धात्रीतुलस्युत्पत्तिवर्णनम्
नारद उवाच
क्षिप्तेभ्यस्तत्र बीजेभ्यो वनस्पत्यस्त्रयोऽभवन् ॥
धात्री च मालती चैव तुलसी च नृपोत्तम
॥१॥धात्र्युद्भवा स्मृता धात्री माभवा मालती स्मृता ॥
गौरीभवा च तुलसी तमःसत्त्वरजोगुणाः
॥२॥स्त्रीरूपिण्यौ वनस्पत्यौ दृष्ट्वा विष्णुस्तदा नृप ॥
उत्तस्थौ संभ्रमाद्वृंदा रूपातिशयविभ्रमः
॥३॥दृष्ट्वा च याचते मोहात्कामासक्तेन चेतसा ॥
तं चाऽपि तुलसीधात्र्यौ रागेणैव व्यलोकताम्
॥४॥यच्च लक्ष्म्या पुरा बीजमीर्ष्ययैव समर्पितम् ॥
तस्मात्तदुद्भवा नारी तस्मिन्नीर्ष्यापराऽभवत्
॥५॥अतः सा बर्बरीत्याख्यामवापाऽध विगर्हिताम् ॥
धात्रीतुलस्यौ तद्रागात्तस्य प्रीतिप्रदे सदा
॥६॥ततो विस्मृतदुःखोऽसौ विष्णुस्ताभ्यां सहैव तु ॥
वैकुण्ठमगमद्धृष्टः सर्वदेव नमस्कृतः
॥७॥कार्तिकोद्यापने विष्णोस्तस्मात्पूजा विधीयते ॥
तुलसीमूलदेशेऽस्य प्रीतिदा सा यतः स्मृता
॥८॥तुलसीकाननं राजन्गृहे यस्याऽवतिष्ठते ॥
तद्गृहं तीर्थरूपं तु नाऽऽयांति यमकिंकराः
॥९॥सर्वपापहरं नित्यं कामदं तुलसीवनम् ॥
रोपयंति नराः श्रेष्ठास्ते न पश्यंति भास्करिम्
॥१०॥दर्शनं नर्मदायास्तु गंगास्नानं तथैव च ॥
तुलसीवनसंसर्गः सममेव त्रयं स्मृतम्
॥११॥रोपणात्पालनात्सेकाद्दर्शनात्स्पर्शनान्नृणाम् ॥
तुलसी दहते पापं वाङ्मनःकायसंचितम्
॥१२॥तुलसीमंजरीभिर्यः कुर्याद्धरिहराऽर्चनम् ॥
न स गर्भगृहं याति मुक्तिभागी न संशयः
॥१३॥पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा ॥
वासुदेवादयो देवास्तिष्ठंति तुलसीदले
॥१४॥तुलसीमंजरीयुक्तो यस्तु प्राणान्विमुंचति ॥
यमोऽपि नेक्षितुं शक्तो युक्तं पापशतैरपि
॥१५॥विष्णोः सायुज्यमाप्नोति सत्यं सत्यं नृपोत्तम ॥
तुलसीकाष्ठजं यस्तु चंदनं धारयेन्नरः
॥१६॥तद्देहं न स्पृशेत्पापं क्रियमाणमपीह यत् ॥
तुलसीविपिनच्छाया यत्रयत्र भवेन्नृप
॥१७॥तत्र श्राद्धं प्रकर्तव्यं पितॄणां दत्तमक्षयम् ॥
धात्रीफलविमिश्रैश्च तुलसीपत्रमिश्रितैः
॥१८॥जलैः स्नाति नरस्तस्य गंगास्नानफलं स्मृतम् ॥
देवार्चनं नरः कुर्याद्धात्रीपत्रैः फलैस्तथा
॥१९॥सुवर्णमणिमुक्तौघैरर्चनस्याप्नुयात्फलम् ॥
तीर्थानि मुनयो देवा यज्ञाः सर्वेऽपि कार्तिके
॥२०॥नित्यं धात्रीं समाश्रित्य तिष्ठंत्यर्के तुलास्थिते ॥
द्वादश्यां तुलसीपत्रं धात्रीपत्रं तु कार्तिके
॥२१॥लुनाति स नरो गच्छेन्निरयानतिगर्हितान् ॥
धात्रीतुलस्योर्माहात्म्यमपि देवश्चतुर्मुखः ॥
न समर्थो भवेद्वक्तुं यथा देवस्य शार्ङ्गिणः
॥२२॥धात्रीतुलस्युद्भवकारणं यः शृणोति यः श्रावयते च भक्त्या ॥
विधूतपाप्मा सह पूर्वजैः स्वैः स्वर्गं व्रजत्यग्र्यविमानसंस्थैः
॥२३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धात्रीतुलस्युत्पत्तिवर्णनंनाम त्रयोविंशोऽध्यायः ॥ २३ ॥