मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय ३४

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 34

व्रतोद्यापनविधिकथनम्

नारद उवाच

व्रतानामपि सर्वेषां ब्रह्मन्नुद्यापनं श्रुतम् ॥

अभावे तूद्यापनस्य फलं नैवाऽऽप्नुयात्क्वचित्

॥१॥

कृतव्रतफलाप्त्यर्थं कुर्यादुद्यापनं बुधः ॥

अन्यथा निष्फलं याति कृतं व्रतमनुत्तमम्

॥२॥

कार्तिकेऽपि कृतं देव व्रतानामुत्तमं व्रतम् ॥

न तस्योद्यापनाऽभावे व्रतोक्तफलमाप्नुयात्

॥३॥

तस्मात्कार्तिकमासस्य चोद्यापनविधिं प्रभो ॥

वद मे शिष्यवर्याय प्रपन्नायाऽनुवर्तिने

॥४॥

ब्रह्मोवाच

अथोर्जोद्यापनं वक्ष्ये सर्वपापप्रणाशनम् ॥

तच्छृणुष्व महाभक्त्या सविधानं समासतः

॥५॥

ऊर्जे शुक्लचतुर्दश्यां कुर्यादुद्यापनं व्रती ॥

व्रतसंपूरणार्थाय विष्णुप्रीत्यर्थहेतवे

॥६॥

तुलस्या उपरिष्टात्तु कुर्यान्मंडपिकां शुभाम् ॥

कदलीस्तंभसंयुक्तां नानाधातुविचित्रिताम्

॥७॥

दीपमाला चतुर्दिक्षु कार्या तत्र सुशोभना ॥

सुतोरणाश्चतुर्द्वारः पुष्पचामरशोभिताः

॥८॥

द्वारेषु द्वारपालाश्च पूजयेन्मृन्मयान्पृथक् ॥

जयश्च विजयश्चैव चण्डश्चैव प्रचंडकः

॥९॥

नन्दश्चैव सुनंदश्च कुमुदः कुमुदाक्षकः ॥

एतांश्चतुर्षु द्वारेषु पूजयेद्भक्तिसंयुतः

॥१०॥

तुलसीमूलदेशे तु सर्वतोभद्रसंज्ञितम् ॥

चतुर्भिर्वर्णकैः सम्यक्छोभाढ्यं समलंकृतम्

॥११॥

तस्योपरिष्टात्कलशं पूर्णरत्नसमन्वितम् ॥

तत्र संपूजयेद्देवं शंखचक्रगदाधरम्

॥१२॥

कौशेयपीतवसनं लक्ष्म्या युक्तं प्रपूजयेत् ॥

इन्द्रादिलोकपालांश्च मंडपे पूजयेद्व्रती

॥१३॥

तस्यामुपवसेद्भक्त्या शांतः प्रणतमानसः ॥

रात्रौ जागरणं कुर्याद्गीतवाद्यादिमंगलैः

॥१४॥

गीतं कुर्वंति ये भक्त्या जागरे चक्रपाणिनः ॥

जन्मांतरशतोद्भूतैस्ते मुक्ताः पापसंचयैः

॥१५॥

ततस्तु पूर्णिमायां तु सपत्नीकान्द्विजोत्तमान् ॥

त्रिंशन्मितानथैकं वा ब्राह्मणांश्च निमंत्रयेत्

॥१६॥

प्रातःस्नानं ततः कृत्वा देवपूजां तथैव च ॥

स्थंडिले च ततः कृत्वा समाधायाऽग्निमत्र हि

॥१७॥

अतो देवेति मंत्रेण जुहुयात्तिलपायसम् ॥

प्रीत्यर्थं देवदेवस्य देवानां च पृथक्पृथक्

॥१८॥

होमशेषं समाप्याथ ब्राह्मणान्पूज्य भक्तितः ॥

ब्राह्मणेभ्यो यथाशक्त्या प्रदद्याद्दक्षिणां नरः

॥१९॥

ततो गां कपिलां तत्र पूजयेद्विधिवद्व्रती ॥

सवत्सां गां तथा दद्याद्विप्राय च कुटुम्बिने

॥२०॥

गुरुं व्रतोपदेष्टारं वस्त्रालंकारभूषणैः ॥

सपत्नीकं समभ्यर्च्य तांश्च विप्रान्क्षमापयेत्

॥२१॥

युष्मत्प्रसादाद्देवेशः प्रसन्नोऽस्तु सदा मम ॥

व्रतादस्माच्च यत्पापं सप्तजन्मकृतं मया

॥२२॥

तत्सर्वं नाशमायातु स्थिरा मे चाऽस्तु संततिः ॥

मनोरथास्तु सफलाः संतु भक्तिर्हरौ भवेत्

॥२३॥

सतां समागमो भूयान्मम जन्मनिजन्मनि ॥

इति क्षमाप्य तान्विप्रान्प्रसाद्य च विसर्जयेत्

॥२४॥

प्रतिमां तां गुरोर्दद्यात्सवस्त्रां मुनिपुंगव ॥

ततः सुहृद्गुरुयुतः स्वयं भुंजीत भक्तिमान्

॥२५॥

द्वादश्यां प्रतिबुद्धोऽसौ त्रयोदश्यां युतः सुरैः ॥

दृष्टोर्च्चितश्चतुर्दश्यां तस्मात्पूज्यस्तिथाविह

॥२६॥

पूजयेद्देवदेवेशं सौवर्णं गुर्वनुज्ञया ॥

पराऽत्र पौर्णमास्यां तु यात्रा स्यात्पुष्करस्य तु

॥२७॥

वरान्दत्त्वा यतो विष्णुर्मत्स्यरूपोऽभवत्ततः ॥

तस्यां दत्तं हुतं जप्तं तदक्षय्यफलं भवेत्

॥२८॥

कार्तिके मासि कर्तव्यो विधिरेष हि नारद ॥

एवं यः कुरुते सम्यक्कार्तिकस्य व्रतं नरः

॥२९॥

यत्फलं तदवाप्नोति व्रतं कृत्वा तु कार्तिके ॥

ते धन्यास्ते सदा पूज्यास्तेषां वै सफलोदयः

॥३०॥

विष्णुभक्तिरता ये स्युः कार्तिके व्रतचारिणः ॥

देहस्थितानि पापानि विलयं यांति तत्क्षणात्

॥३१॥

क्व यामोऽद्य भवत्येष यदूर्जव्रतकृन्नरः ॥

इति सर्वाणि पापानि रटन्तीह पुनःपुनः

॥३२॥

तस्मात्कार्तिकमासस्य सदृशं नहि विद्यते ॥

सर्वपापस्य दहने अग्नेः सदृश उच्यते

॥३३॥

ऊर्जोद्यापनमाहात्म्यं शृणुयाच्छ्रद्धयाऽन्वितः ॥

श्रावयेद्वा पुमान्यस्तु विष्णुसायुज्यमाप्नुयात्

॥३४॥

नारद उवाच

ऊर्जे व्रतोद्यापनादावशक्तः सिद्धिभाक्कथम् ॥

कथं विमुच्यते जंतुर्दुःखसंसारसागरात्

॥३५॥

ब्रह्मोवाच

शृणुयादूर्जमाहात्म्यं नियमेन शुचिः पुमान् ॥

उद्यापनफलं प्राप्य विष्णुलोके वसेच्च सः

॥३६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये व्रतोद्यापनविधिकथनंनाम चतुऽस्त्रिंशोऽध्यायः ॥ ३४ ॥