मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय ६

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 6

कार्तिकव्रतनिरूपणम्

ब्रह्मोवाच

शृणु नारद वक्ष्यामि कार्तिकस्य व्रतं महत् ॥

यच्छुत्वा सर्वपापेभ्यो मुक्तो मोक्षमवाप्स्यसि

॥१॥

कार्तिके मासि संप्राप्ते निषिद्धानि च वर्जयेत् ॥

तैलाभ्यंगं परान्नं च तथा वै तैलभोजनम्

॥२॥

फलानि बहुबीजानि धान्यानि द्विदलान्यपि ॥

वर्जयेत्कार्तिके मासि नाऽत्र कार्या विचारणा

॥३॥

अलाबुं गृंजरं चैव वृंताकं बृहतीफलम् ॥

अन्नं पर्युषितं वाऽपि भिस्सटं च मसूरिकम्

॥४॥

पुनर्भोजनं माध्वं च परान्नं कांस्यभोजनम् ॥

नखं चर्म च छत्राकं कांजि दुर्गंधमेव च

॥५॥

गणान्नं गणिकान्नं च तथा वै ग्रामयाजिनः ॥

शूद्रान्नं शद्रसंपर्कं सूतकान्नं तथैव च

॥६॥

श्राद्धान्नमृतुशांत्याश्च जातकं नामकं तथा ॥

श्लेष्मातकफलं चैव वर्जयेत्कार्तिकव्रती

॥७॥

निषिद्धेषु च पत्रेषु भोजनं नैव कारयेत् ॥

मधुपालाशकदलीजंबूप्लक्षमकूटिकाः ॥

एतत्पत्रेषु भोक्तव्यं पुष्करे न कदाचन

॥८॥

कार्तिके मासि संप्राप्ते यः कुर्याद्वनभोजनम् ॥

स याति परमं लोकं विष्णोर्देवस्य चक्रिणः

॥९॥

प्रातःस्नानं तु कर्तव्यं तथैव हरिपूजनम् ॥

कथायाः श्रवणं चैव कार्तिके शस्यते मुने

॥१०॥

गोपीचंदनदानं तु गोदानं श्रोत्रियाय च ॥

कर्तव्यं कार्तिके मासि तेन मोक्षमवाप्नुयात्

॥११॥

कदलीफलदानं तु दानं धात्रीफलस्य च ॥

वस्त्रदानं तथा कुर्याच्छीतार्ताय द्विजन्मने

॥१२॥

शाकादिदानं कुर्वीत चान्नदानं विशेषतः ॥

शालिग्रामस्य दानं च कर्तव्यं तु द्विजन्मने

॥१३॥

पौराणिकाय यो दद्यादामान्नं घृतपायसम् ॥

स चैश्वर्यमवाप्नोति शतब्राह्मणभोजनात्

॥१४॥

कमलैः पूजयेद्यस्तु कार्तिके कमलाप्रियम् ॥

स तु पुण्यमवाप्नोति नाऽत्र कार्या विचारणा

॥१५॥

कार्तिके तुलसीपत्रं यो भक्त्या विष्णवेऽर्पयेत् ॥

संसाराच्च विनिर्मुक्तो याति विष्णोः परं पदम्

॥१६॥

कार्तिके केतकीपुष्पैरर्चयेद्गरुडध्वजम् ॥

पूजितो जन्मसाहस्रं नाऽत्र कार्या विचारणा

॥१७॥

शंखदानं तु यः कुर्यात्तथा चक्रांकितस्य च ॥

तस्य पापानि नश्यंति दानमात्रान्न संशयः

॥१८॥

गीतापाठं तु यः कुर्यात्कार्तिके विष्णुवल्लभे ॥

तस्य पुण्यफलं वक्तुं नाऽलं वर्षशतैरपि

॥१९॥

श्रीमद्रागवतस्याऽपि श्रवणं यः समाचरेत् ॥

सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छति

॥२०॥

एकादश्यां निराहारमुपवासं करोति यः ॥

पूर्वजन्मकृतात्पापान्मुच्यते नाऽत्र संशयः

॥२१॥

शालिग्रामस्य नैवेद्यं कोटियज्ञफलं लभेत् ॥

अन्यदेवस्य नैवेद्यं भुक्त्वा चांद्रायणं चरेत्

॥२२॥

पूजाकाले तु देवस्य घण्टानादं करोति यः ॥

हरेस्तृप्तिं परां याति मनुजो नाऽत्र संशयः

॥२३॥

परान्नं वर्जयेद्यस्तु कार्तिके विष्णुतुष्टये ॥

दामोदरस्य प्रीतिं स सम्यक्प्राप्नोति मानवः

॥२४॥

अध्वगं तु परिश्रांतं काले च गृहमागतम् ॥

योऽतिथिं पूजयेद्भक्त्या जन्मसाहस्रनाशनम्

॥२५॥

निंदां कुर्वंति ये मूढा वैष्णवानां महात्मनाम् ॥

पतंति पितृभिः सार्द्धं महारौरव संज्ञके

॥२६॥

दृष्ट्वा भागवतान्विप्रान्सन्मुखो न च याति हि ॥

न गृह्णाति हरिस्तस्य पूजां द्वादशवार्षिकीम्

॥२७॥

निंदां भगवतः शृण्वंस्तत्परस्य जनस्य च ॥

ततो नाऽपैति यः सोऽपि हरेः प्रियतमो नहि

॥२८॥

प्रदक्षिणां तु यः कुर्यात्कार्तिके केशवस्य हि ॥

पदेपदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयः

॥२९॥

दंडप्रणामं यः कुर्यात्कार्तिके केशवाऽग्रतः ॥

राजसूयाऽश्वमेधानां फलं प्राप्नोत्यसंशयः

॥३०॥

कुटुम्बभोजनं चैव कार्तिके भक्तिसंयुतः ॥

कारयेद्विप्रशार्दूल तस्य पुण्यमनंतकम्

॥३१॥

परस्त्रीसंगमं यस्तु कार्तिके कुरुते नरः ॥

तस्य पापस्य विश्रांतिर्यावद्वक्तुं न शक्यते

॥३२॥

तुलसीमृत्तिकापुंड्रं ललाटे यस्य दृश्यते ॥

यमस्तं नेक्षितुं शक्तः किमु दूता भयंकराः

॥३३॥

शाकं वा लवणं वाऽपि यत्किंचिद्वा भविष्यति ॥

तद्देयं कार्तिके मासि प्रीत्यर्थं शार्ङ्गधन्वनः

॥३४॥

इत्याद्या बहवो धर्माः कार्तिके विष्णुवल्लभाः ॥

यथाशक्त्या प्रकुर्वीत धर्मं देवस्य तुष्टिदम्

॥३५॥

हरिसंतुष्टये कार्यस्त्यागो वा स्वेष्टवस्तुनः ॥

मासांते द्विजवर्याय दद्यात्तद्व्रतपूर्तये

॥३६॥

सर्वव्रतानि चैकत्र सत्यव्रतमथैकतः ॥

तस्मात्सर्वप्रयत्नेन सत्यं भाषेत सर्वदा

॥३७॥

अन्यधर्मेष्वधिकृतिः कुलजातिविभागतः ॥

अधिकारी कार्तिके तु सर्व एव जनो भवेत्

॥३८॥

गोग्रासः कार्तिके मासि विशेषाद्यैस्तु दीयते ॥

तेषां पुण्यफलं वक्तुं न शक्नोति पितामहः

॥३९॥

विष्णुदेवालयं प्रातः संमार्जयति कार्तिके ॥

तस्य वैकुंठभवने जायते सुदृढं गृहम्

॥४०॥

दद्यात्कार्तिकमासे तु धर्मकाष्ठानि भूरिशः ॥

न तत्पुण्यस्य नाशोस्ति कल्पकोटिशतैरपि

॥४१॥

सुधादि लेपयेद्यस्तु कार्तिके विष्णुमंदिरे ॥

चित्रादिकं लिखेद्वाऽपि मोदते विष्णुसन्निधौ

॥४२॥

देवालये वा तीर्थे वा कृतो दुष्टैर्नृपैः करः ॥

तं मोचयंति ये लोकास्तेषां धर्मः सनातनः

॥४३॥

कार्तिके मासि यो विप्रो गभस्तीश्वरसन्निधौ ॥

शतरुद्रीजपं कुर्यान्मंत्रसिद्धिः प्रजायते

॥४४॥

वाराणस्यां तु यैः स्थित्वा त्रिवर्षं कार्तिकव्रतम् ॥

सोपांगं सांगं यैर्मर्त्यैः कृतं भक्त्यैकतत्परैः

॥४५॥

इह लोके फलं तेषां प्रत्यक्षं जायते किल ॥

संपत्त्या चैव संतत्या यशोभिर्धर्मबुद्धिभिः

॥४६॥

पलांडुं शृंगं मांसं च शय्यां सौवीरकं तथा ॥

राजिकोन्मादिकं चाऽपि चिपिटान्नं च वर्जयेत्

॥४७॥

धात्रीफलं भानुवारे परदेशागमं तथा ॥

तीर्थं विना सदैवेह वर्जयेत्कार्तिकव्रती

॥४८॥

देववेदद्विजातीनां गुरुगोव्रतिनां तथा ॥

स्त्रीराजमहतां निंदां वर्जयेत्कार्तिकव्रती

॥४९॥

नरकस्य चतुर्दश्यां तैलाभ्यंगं च कारयेत् ॥

अन्यत्र कार्तिके मासि तैलस्नानं विवर्जयेत् ॥

नालिकां मूलकं चैव कूष्मांडं च कपित्थकम्

॥५०॥

रजस्वलांत्यज म्लेच्छ पतितऽव्रतिकैस्तथा ॥

द्विजद्विड्वेदबाह्यैश्च न वदेत्सर्वदा व्रती

॥५१॥

एभिर्दृष्टं च काकैश्च सूतिकान्नं च यद्भवेत् ॥

द्विःपाचितं च दग्धान्नं नैवाद्याद्वैष्णवव्रती

॥५२॥

क्रमात्कूष्मांडबृहतीतरुणीमूलकं तथा ॥

श्रीफलं च कलिंगं च फलं धात्रीभवं तथा

॥५३॥

नारिकेलमलाबुं च पटोलं बृहतीफलम् ॥

चर्मवृंताकचवलीशाकं तुलसिजं तथा

॥५४॥

शाकान्येतानि वर्ज्यानि क्रमात्प्रतिपदादिषु ॥

एवमेव हि माघेऽपि कुर्य्याच्च नियमान्व्रती

॥५५॥

कार्तिकव्रतिनः पुण्यं यथोक्तव्रतकारिणः ॥

न समर्थो भवेद्वक्तुं ब्रह्माऽपीह चतुर्मुखः

॥५६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये कार्तिकव्रतनिरूपणंनाम षष्ठोऽध्यायः ॥ ६ ॥