मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय २१

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 21

विष्णुर्जलंधरं गत्वा तद्दैत्यपुटभेदनम्

नारद उवाच

विष्णुर्जलंधरं गत्वा तद्दैत्यपुटभेदनम् ॥

पातिव्रत्यस्य भंगाय वृंदायाश्चाऽकरोन्मतिम्

॥१॥

अथ वृंदारका देवी स्वप्नमध्ये ददर्श ह ॥

भर्तारं महिषाऽऽरूढं तैलाभ्यक्तं दिगंम्बरम्

॥२॥

कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितम् ॥

दक्षिणाशागतं मुण्डं तमसाप्याऽऽवृतं तदा

॥३॥

स्वपुरं सागरे मग्नं सहसैवाऽऽत्मना सह ॥

ततः प्रबुद्धा सा बाला तत्स्वप्नं प्रविचिन्वती

॥४॥

ददर्शोदितमादित्यं सच्छिद्रं निष्प्रभं मुहुः ॥

तदनिष्टमिति ज्ञात्वा रुदती भयविह्वला

॥५॥

कुत्रचिन्नाऽलभच्छर्म गोपुराट्टालभूमिषु ॥

ततः सखीद्वययुता नगरोद्यानमागमत्

॥६॥

तत्राऽपि साऽभ्रमद्बाला नाऽलभत्कुत्रचित्सुखम् ॥

वनाद्वनांतरं याता नैव वेदात्मनस्तदा

॥७॥

ततः सा भ्रमती बाला ददर्शाऽतीवभीषणौ ॥

राक्षसौ सिंहवदनौ दंष्ट्राऽऽननविभीषणौ

॥८॥

तौ दृष्ट्वा विह्वलाऽतीव पलायनपराऽभवत् ॥

ददर्श तापसं शांतं सशिष्यं मौनमास्थितम्

॥९॥

ततस्तत्कण्ठमावृत्य निजां बाहुलतां भयात् ॥

मुने मां रक्ष शरणमागताऽस्मीत्यभाषत

॥१०॥

मुनिस्तां विह्वलां दृष्ट्वा राक्षसाऽनुगतां तदा ॥

हुंकारेणैव तौ घोरौ चकार विमुखौ रुषा

॥११॥

तौ हुंकारभयत्रस्तौ दृष्ट्वा च विमुखौ गतौ ॥

प्रणम्य दंडवद्भूमौ वृन्दा वचनमब्रवीत्

॥१२॥

वृन्दोवाच

रक्षिताहं त्वया घोराद्भयादस्मात्कृपानिधे ॥

किंचिद्विप्तुमिच्छामि कृपया तन्निशामय

॥१३॥

जलंधरो हि मद्भर्ता रुद्रं योद्धुं गतः प्रभो ॥

स तत्राऽस्ते कथं युद्धे तन्मे कथय सुव्रत

॥१४॥

नारद उवाच

मुनिस्तद्वाक्यमाकर्ण्य कृपयोर्ध्वमवैक्षत ॥

तावत्कपी समायातौ प्रणम्य चाग्रतः स्थितौ

॥१५॥

ततस्तद्भ्रूलतासंज्ञानियुक्तौ गगनं गतौ ॥

गत्वा क्षणार्द्धादागत्य प्रणतावग्रतः स्थितौ ॥

शिरःकबन्धे हस्तौ च गृहीत्वा समुपस्थितौ

॥१६॥

शिरःकबंधे हस्तौ च दृष्ट्वाऽब्धितनयस्य सा ॥

पपात मूर्छिता भूमौ भर्तृव्यसनदुःखिता

॥१७॥

कमंडलूदकैः सिक्त्वा मुनिनाऽऽश्वासिता तदा ॥

स्वभर्तृभाले सा भालं कृत्वा दीना रुरोद ह

॥१८॥

वृन्दोवाच

यः पुरा सुखसंवादे विनोदयसि मां प्रभो ॥

स कथं न वदस्यद्य वल्लभा मामनागसम्

॥१९॥

येन देवाः सगंधर्वा निर्जिता विष्णुना सह ॥

स कथं तापसेनाऽद्य त्रैलोक्यविजयी हतः

॥२०॥

नारद उवाच

रुदित्वेति तदा वृन्दा तं मुनिं वाक्यमब्रवीत् ॥

वृन्दोवाच ॥

कृपानिधे मुनिश्रेष्ठ जीवयैनं मम प्रियम्

॥२१॥

त्वमेवास्य मुने शक्तो जीवनाय मतो मम ॥

नारद उवाच ॥

इति तद्वाक्यमाकर्ण्य प्रहसन्मुनिरब्रवीत्

॥२२॥

मुनिरुवाच

नाऽयं जीवयितुं शक्तो रुद्रेण निहतो युधि ॥

तथाऽपि त्वत्कृपाविष्ट एनं संजीवयाम्यहम्

॥२३॥

नारद उवाच

इत्युक्त्वांतर्दधे विप्रस्तावत्सागरनंदनः ॥

वृंदामालिंग्य तद्वक्त्रं चुचुंब प्रीतमानसः

॥२४॥

अथ वृन्दाऽपि भर्तारं दृष्ट्वा हर्षितमानसा ॥

रेमे तद्वनमध्यस्था तद्युक्ता बहुवासरम्

॥२५॥

कदाचित्सुरतस्यांते दृष्ट्वा विष्णुं तमेव च ॥

निर्भर्त्स्य क्रोधसंयुक्ता वृन्दा वचनमब्रवीत्

॥२६॥

वृंदोवाच

धिक्त्वदीयं हरे शीलं परदाराभिगामिनः ॥

ज्ञातोऽसि त्वं मया सम्यङ्मायाप्रच्छन्नतापसः

॥२७॥

यौ त्वया मायया द्वाःस्थौ स्वकीयौ दर्शितौ मम ॥

तावेव राक्षसौ भूत्वा भार्यां तव हरिष्यतः

॥२८॥

त्वं चाऽपि भार्यादुःखार्तो वने कपिसहायवान् ॥

भ्रम सर्पेश्वरेणाऽयं यस्ते शिष्यत्वमागतः

॥२९॥

इत्युक्त्वा सा तदा वृन्दा प्राविशद्धव्यवाहनम् ॥

विष्णुना वार्यमाणाऽपि तस्यामासक्तचेतसा

॥३०॥

ततो हरिस्तामनुसंस्मरन्मुहुर्वृंदान्वितोभस्मरजोवगुंठितः ॥

तत्रैव तस्थौ सुरसिद्धसंघैः प्रबोध्यमानोऽपि ययौ न शांतिम्

॥३१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने वृन्दाग्निप्रवेशवर्णनंनामैकविंशोऽध्यायः ॥ २१ ॥