मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय १९

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 19

ते गणाधिपतीन्दृष्ट्वा नंदीभमुखषण्मुखान्

नारद उवाच

ते गणाधिपतीन्दृष्ट्वा नंदीभमुखषण्मुखान् ॥

अमर्षादभ्यधावंत द्वंद्वयुद्धाय दानवाः

॥१॥

नंदिनं कालनेमिश्च शुम्भो लंबोदरं तथा ॥

निशुम्भः षण्मुखं वेगादभ्यधावत दंशितः

॥२॥

निशुम्भः कार्तिकेयस्य मयूरं पंचभिः शरैः ॥

हृदि विव्याध वेगेन मूर्च्छितः स पपात च

॥३॥

ततः शक्तिधरः शक्तिं यावज्जग्राह रोषितः ॥

तावन्निशुंभो वेगेन स्वशक्त्या तमपातयत्

॥४॥

नंदीश्वरः शरव्रातैः कालनेमिमवध्यत ॥

सप्तभिश्च हयान्केतुं त्रिभिः सारथिमच्छिनत्

॥५॥

कालनेमिस्तु संक्रुद्धो धनुश्चिच्छेद नंदिनः ॥

तदपास्य स शूलेन तं वक्षस्यहनद्बली

॥६॥

स शूलभिन्नहृदयो हताश्वो हतसारथिः ॥

अद्रेः शिखरमामुच्य शैलादिं सोऽप्यपातयत्

॥७॥

अथ शुम्भो गणेशश्च रथमूषकवाहनौ ॥

युध्यमानौ शरव्रातैः परस्परमविध्यताम्

॥८॥

गणेशस्तु तदा शुम्भं हृदि विव्याध पत्रिणा ॥

सारथिं च त्रिभिर्बाणैः पातयामास भूतले

॥९॥

ततोऽतिक्रुद्धः शुम्भोऽपि बाणषष्ट्या गणाधिपम् ॥

मूषकं च त्रिभिर्विद्ध्वा ननाद जलदस्वनः

॥१०॥

मूषकः शरभिन्नांगश्चचाल दृढवेदनः ॥

लंबोदरश्च पतितः पदातिरभवन्नृप

॥११॥

ततो लंबोदरः शुम्भं हत्वा परशुना हृदि ॥

अपातयत्तदा भूमौ मूषकं चारुहत्पुनः

॥१२॥

कालनेमिर्निशुंभश्चाऽप्युभौ लंबोदरं शरैः ॥

युगपज्जघ्नतुः क्रोधात्तोत्रैरिव महाद्विपम्

॥१३॥

तं पीडयमानमालोक्य वीरभद्रो महाबलः ॥

अभ्यधावत वेगेन भूतकोटियुतस्तदा

॥१४॥

कूष्मांडभैरवाश्चाऽपि वेताला योगिनीगणाः ॥

पिशाचयोगिनीसंघा गणाश्चाऽपि तमन्वयुः

॥१५॥

ततः किलकिलाशब्दैः सिंहनादैः सुघर्घरैः ॥

भेरीतालमृदंगैश्च पृथिवी समकंपत

॥१६॥

ततो भूतान्यधावंत भक्षयंतिस्म दानवान् ॥

उत्पतंत्यापतंति स्म ननृतुश्च रणांगणे

॥१७॥

नन्दी च कार्तिकेयश्च समाश्वस्य त्वरत्वितौ ॥

निजघ्नतू रणे दैत्यान्निरंतरशरव्रजैः

॥१८॥

छिन्नभिन्ना हतैर्देत्यैः पतितैर्भक्षितैस्तदा ॥

व्याकुला साऽभवत्सेना विषण्णवदना तदा

॥१९॥

प्रविध्वस्तां तदा सेनां दृष्ट्वा सागरनंदनः ॥

रथेनाऽतिपताकेन गणानभिययौ बली

॥२०॥

हस्त्यश्वरथसंह्रादाः शंखभेरीस्वनास्तथा ॥

अभवन्सिंहनादाश्च सेनयोरुभयोस्तदा

॥२१॥

जलंधरशरव्रातैर्नीहारपटलैरिव ॥

द्यावापृथिव्योराच्छिन्नमंतरं समपद्यत

॥२२॥

गणेशं पंचभिर्विद्ध्वा शैलादिं नवभिः शरैः ॥

वीरभद्रं च विंशत्या ननाद जलदस्वनः

॥२३॥

कार्तिकेयस्तदा दैत्यं शक्त्या विव्याध सत्वरः ॥

युयुधे शक्तिनिर्भिन्नः किंचिद्व्याकुलमानसः

॥२४॥

ततः क्रोधपरीताक्षः कार्तिकेयं जलंधरः ॥

गदया ताडयामास स च भूमितलेऽपतत्

॥२५॥

तथैव नंदिनं वेगादपातयत भूतले ॥

ततो गणेश्वरः क्रुद्धो गदां परशुनाऽहनत्

॥२६॥

वीरभद्रस्त्रिभिर्बाणैर्हृदि विव्याध दानवम् ॥

सप्तभिश्च हयान्केतुं धनुश्छत्रं च चिच्छिदे

॥२७॥

ततोऽतिक्रुद्धो दैत्येंद्रः शक्तिमुद्यम्य दारुणाम् ॥

गणेशं पातयामास रथं चाऽन्यमथाऽऽरुहत्

॥२८॥

अभ्ययादथ वेगेन वीरभद्रं रुषान्वितः ॥

ततस्तौ सूर्यसंकाशौ युयुधाते परस्परम्

॥२९॥

वीरभद्रः पुनस्तस्य हयान्बाणैरपातयत् ॥

धनुश्चिच्छेद दैत्येंद्रः पुप्लुवे परिघायुधः

॥३०॥

स वीरभद्रं त्वरयाऽभिगम्य जघान दैत्यः परिघेण मूर्ध्नि ॥

स चाऽपि वीरः प्रविभिन्नमूर्द्धा पपात भूमौ रुधिरं समुद्गिरन्

॥३१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने वीरभद्रपतननामैकोनविंशोऽध्यायः ॥ १९ ॥