मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय २८

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 28

जयश्च विजयश्चैव विष्णोर्द्वास्थौ श्रुतौ मया

धर्मदत्त उवाच

जयश्च विजयश्चैव विष्णोर्द्वास्थौ श्रुतौ मया ॥

किं नु ताभ्यां पुरा चीर्णं तस्मात्तद्रूपधारिणौ

॥१॥

गणावूचतुः

तृणबिंदोस्तु कन्यायां देवहूत्यां पुरा द्विज ॥

कर्दमस्य तु दृष्ट्यैव पुत्रौ द्वौ संबभूवतुः

॥२॥

ज्येष्ठो जयः कनिष्ठोऽभूद्विजयश्चैव नामतः ॥

तस्यामेवाऽभवत्पश्चात्कपिलो योगधर्मवित्

॥३॥

जयश्च विजयश्चैव विष्णुभक्तिरतौ सदा ॥

तौ तन्निष्ठेन्द्रियग्रामौ धर्मशीलौ बभूवतुः

॥४॥

नित्यमष्टाक्षरीजाप्यौ विष्णुव्रतकरावुभौ ॥

साक्षात्कारं ददौ विष्णुस्तयोर्नित्यार्चने सदा

॥५॥

मरुत्तेन कदाचित्तावाहूतौ यज्ञकर्मणि ॥

जग्मतुर्यज्ञकुशलौ देवर्षिगणपूजितौ

॥६॥

जयस्तत्राभवद्ब्रह्मायाजको विजयोऽभवत् ॥

ततो यज्ञविधिं कृत्स्नं परिपूर्णं च चक्रतुः

॥७॥

मरुत्तोऽवभृथस्नातस्ताभ्यां वित्तं ददौ बहु ॥

तत्समादाय तौ वित्तं जग्मतुः स्वाश्रमं प्रति

॥८॥

यजनाय पृथग्विष्णोस्तुष्ट्यर्थं तौ ततो मुनी ॥

तद्धनं विभजंतौ तु पस्पर्धाते परस्परम्

॥९॥

जयोऽब्रवीत्समो भागः क्रियतामिति तत्र सः ॥

विजयश्चाब्रवीन्नैतद्यल्लब्धं येन तस्य तत्

॥१०॥

ततोऽशपज्जयः क्रोधाद्विजयं लुब्धमानसम् ॥

गृहीत्वा न ददास्येतत्तस्माद्ग्राहो भवेति तम्

॥११॥

विजयस्तस्य तं शापं श्रुत्वा सोप्यशपच्च तम् ॥

मदभ्रांतोऽशपस्त्वं मां तस्मान्मातंगतां व्रज

॥१२॥

तत्तदाचख्यतुर्विष्णुं दृष्ट्वा नित्यार्चने विभुम् ॥

शापयोश्च निवृत्तिं तौ ययाचाते रमापतिम्

॥१३॥

जयविजयावूचतुः

भक्तावावां कथं देव ग्राहमातंगयोनिगौ ॥

भविष्यावः कृपासिंधो तच्छापो विनिवर्त्यताम्

॥१४॥

श्रीभगवानुवाच

मद्भक्तयोर्वचोऽसत्यं न कदाचिद्भविष्यति ॥

मयाऽपि नान्यथा कर्तुं शक्यते तत्कदाचन

॥१५॥

प्रह्लादवचसा स्तंभेऽप्याविर्भूतो ह्यहं पुरा ॥

तथांऽबरीषवाक्येन जातो गर्भे स्वयं किल

॥१६॥

तस्माद्युवामिमौ शापावनुऽभूय स्वयंकृतौ ॥

लभेथां मत्पदं नित्यमित्युक्त्वांऽतर्दधे हरिः

॥१७॥

गणावूचतुः

ततस्तौ ग्राहमातंगावभूतां गंडकीतटे ॥

जातिस्मरौ तु तद्योन्यामपि विष्णुव्रते स्थितौ

॥१८॥

कदाचित्स गजः स्नातुं कार्तिके गंडकीं गतः ॥

तावज्जग्राह तं ग्राहः संस्मरञ्च्छापकारणम्

॥१९॥

ग्राहग्रस्तो ह्यसौ नागः सस्मार श्रीपतिं तदा ॥

तावदाविरभूद्विष्णुश्चक्रशंखगदाधरः

॥२०॥

ततस्तौ ग्राहमातंगौ चक्रं क्षिप्त्वा समुद्धृतौ ॥

दत्त्वैव निजसारूप्यं वैकुण्ठमनयद्विभुः

॥२१॥

ततःप्रभृति तत्स्थानं हरिक्षेत्रमितिस्मृतम् ॥

चक्रसंघर्षणाद्यस्मिन्ग्रावाणोऽपि हि लांछिताः

॥२२॥

तावुभौ विश्रुतौ लोके जयश्च विजयस्तथा ॥

नित्यं विष्णुप्रियौ द्वाःस्थौ पृष्टौ यौ हि त्वया द्विज

॥२३॥

अतस्त्वमपि धर्मज्ञ नित्यं विष्णुव्रते स्थितः ॥

त्यक्तमात्सर्यदंभोऽपि भवस्व समदर्शनः

॥२४॥

तुलामकरमेषेषु प्रातःस्नायी सदा भव ॥

एकादशीव्रते तिष्ठ तुलसीवनपालकः

॥२५॥

ब्राह्मणानथ गाश्चाऽपि वैष्णवांश्च सदा भज ॥

मसूरिकामारनालं वृंताकान्यपि खाद मा

॥२६॥

एवं त्वमपि देहांते तद्विष्णोः परमं पदम् ॥

प्राप्नोषि धर्मदत्त त्वं तद्भक्त्यैव यथा वयम्

॥२७॥

तावज्जन्म व्रतादस्माद्विष्णुसंतुष्टिकारकात् ॥

न यज्ञा न च दानानि न तीर्थान्यधिकानि वै

॥२८॥

धन्योऽसि विप्राग्र्य यतस्त्वयैतद्व्रतं कृतं तुष्टिकरं जगद्गुरोः ॥

यदर्धभागाऽऽप्तफला मुरारेः प्रणीयतेऽस्माभिरियं सलोकताम्

॥२९॥

नारद उवाच

इत्थं तौ धर्मदत्तं तमुपदिश्य विमानगौ ॥

तया कलहया सार्द्धं वैकुण्ठभवनं गतौ

॥३०॥

धर्मदत्तो ह्यसौ जातप्रत्ययस्तद्व्रते स्थितः ॥

देहांऽते तद्विभोः स्थानं भार्याभ्यां संयुतोऽभ्ययात्

॥३१॥

इतिहासमिमं पुराभवं शृणुते श्रावयते च यः पुमान् ॥

हरिसन्निधिकारणीं मतिं लभतेऽसौ कृपया जगद्गुरोः

॥३२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये धर्मदत्तमोक्षप्राप्तिकथनंनामाऽष्टाविंशोऽध्यायः ॥ २८ ॥