मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय ३२

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 32

पञ्चकव्रतमाहात्म्यवर्णनम्

वालखिल्या ऊचुः

कार्तिकस्याऽमले पक्षे स्नात्वा सम्यग्यतव्रतः ॥

एकादश्यां तु गृह्णीयाद्व्रतं पंचदिनात्मकम्

॥१॥

शरपंजरसुप्तेन भीष्मेण तु महात्मना ॥

राजधर्मा मोक्षधर्मा दानधर्मास्ततः परम् ॥

कथिता पांडुदायादैः कृष्णेनाऽपि श्रुतास्तदा

॥२॥

ततः प्रीतेन मनसा वासुदेवेन भाषितम् ॥

धन्यधन्योऽसि भीष्म त्वं धर्माः संश्रावितास्त्वया

॥३॥

एकादश्यां कार्तिकस्य याचितं च जलं त्वया ॥

अर्जुनेन समानीतं गांगं बाणस्य वेगतः

॥४॥

तुष्टानि तव गात्राणि तस्मादद्यदिनावधि ॥

पूर्णांतं सर्वलोकास्त्वां तर्पयंत्वर्घ्यदानतः

॥५॥

तस्मात्सर्वप्रयत्नेन मम संतुष्टिकारकम् ॥

एतद्व्रतं प्रकुर्वंतु भीष्मपंचकसंज्ञितम्

॥६॥

कार्तिकस्य व्रतं कृत्वा न कुर्याद्भीष्मपंचकम् ॥

समग्रं कार्तिकव्रतं वृथा तस्य भविष्यति

॥७॥

अशक्तश्चेन्नरो भूयादसमर्थश्च कार्तिके ॥

भीष्मस्य पंचकं कृत्वा कार्तिकस्य फलं लभेत्

॥८॥

सत्यव्रताय शुचये गांगेयाय महात्मने ॥

भीष्मायैतद्ददाम्यर्घ्यमाजन्मब्रह्मचारिणे

॥९॥

सव्येनाऽनेन मंत्रेण तर्पणं सार्ववर्णिकम्

॥१०॥

व्रतांगत्वात्पूर्णिमायां प्रदेयः पापपूरुषः ॥

अपुत्रेण प्रकर्तव्यं सर्वथा भीष्मपञ्चकम्

॥११॥

यः पुत्रार्थं व्रतं कुर्यात्सस्त्रीको भीष्मपञ्चकम् ॥

प्रदत्त्वा पापपुरुषं वर्षमध्ये सुतं लभेत्

॥१२॥

अवश्यमेव कर्तव्यं तस्माद्भीष्मस्य पंचकम् ॥

विष्णुप्रीतिकरं प्रोक्तं मया भीष्मस्य पञ्चकम्

॥१३॥

सूत उवाच

शृण्वंतु ऋषयः सर्वे विशेषो भीष्मपञ्चके ॥

कार्तिकेयाय रुद्रेण पुरा प्रोक्तः सविस्तरात्

॥१४॥

ईश्वर उवाच

प्रवक्ष्यामि महापुण्यं व्रतं व्रतवतां वर ॥

भीष्मेणैतद्यतः प्राप्तं व्रतं पञ्चदिनात्मकम्

॥१५॥

सकाशाद्वासुदेवस्य तेनोक्तं भीष्मपञ्चकम् ॥

व्रतस्याऽस्य गुणान्वक्तुं कः शक्तः केशवादृते

॥१६॥

कार्तिके शुक्लपक्षे तु शृणु धर्मं पुरातनम् ॥

वसिष्ठभृगुगर्गाद्यैश्चीर्णं कृतयुगादिषु

॥१७॥

अम्बरीषेण भोगाद्यैश्चीर्णं त्रेतायुगादिषु ॥

ब्राह्मणैर्ब्रह्मचर्येण जपहोमक्रियादिभिः

॥१८॥

क्षत्रियैश्च तथा वैश्यैः सत्यशौचपरायणैः ॥

दुष्करं सत्यहीनानामशक्यं बालचेतसाम्

॥१९॥

दुष्करं भीष्ममित्याहुर्न शक्यं प्राकृतैर्नरैः ॥

यस्मात्करोति विप्रेंद्र तेन सर्वं कृतं भवेत्

॥२०॥

व्रतं चैतन्महापुण्यं महापातकनाशनम् ॥

अतो नरैः प्रयत्नेन कर्तव्यं भीष्मपञ्चकम्

॥२१॥

कार्तिकस्याऽमले पक्षे स्नात्वा सम्यग्विधानतः ॥

एकादश्यां तु गृह्णीयाद्व्रतं पंचदिनात्मकम्

॥२२॥

प्रातः स्नात्वा विशेषेण मध्याह्ने च तथा व्रती ॥

नद्यां निर्झरतोये वा समालभ्य च गोमयम्

॥२३॥

यवव्रीहितिलैः सम्यक्पितॄन्संतर्पयेत्क्रमात् ॥

स्नात्वा मौनं नरः कृत्वा धौतवासा दृढव्रतः

॥२४॥

भीष्मायोदकदानं च अर्घ्यं चैव प्रयत्नतः ॥

पूजा भीष्मस्य कर्तव्या दानं दद्यात्प्रयत्नतः

॥२५॥

पंचरत्नं विशेषेण दत्त्वा विप्राय यत्नतः ॥

वासुदेवोऽपि संपूज्यो लक्ष्मीयुक्तः सदा प्रभुः

॥२६॥

पञ्चके पूजयित्वा तु कोटिजन्मानि तुष्यति

॥२७॥

यत्किंचिद्ददते मर्त्यः पंचधातुप्रकल्पितम् ॥

संवत्सरव्रतानां स लभते सकलं फलम्

॥२८॥

कृत्वा तूदकदानं तु तथाऽर्घ्यस्य च दापनम् ॥

मन्त्रेणानेन यः कुर्यान्मुक्तिभागी भवेन्नरः

॥२९॥

वैयाघ्रपादगोत्राय सांकृत्य प्रवराय च ॥

अनपत्याय भीष्माय उदकं भीष्मवर्मणे

॥३०॥

वसूनामवताराय शंतनोरात्मजाय च ॥

अर्घ्यं ददामि भीष्माय आजन्मब्रह्मचारिणे

॥३१॥

इत्यर्घ्यमंत्रः ॥

अनेन विधिना यस्तु पंचकं तु समापयेत् ॥

अश्वमेधसमं पुण्यं प्राप्नोत्यत्र न संशयः

॥३२॥

पंचाऽहमपि कर्तव्यं नियमं च प्रयत्नतः ॥

नियमेन विना यत्र न भाव्यं वरवर्णिना

॥३३॥

उत्तरायणहीनाय भीष्माय प्रददौ हरिः ॥

उत्तरायणहीनेऽपि शुद्धलग्नं सुतोषितः

॥३४॥

ततः संपूजयेद्देवं सर्वपापहरं हरिम् ॥

अनंतरं प्रयत्नेन कर्तव्यं भीष्मपंचकम्

॥३५॥

स्नापयेत जलैर्भक्त्या मधुक्षीरघृतेन च ॥

तथैव पंचगव्येन गन्धचंदनवारिणा

॥३६॥

चन्दनेन सुगन्धेन कुमकुमेनाऽथ केशवम् ॥

कर्पूरोशीरमिश्रेण लेपयेद्गरुडध्वजम्

॥३७॥

अर्चयेद्रुचिरैः पुष्पैर्गंधधूपसमन्वितैः ॥

गुग्गुलुं घृतसंयुक्तं ददेत्कृष्णाय भक्तिमान्

॥३८॥

दीपकं तु दिवा रात्रौ दद्यात्पंच दिनानि तु ॥

नैवेद्यं देवदेवस्य परमान्नं निवेदयेत्

॥३९॥

एवमभ्यर्चयेद्देवं संस्मृत्य च प्रणम्य च ॥

ॐ नमो वासुदेवायेति जपेदष्टोत्तरं शतम्

॥४०॥

जुहुयाच्च घृताभ्यक्तैस्तिलव्रीहियवादिभिः ॥

षडक्षरेण मन्त्रेण स्वाहाकाराऽन्वितेन च

॥४१॥

उपास्य पश्चिमां संध्यां प्रणम्य गरुडध्वजम् ॥

जपित्वा पूर्ववन्मन्त्रं क्षितिशायी भवेत्सदा

॥४२॥

सर्वमेतद्विधानं तु कार्यं पञ्च दिनानि तु ॥

विशेषोऽत्र व्रते ह्यस्मिन्यदन्यूनं शृणुष्व तत्

॥४३॥

प्रथमेऽह्नि हरेः पादौ पूजयेत्कमलैर्व्रती ॥

द्वितीये बिल्वपत्रेण जानुदेशं समर्चयेत्

॥४४॥

ततोऽनुपूजयेच्छीर्षं मालत्या चक्रपाणिनः ॥

कार्तिक्यां देवदेवस्य भक्त्या तद्गतमानसः

॥४५॥

अर्चित्वा तं हृषीकेशमेकादश्यां समासतः ॥

निःप्राश्य गोमयं सम्यगेकादश्यामुपावसेत्

॥४६॥

गोमूत्रं मन्त्रवद्भूमौ द्वादश्यां प्राशयेद्व्रती ॥

क्षीरं चैव त्रयोदश्यां चतुर्दश्यां तथा दधि

॥४७॥

संप्राश्य कायशुद्ध्यर्थं लंघयित्वा चतुर्दिनम् ॥

पंचमे दिवसे स्नात्वा विधिवत्पूज्य केशवम् ॥

भोजयेद्ब्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम्

॥४८॥

पापबुद्धिं परित्यज्य ब्रह्मचर्येण धीमता ॥

मद्यं मांसं परित्याज्यं मैथुनं पापकारणम्

॥४९॥

शाकाहारेण मुन्यन्नैः कृष्णार्चनपरो नरः ॥

ततो नक्तं समश्नीयात्पंचगव्यपुरःसरम्

॥५०॥

एवं सम्यक्समाप्यं स्याद्यथोक्तं फलमाप्नुयात्

॥५१॥

मद्यपो यः पिबेन्मद्यं जन्मनो मरणांऽतिकम् ॥

एतद्भीष्मव्रतं कृत्वा प्राप्नोति परमं पदम्

॥५२॥

स्त्रीभिर्वा भर्तृवाक्येन कर्तव्यं धर्मवर्धनम् ॥

विधवाभिश्च कर्तव्यं मोक्षसौख्याऽतिवृद्धये

॥५३॥

अयोध्यायां पुरा कश्चिदतिथिर्नाम वै नृपः ॥

वसिष्ठवचनात्कृत्वा व्रतमेतत्सुदुर्लभम् ॥

भुक्त्वेह निखिलान्भोगानंते विष्णुपुरं ययौ

॥५४॥

इत्थं कुर्याद्व्रतं नित्यं पञ्चकं भीष्मसंज्ञितम् ॥

नियमेनोपवासेन पञ्चगव्येन वा पुनः ॥

पयोमूलफलाऽऽहारैर्हविष्यैर्व्रततत्परः

॥५५॥

पौर्णमासीदिने प्राप्ते पूजां कृत्वा तु पूर्ववत् ॥

ब्राह्मणान्भोजयेद्भक्त्या गां च दद्यात्सवत्सकाम्

॥५६॥

यद्भीष्मपञ्चकमिति प्रथितं पृथिव्यामेकादशीप्रभृति पंचदशीनिरुद्धम् ॥

उक्तं न भोजनपरस्य तदा निषेधस्तस्मिन्व्रते शुभफलं प्रददाति विष्णुः

॥५७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये भीष्म पञ्चकव्रतमाहात्म्यवर्णनंनाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥