मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय ८

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 8

भूयः कथय तृप्तिर्हि नास्ति मे कमलासन

नारद उवाच

भूयः कथय तृप्तिर्हि नास्ति मे कमलासन ॥

त्वद्वागमृतपानेन तृषा भूयः प्रवर्धते

॥१॥

ब्रह्मोवाच

प्रातः स्नात्वा शुचिर्भूत्वा कार्तिके विष्णुतत्परः ॥

देवं दामोदरं पूज्य कोमलैस्तुलसीदलैः ॥

स तु मोक्षमवाप्नोति नाऽत्र कार्या विचारणा

॥२॥

भक्त्या विरहितो यस्तु सुवर्णादिभिरर्चयेत् ॥

तस्य पूजां न गृह्णाति नाऽत्र कार्या विचारणा

॥३॥

सर्वेषामपि वर्णानां भक्तिरेषा परा स्मृता ॥

भक्त्या विरहितं कर्म न विष्णोः प्रियकारणम्

॥४॥

भक्त्या संपूजितो नित्यं तुलस्यास्तु दलार्धतः ॥

स्वयं प्रत्यक्षमायाति भगवान्हरिरीश्वरः

॥५॥

विष्णुदासः पुरा भक्त्या तुलसीपूजनेन च ॥

विष्णुलोकं गतः शीघ्रं चोलो गौणत्वमागतः

॥६॥

तुलस्याः शृणु माहात्म्यं पापघ्नं पुण्यवर्द्धनम् ॥

यत्पुरा विष्णुना प्रोक्तं रमायै तद्वदाम्यहम्

॥७॥

संप्राप्ते कार्तिके मासि तुलस्याः पूजनं हरेः ॥

ये कुर्वंति नरा भक्त्या ते यांति परमं पदम्

॥८॥

तस्मात्सर्वप्रयत्नेन तुलस्याः कोमलैर्दलैः ॥

पूजनीयो महाभक्त्या सर्वक्लेशविनाशनः

॥९॥

रोपिता तुलसी यावत्कुरुते मूलविस्तरम् ॥

तावद्युगसहस्राणि ब्रह्मलोके महीयते

॥१०॥

तुलसीपत्रसंयुक्तजले स्नानं चरेद्यदि ॥

सर्वपापविनिर्मुक्तो मोदते विष्णुमंदिरे

॥११॥

वृन्दावनं च कुरुते रोपणार्थं महामुने ॥

तावतैव विमुक्ताऽघो ब्रह्मभूयाय कल्पते

॥१२॥

तुलसीकाननं ब्रह्मन्गृहे यस्याऽवतिष्ठते ॥

तद्गृहं तीर्थभूतं तु न यांति यमकिंकराः

॥१३॥

सर्वपापहरं पुण्यं कामदं तुलसीवनम् ॥

रोपयंति नराः श्रेष्ठास्ते न पश्यंति भास्करिम्

॥१४॥

तुलसीकाष्ठसंयुक्तं गन्धं यो धारयेन्नरः ॥

तद्देहं न स्पृशेत्पापं क्रियमाणं तथैव च

॥१५॥

तुलसीविपिनच्छाया यत्र चैव भवेद्द्विज ॥

तत्र श्राद्धं प्रकर्तव्यं पितॄणां तृप्तिहेतवे

॥१६॥

यत्कृते तुलसीपत्रं कर्णे शिरसि दृश्यते ॥

यमस्तं नेक्षितुं शक्तः किमु दूता भयंकराः

॥१७॥

तुलस्या महिमां यस्तु शृणुयान्नित्यमादृतः ॥

सर्व पापविमुक्तात्मा ब्रह्मलोकं स गच्छति

॥१८॥

अत्रैवोदाहरंतीममितिहासं पुरातनम् ॥

तुलस्या विषये ब्रह्मञ्च्छ्रवणात्पापनाशनम्

॥१९॥

पुरा काश्मीरदेशे तु ब्राह्मणौ संबभूवतुः ॥

हरिमेधःसुमेधाख्यौ विष्णुभक्तिपरायणौ

॥२०॥

सर्वभूतदयायुक्तौ सर्वतत्त्वार्थवेदिनौ ॥

कदाचित्तौ द्विजवरौ तीर्थयात्रापरायणौ

॥२१॥

गच्छतावेकतो विप्रौ कांतारे श्रमविह्वलौ ॥

तुलसीकाननं तत्र ददर्शतुररिंदमौ

॥२२॥

तयोः सुमेधास्तद्दृष्ट्वा तुलसीकाननं महत् ॥

प्रदक्षिणीकृत्य तदा ववंदे भक्तिसंयुतः

॥२३॥

दृष्ट्वैतद्धरिमेधास्तु उवाच परया मुदा ॥

ज्ञातुं तुलस्या माहात्म्यं तत्फलं च पुनःपुनः

॥२४॥

हरिमेधा उवाच

किमर्थं विप्र देवेषु तीर्थेषु च व्रतेषु च ॥

स्थितेषु विप्रमुख्येषु प्रणामं कृतवानसि

॥२५॥

सुमेधा उवाच

शृणु विप्र महाभाग साधु वाक्यमुदीरितम् ॥

आतपो बाधते ह्यावां गत्वैतद्वटसन्निधौ

॥२६॥

तस्यच्छायां समाश्रित्य वक्ष्यामि ते यथार्थतः ॥

एवमुक्तः सुमेधास्तु हरिमेधेन संयुतः

॥२७॥

वटं जगाम धर्मज्ञो महत्कोटरसंयुतम् ॥

तत्र विश्राम्य विप्रोसौ हरिमेधमुवाच ह

॥२८॥

श्रूयतां विप्रशार्दूल तुलस्यास्तूत्तमां कथाम् ॥

परमेशप्रसादेन संजाता या पयोनिधौ

॥२९॥

पुरा दुर्वाससः शापाद्गतैश्वर्ये पुरंदरे ॥

ममंथुः क्षीरजलधिं ब्रह्माद्याः ससुराऽसुराः

॥३०॥

ऐरावतः कल्पतरुश्चन्द्रमाः कमला तथा ॥

उच्चैःश्रवा कौस्तुभश्च तथा धन्वन्तरिर्हरिः

॥३१॥

हरीतक्यादयश्चाऽपि दिव्या ओषधयस्तथा ॥

अजायन्त द्विजश्रेष्ठ लोकश्रेयोविधायकाः

॥३२॥

ततः पीयूषकलशमजरामरदायकम् ॥

कराभ्यां कलशं विष्णुर्धारयन्सुतलं परम् ॥

अवेक्ष्य मनसा सद्यः परां निर्वृतिमाप ह

॥३३॥

तस्मिन्पीयूषकलश आनन्दास्रोदबिन्दवः ॥

व्यपतंस्तुलसी सद्यः समजायत मण्डला

॥३४॥

सर्व लक्षणसंपन्ना सर्वाभरणभूषिता

॥३५॥

तत्रोत्पन्नां तथा लक्ष्मीं तुलसीं च ददुर्हरेः ॥

देवा ब्रह्मादयस्ते हि जगृहे भगवान्हरिः

॥३६॥

ततोऽतीव प्रियकरा तुलसी जगतां पतेः

॥३७॥

सा तु देवगणैः सर्वैर्विष्णुवत्पूज्यते प्रिया ॥

नारायणो जगत्त्राता तुलसी तस्य वल्लभा

॥३८॥

तस्मात्तस्या नमस्कारो मया विप्र कृतस्ततः ॥

इत्येवं वदतस्तस्य सुमेधस्य महात्मनः

॥३९॥

आराददृश्यत महद्विमानं सूर्यवर्चसम् ॥

तदानीं वटवृक्षस्तु पपात पुरतो मुने

॥४०॥

तथैव तस्माद्वृक्षाच्च पुरुषौ द्वौ विनिर्गतौ ॥

द्योतयंतौ दिशः सर्वास्तेजसा सूर्यसन्निभौ

॥४१॥

प्रणामं चक्रतुस्तौ हि हरिमेधसुमेधयोः ॥

हरिमेधसुमेधौ तौ तौ दृष्ट्वा भयविह्वलौ

॥४२॥

ऊचतुर्विस्मयाविष्टौ तावुभौ देवसन्निभौ

॥४३॥

हरिमेधसुमेधसावूचतुः

युवां कौ देवसंकाशौ भवंतौ सर्वमंगलौ ॥

मंदारमालां तरुणां धारयंतौ तथाऽमरौ ॥

नमस्कार्यौ तथाऽऽवाभ्यां पूज्यौ च सुररूपिणौ

॥४४॥

इत्युक्तौ ब्राह्मणाभ्यां तावूचतुर्वृक्षनिर्गतौ ॥

युवामेव पिता माता आवयोश्च तथा गुरुः

॥४५॥

बंध्वादयस्तथा चैव युवामेव न संशयः ॥

ज्येष्ठ उवाच ॥

अहं तु देवलोकस्य आस्तीकोनाम नामतः

॥४६॥

अप्सरोगणसंवीतः कदाचिन्नंदन वनम् ॥

क्रीडार्थमगमं चाद्रौ विषयासक्त चेतनः

॥४७॥

रेमिरे देववनिता यथाकामं मया सह ॥

मुक्तामल्लिकमाल्यानि निपेतुस्तानि योषिताम्

॥४८॥

तपतो रोमशस्यैव तद्दृष्ट्वा कुपितो मुनिः ॥

योषितां नाऽपराधोयं यासां वै परतंत्रता

॥४९॥

अयमेव दुराचारः शापार्ह इति चाऽब्रवीत् ॥

त्वं ब्रह्मराक्षसो भूत्वा वटवृक्षे चरेति माम्

॥५०॥

प्रसादितो मया सोऽथ विशापमपि दत्तवान् ॥

तुलसीपत्रमाहात्म्यं विष्णोर्नाम तथा द्विजात्

॥५१॥

यदा शृणोषि सद्यस्त्वं विमुक्तिं यास्यसे पराम् ॥

इति शप्तस्तु मुनिना चिरकालं सुदुःखितः

॥५२॥

वसाम्यत्र वटे दैवाद्भवद्दर्शनतो ध्रुवम् ॥

मुक्तिर्जाता विप्रशापाद्द्वितीयस्य कथां शृणु

॥५३॥

अयं मुनिवरः पूर्वं गुरुशुश्रूषणे रतः ॥

गुरोराज्ञामनादृत्य ब्रह्मराक्षसतां गतः

॥५४॥

युष्मत्प्रसादादधुना ब्रह्मशापाद्विमोचितः ॥

तीर्थयात्राफलं चैव युवाभ्यामिह साधितम्

॥५५॥

उत्तरोत्तरपुण्यानि वर्धंते च दिनेदिने ॥

इत्युक्त्वा तौ मुनिवरौ प्रणम्य च पुनःपुनः

॥५६॥

तावनुज्ञाप्य तौ धाम जग्मतुः परया मुदा ॥

ततस्तौ तीर्थयात्रार्थं परमौ मुनिपुंगवौ

॥५७॥

शंसंतौ तुलसीं पुण्यां जग्मतुर्मुनिपुंगव ॥

एवं नारद माहात्म्यं तुलस्याः को नु वर्णयेत्

॥५८॥

तस्मान्नारद मासेऽस्मिन्कार्तिके हरितुष्टिदे ॥

कर्तव्या तुलसीपूजा नाऽत्र कार्या विचारणा

॥५९॥

एवमंग व्रतान्येव प्रोक्तानि मुनिसत्तम ॥

उपांगानि प्रवक्ष्यामि वालखिल्योदितानि च

॥६०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये तुलसीमाहात्म्यवर्णनं नामाऽष्टमोऽध्यायः ॥ ८ ॥