसंपन्ना भगिनी या भवेन्मुने ॥

तस्या गृहं समागत्य सम्यग्भक्त्याऽभिवादयेत्

॥१४॥

भगिनि सुभगे भद्रे त्वदंघ्रिसरसीरुहम् ॥

श्रेयसेऽथ नमस्कर्तुमागतोऽस्मि तवालयम्

॥१९॥

इत्युक्त्वा भगिनीं तां तु विष्णुबुद्ध्याऽभिवादयेत् ॥

तदा तु भगिनी श्रुत्वा भ्रातुर्वचनमुत्तमम्

॥१६॥

भगिन्या भ्रातरं वाक्यं वक्तव्यं प्रति नारद ॥

अद्य भ्रातरहं जाता त्वत्तो धन्याऽस्मि मंगला

॥१७॥

भोक्तव्यं तेऽद्य मद्गेहे स्वायुषे कुलदीपक ॥

कार्तिके शुक्लपक्षस्य द्वितीयायां सहोदर

॥१८॥

यमो यमुनया पूर्वं भोजितः स्वगृहेर्चितः ॥

अस्मिन्दिने यमेनाऽपि नारकीयाश्च मोचिताः ॥

अपि बद्धाः कर्मपाशैः स्वेच्छया पर्यटंति ते

॥१९॥

स्वसुर्नरो वेश्मनि यो न भुंक्ते यमद्वितीयादिनमत्र लब्ध्वा ॥

तं पापिनं प्राप्य वयं सुहृष्टाः प्रभक्षयामोऽद्य च भक्ष्यहीनाः

॥२०॥

इति पापा रटंतीह ब्रह्महत्यादयस्तथा ॥

तस्माद्भ्रातर्मद्गृहे तु भोजनं कुरु कार्तिके

॥२१॥

शुक्लायां तु द्वितीयायां विश्रुतायां जगत्त्रये ॥

अस्यां निजगृहे पुत्र भुज्यते न बुधैरपि

॥२२॥

इत्युक्तः स तथेत्युक्ता भगिनीं पूजयेद्व्रती ॥

प्रहर्षास्तुमहाभाग वस्त्रालंकारभूषणैः

॥२३॥

अग्रजामभिवंद्याऽथ आशिषं च प्रगृह्य च ॥

सर्वा भगिन्यः संतोष्या वस्त्रालंकारदानतः

॥२४॥

अभावे स्वस्य तु स्वसुः पितृव्याः स्वपितुः स्वसा ॥

तस्या गृहं समागत्य कुर्याद्भोजनमादरात्

॥२५॥

एवं यः कुरुते पुत्र द्वितीयां यमनामिकाम् ॥

अपमृत्युविनिर्मुक्तः पुत्रपौत्रादिभिर्वृतः

॥२६॥

इह भुक्त्वा तु विपुलान्भोगानन्यान्यथेप्सितान् ॥

अंते मोक्षमवाप्नोति नान्यथा मद्वचो भवेत्

॥२७॥

व्रतान्येतानि सर्वाणि दानानि विविधानि च ॥

गृहस्थस्यैव युज्यंते तस्माद्गार्हस्थ्यमाश्रयेत्

॥२८॥

कथां यमद्वितीयाया व्रतस्थः शृणुयान्नरः ॥

तस्य सर्वाणि पापानि नश्यंतीत्याह माधवः

॥२९॥

सूत उवाच

कार्तिके च द्वितीयायां पूर्वाह्णे यममर्चयेत् ॥

भानुजायां नरः स्नात्वा यमलोकं न पश्यति

॥३०॥

कार्तिके शुक्लपक्षे तु द्वितीयायां तु शौनक ॥

यमो यमुनया पूर्वं भोजितः स्वगृहेऽर्चितः

॥३१॥

द्वितीयायां महोत्सर्गो नारकीयाश्च तर्पिताः ॥

पापेभ्यो विप्रयुक्तास्ते मुक्ताः सर्वे निबंधनात्

॥३२॥

अत्राऽऽशिताश्च संतुष्टाः स्थिताः सर्वे यदृच्छया ॥

तेषां महोत्सवो वृत्तो यमराष्ट्रसुखावहः

॥३३॥

अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता ॥

तस्मान्निजगृहे विप्र न भोक्तव्यं ततो बुधैः

॥३४॥

स्नेहेन भगिनीहस्ताद्भोक्तव्यं बलवर्धनम् ॥

ऊर्जे शुक्लद्वितीयायां पूजितस्तर्पितो यमः

॥३९॥

महिषासनमारूढो दंडमुद्गरभृत्प्रभुः ॥

वेष्टितः किंकरैर्हृष्टैस्तस्मै याम्यात्मने नमः

॥३६॥

यैर्भगिन्यः सुवासिन्यो वस्त्रदानादितोषिताः ॥

न तेषां वत्सरं यावत्कलहो न रिपोर्भयम्

॥३७॥

धन्यं यशस्यमायुष्यं धर्मकामार्थसाधनम् ॥

व्याख्यातं सकलं पुत्र सरहस्यं मयाऽनघ

॥३८॥

यस्यां तिथौ यमुनया यमराजदेवः संभोजितः प्रतितिथौ स्वसृसौहृदेन ॥

तस्मात्स्वसुः करतलादिह यो भुनक्ति प्राप्नोति वित्तशुभसंपदमुत्तमां सः

॥३९॥

सूत उवाच

विशेषश्चात्र संप्रोक्तो वालखिल्यैर्महर्षिभिः ॥

तदहं संप्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः

॥४०॥

वालखिल्या ऊचुः

कार्तिकस्य सिते पक्षे द्वितीया यमसंज्ञिता ॥

तत्राऽपराह्ने कर्तव्यं सर्वथैव यमार्चनम्

॥४१॥

प्रत्यहं यमुनाऽऽगत्य यमं संप्रार्थयत्पुरा ॥

भ्रातर्मम गृहे याहि भोजनार्थं गणावृतः

॥४२॥

अद्यश्वो वा परश्वो वा प्रत्यहं वदते यमः ॥

कार्यव्याकुलचित्तानामवकाशो न जायते

॥४३॥

तदैकदा यमुनया बलात्कारान्निमंत्रितः ॥

स गतः कार्तिके मासि द्वितीयायां मुनीश्वराः

॥४४॥

नारकीयजनान्मुक्त्वा गणैः सह रवेः सुतः ॥

कृताऽऽतिथ्यो यमुनया नानापाकाः कृताः खग

॥४५॥

कृताभ्यंगो यमुनया तैलैर्गंधमनोहरैः ॥

उद्वर्तनं लापयित्वा स्नापितः सूर्यनंदनः

॥४६॥

ततोऽलंकारकं दत्तं नानावस्त्राणि चंदनम् ॥

माल्यानि च प्रदत्तानि मंचोपरि उपाविशत्

॥४७॥

पक्वान्नानि विचित्राणि कृत्वा सा स्वर्णभाजने ॥

यमायाभोजयद्देवी यमुना प्रीतमानसा

॥४८॥

भुक्त्वा यमोऽपि भगिनीमलंकारैः समर्चयत् ॥

नानावस्त्रैस्ततः प्राह वरं वरय भामिनि ॥

इति तद्वचनं श्रुत्वा यमुना वाक्यमब्रवीत्

॥४९॥

यमुनोवाच

प्रतिवर्षं समागच्छ भोजनार्थं तु मद्गृहे

॥५०॥

अद्य सर्वे मोचनीयाः पापिनो नरकाद्यम ॥

येऽद्यैव भगिनीहस्तात्करिष्यंति च भोजनम् ॥

तेषां सौख्यं प्रदेहि त्वमेतदेव वृणोम्यहम्

॥५१॥

यम उवाच

यमुनायां तु यः स्नात्वा संतर्प्य पितृदेवताः

॥५२॥

भुंक्ते च भगिनीगेहे भगिनीं पूजयेदपि ॥

कदाचिदपि मद्वारं न स पश्यति भानुजे

॥५३॥

वीरेशैशानदिग्भागे यमतीर्थं प्रकीर्तितम् ॥

तत्र स्नात्वा च विधिवत्संतर्प्य पितृदेवताः

॥५४॥

पठेदेतानि नामानि आमध्याह्नं नरोत्तमः ॥

सूर्यस्याभिमुखो मौनी हृतचित्तः स्थिरासनः

॥५५॥

यमो निहंता पितृधर्मराजो वैवस्वतो दंडधरश्च कालः ॥

भूताधिपो दत्तकृतानुसारी कृतांतमेतद्दशभिर्जपंति

॥५६॥

ततो यमेश्वरं पूज्य भगिनीगृहमाव्रजेत् ॥

मंत्रेणाऽनेन च तया भोजितः पूर्वमादरात्

॥५७॥

भ्रातस्तवानुजाताऽहं भुंक्ष्व भक्तमिदं शुभम् ॥

प्रीतये यमराजस्य यमुनाया विशेषतः

॥५८॥

ततः संतोष्य भगिनीं वस्त्रालंकरणादिभिः ॥

स्वप्नेऽपि यमलोकस्य भविष्यति न दर्शनम्

॥५९॥

नृपैः कारागृहे ये च स्थापिता मम वासरे ॥

अवश्यं ते प्रेषणीया भोजनार्थं स्वसुर्गृहे

॥६०॥

विमोक्तव्या मया पापा नरकेभ्योऽद्य वासरे ॥

येऽद्य बंदी करिष्यंति ते ताड्या मम सर्वथा

॥६१॥

कनीयसी स्वसा नास्ति तदा ज्येष्ठागृहं व्रजेत् ॥

तदभावे सपत्यायाः पितृव्यजागृहे ततः

॥६२॥

तदभावे मातृष्वसुर्मातुलस्याऽऽत्मजा तथा ॥

सापत्नगोत्रसंबंधैः कल्पयेदथवा क्रमम्

॥६३॥

सर्वाऽभावे माननीया भगिनी काचिदेव हि ॥

गोनद्याद्यथवा तस्या अभावे सति कारयेत्

॥६४॥

तदभावेप्यरण्यानीं कल्पयित्वा सहोदराम् ॥

अस्यां निजगृहे देवि न भोक्तव्यं कदाचन

॥६५॥

ये भुंजते दुराचारा नरके ते पतंति च ॥

एवमुक्त्वा धर्मराजो ययौ संयमिनीं ततः

॥६६॥

तस्मादृषिवराः सर्वे कार्तिकव्रतकारिणः ॥

भुंजते भगिनीहस्तात्सत्यं सत्यं न संशयः

॥६७॥

यमद्वितीयां यः प्राप्य भगिनीगृहभोजनम् ॥

न कुर्याद्वर्षजं पुण्यं नश्यतीति रवेः श्रुतिः

॥६८॥

या तु भोजयते नारी भ्रातरं भ्रातृके तिथौ ॥

अर्चयेच्चाऽपि तांबूलैर्न सा वैधव्यमाप्नुयात्

॥६९॥

भ्रातुरायुःक्षयो नूनं न भवेत्तत्र कर्हिचित् ॥

अपराह्नव्यापिनी सा द्वितीया भ्रातृभोजने

॥७०॥

अज्ञानाद्यदि वा मोहान्न भुक्तं भगिनीगृहे ॥

प्रवासिना ह्यभावाद्वा ज्वरितेनाऽथ बंदिना

॥७१॥

एतदाख्यानकं श्रुत्वा भोजनस्य फलं भवेत् ॥

कार्तिके तु विशेषेण धात्रीछायां समाश्रितः

॥७२॥

भोजनं कुरुते यस्तु स वैकुंठमवाप्नुयात्

॥७३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये यमद्वितीयामाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥ ११ ॥

छ ॥ टीका अथ यमद्वितीयाविधानमाह-यदीति । यमद्वितीयाख्यायाः प्रयोजनं वक्तुमन्यासामप्याह पाद्मे- 'स्कंदैतास्तिथयो नूनं द्वितीयाद्याश्च विश्रुताः ॥ मासैश्चतुर्भिश्च ततः प्रावृट्काले सुखावहाः ॥ प्रथमा श्रावणे मासि तथा भाद्रपदेऽपरा ॥ तृतीयाऽश्वयुजे मासि चतुर्थी कार्तिके भवेत् ॥ कलुषा श्रावणे मासि तथा भाद्रपदेऽमला ॥ आश्विने प्रेतसंचारा कार्तिके याम्यका मता ॥ पुरा वृत्रवधे वृत्ते प्राप्तराज्ये पुरंदरे ॥ ब्रह्महत्यापनोदार्थमश्वमेधः प्रकीर्तितः ॥ क्रोधादिंद्रेण वज्रेण ब्रह्महत्या निषूदिता ॥ षड्विधा सा क्षितौ क्षिप्ता वृक्षतोयमहीतले ॥ नार्या भ्रूणहने वह्नौ संविभज्य यथाक्रमम् ॥ तत्पापश्रवणात्पूर्वं द्वितीयाया दिनेऽनघ ॥ नारीवृक्षनदीभूमिवह्निभूणहनस्तथा ॥ कलुषीभवनं जाता ह्यतोऽर्थ कलुषा स्मृता ॥ मधुकैटभयो रक्ते पुरा मग्ना तु मेदिनी ॥ अष्टांऽगुला पवित्रा सा नारीणां तु रजो मलम् ॥ नद्यः प्रावृण्मलाः सर्वा वह्नेरूर्ध्वं मषी मलः ॥ निर्यासमलिनो वृक्षाः संगाद्भ्रूणहनो मलाः ॥ कलुषाणि चरंत्यस्यां तेनैषा कलुषा मता ॥ देवर्षिपितृधर्माणां निंदका नास्तिकाः शठाः ॥ तेषां सा वाङ्मलात्पूता द्वितीया तेन निर्मला ॥ अनध्यायेषु शास्त्राणि पाठयंति पठंति च ॥ सांख्यकास्तार्किकाः श्रौतास्तेषां शब्दाऽपशब्दजात् ॥ मलात्पूता द्वितीयायां ततोऽर्थे निर्मला च सा ॥ कृष्णस्य जन्मना वत्स त्रैलोक्यं पावितं भवेत् ॥ नभस्येतेन निर्दिष्टा निर्मला सा तिथिर्बुधैः ॥ अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ॥ पितॄन्पितामहान्प्रेतसंचरात्प्रेतसंचरा ॥ प्रेतास्तु पितरः प्रोक्तास्तेषां तस्यां तु संचरः ॥ पुत्रपौत्रैस्तु दौहित्रैः स्वधामंत्रैस्तु पूजिताः ॥ श्राद्धदानमखैस्तृप्ता यांत्यतः प्रेतसंचरा ॥ महालये तु प्रेतानां संचारो भुवि दृश्यते ॥ तेनैषा प्रेतसंचारा कीर्तिता शिखिवाहन ॥ यमस्य क्रियते पूजा यतोऽस्यां पावके नरैः ॥ तेनैषा याम्यका प्रोक्ता सत्यंसत्यं मयोदितम् ॥ इति । सनत्कुमारसंहितायाम्- अस्यां निजगृहे देवि न भोक्तव्यं कदाचन ॥ ये भुंजते दुराचारा नरके ते पतंति च ॥ श्रावणे तु पितृव्यस्य कन्याहस्तेन भोजनम् ॥ मातुलस्य सुताहस्ताद्भोक्तव्यं भाद्रमासके ॥ पितुर्भ्रातुः स्वसुः कन्ये आश्विने तु तयोः क्रमात् ॥ अवश्यं कार्तिके मासि भोक्तव्यं भगिनीकरात् ॥ ७ इति