जलंधरस्तु तच्छुत्वा कोपाकुलितविग्रहः
नारद उवाच
जलंधरस्तु तच्छुत्वा कोपाकुलितविग्रहः ॥
निर्जगामाऽऽशु दैत्यानां कोटिभिः परिवारितः
॥१॥गच्छतोऽस्याऽग्रतः शुक्रो राहुर्दृष्टिपथेऽभवत् ॥
मुकुटश्चाऽपतद्भूमौ वेगात्प्रस्खलितस्तदा
॥२॥दैत्यसैन्याऽऽवृतैस्तस्य विमानानां शतैस्तदा ॥
व्यराजत नभःपूर्णं प्रावृषीव यथा घनैः
॥३॥तस्योद्योगं तदा दृष्ट्वा देवाः शक्रपुरोगमाः ॥
अलक्षितास्तदा जग्मुः शूलिनं तं व्यजिज्ञपुः
॥४॥देवा ऊचुः
न जानासि कथं स्वामिन्देवापत्तिमिमां विभो ॥
तदस्मद्रक्षणार्थाय जहि सागरनंदनम्
॥५॥नारद उवाच
इति देववचः श्रुत्वा प्रहस्य वृषभध्वजः ॥
महाविष्णुं समाहूय वचनं चेदमब्रवीत्
॥६॥ईश्वर उवाच
जलंधरः कथं विष्णो न हतः संगरे त्वया ॥
तद्गृहं चाऽपि यातोऽसि त्यक्त्वा वैकुंठमात्मनः
॥७॥विष्णुरुवाच
तवांशसंभवत्वाच्च भ्रातृत्वाच्च तथा श्रियः ॥
न मया निहतः संख्ये त्वमेनं जहि दानवम्
॥८॥ईश्वर उवाच
नायमेभिर्महातेजाः शस्त्रास्त्रैर्वध्यते मया ॥
देवैः सह स्वतेजोंशं शस्त्रार्थं दीयतां मम
॥९॥नारद उवाच
अथ विष्णुमुखा देवाः स्वतेजांसि ददुस्तदा ॥
तान्यैक्यमागतानीशो दृष्ट्वा स्वं चामुचन्महः
॥१०॥तेनाकरोन्महादेवो महसा शस्त्रमुत्तमम् ॥
चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम्
॥११॥ततः शेषेण च तदा वज्रं च कृतवान्हरिः ॥
तावज्जलंधरो दृष्टः कैलासतलभूमिषु
॥१२॥हस्त्यश्वरथपत्तीनां कोटिभिः परिवारितः ॥
तं दृष्ट्वा लक्षिता जग्मुर्देवाः सर्वे यथागताः
॥१३॥गणाश्च समसज्जंत युद्धायाऽतित्वरान्विताः ॥
नन्दीभवक्त्रसेनानीमुखाः सर्वे शिवाज्ञया
॥१४॥अवतेरुर्गणा वेगात्कैलासाद्युद्धदुर्मदाः ॥
ततः समभवद्युद्धं कैलासोपत्यकाभुवि
॥१५॥प्रमथाधिपदैत्यानां घोरशस्त्रास्त्रसंकुलम् ॥
भेरीमृदंगशंखौघ निःस्वनैर्वीरहर्षणैः
॥१६॥गजाश्वरथशब्दैश्च नादिता भूर्व्यकंपत ॥
शक्तितोमरबाणौघमुसलप्रासपट्टिशैः
॥१७॥व्यराजत नभः पूर्णमुल्काभिरिव संवृतम् ॥
निहतैरथनागाश्वपत्तिभिर्भूर्व्यराजत
॥१८॥वज्राहताचलशिरःशकलैरिव संवृता ॥
प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा
॥१९॥वसासृङ्मांसपंकाढ्या भूरगम्याऽभवत्तदा ॥
प्रमथाहतदैत्यौघान्भार्गवः समजीवयत्
॥२०॥युद्धे पुनः पुनस्तत्र मृतसंजीविनीबलात् ॥
तं दृष्ट्वा व्याकुलीभूता गणाः सर्वे भयान्विताः ॥
शशंसुर्देवदेवाय तत्सर्वं शुक्रचेष्टितम्
॥२१॥अथ रुद्रमुखात्कृत्या बभूवाऽतीवभीषणा ॥
तालजंघा दरीवक्त्रा स्तनापीडितभूरुहा
॥२२॥सा युद्धभूमिमासाद्य भक्षयंती महासुरान् ॥
भार्गवं स्वभगे धृत्वा जगामांतर्हिता नभः
॥२३॥विधृतं भार्गवं दृष्ट्वा दैत्यसैन्यं गणास्तदा ॥
अम्लानवदना हर्षान्निजघ्नुर्युद्धदुर्मदाः
॥२४॥अथाभज्यत दैत्यानां सेना गणभयार्दिता ॥
वायुवेगेनाहतेव प्रकीर्णा तृणसंततिः ॥
भग्नां गणभयात्सेनां दृष्ट्वामर्षयुता ययुः ॥
निशुंभशुंभौ सेनान्यौ कालनेमिश्च वीर्यवान्
॥२६॥त्रयस्ते वारयामासुर्गणसेनां महाबलाः ॥
मुञ्चतः शरवर्षाणि प्रावृषीव बलाहकाः
॥२७॥ततो दैत्यशरौघास्ते शलभानामिव व्रजाः ॥
रुरुधुः खं दिशः सर्वा गणसेनामकंपयन्
॥२८॥गणाः शरशतैर्भिन्ना रुधिरासारवर्षिणः ॥
वसंते किंशुकाभासा न प्राज्ञायत किंचन
॥२९॥पतिताः पात्यमानाश्च भिन्नाश्छिन्नास्तदा गणाः ॥
त्यक्त्वा संग्रामभूमिं ते सर्वेपि विमुखाऽभवन्
॥३०॥ततः प्रभग्नं स्वबलं विलोक्य शैलादिलंबोदरकार्तिकेयाः ॥
त्वरान्विता दैत्यवरान्प्रसह्य निवारयामासुरमर्षिणस्ते
॥३१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने रुद्रसेनापराभवोनामाऽष्टादशोऽध्यायः ॥ १८ ॥