मासोपवासव्रतविधिकथनम्
नारद उवाच
अद्भुतोऽयं त्वया प्रोक्तो महिमा कार्तिकस्य तु ॥
स्वस्य कर्तुमसामर्थ्यं कथमेतत्कृतं भवेत्
॥१॥ब्रह्मोवाच
नास्ति कर्तुं स्वसामर्थ्यमुपायात्प्राप्यते फलम् ॥
द्रव्यं दत्त्वा ब्राह्मणाय गृह्णीयात्फलमुत्तमम्
॥२॥शिष्याद्वा भृत्यवर्गाद्वा स्त्रीभ्यो वाऽऽप्ताच्च कारयेत् ॥
तस्मादपि फलं गृह्णन्फलभाग्जायते नरः
॥३॥नारद उवाच
अदत्तान्यपि पुण्यानि प्राप्यंते केनचित्क्वचित् ॥
एतदिच्छाम्यहं श्रोतुं कौतुकं मम वर्तते
॥४॥ब्रह्मोवाच
अदत्तान्यपि पुण्यानि लभंते पातकान्यपि ॥
येनोपायेन तद्वच्मि शृणुष्वैकमना द्विज
॥५॥सुकृतं वा दुष्कृतं वा कृतमेकेन यत्कृते ॥
जायते तस्य तद्राष्ट्रे त्रेतायां तु पुरो भवेत्
॥६॥द्वापरे वंशमध्ये तु कलौ कर्तैव केवलम् ॥
आज्ञानाद्यत्कृतं कर्म बाल्ये स्वप्ने तु तत्फलम्
॥७॥अज्ञानाद्यच्च तारुण्ये बाल्ये तस्य फलं भवेत् ॥
ज्ञानपूर्वं कृतं कर्म आजन्मांतं च तत्फलम्
॥८॥षण्मासं पापिसंगेन नरः पापी प्रजायते ॥
पापिनां वा धर्मिणां वा संसर्गाद्दशमासिकम्
॥९॥भोजनादेकपंक्तौ च विंशांशः पुण्यपापयोः ॥
एकासने द्वयोर्वासात्सहस्रांशेन लिप्यते
॥१०॥यो वै यस्यान्नमश्नाति स भुंक्ते तस्य किल्बिषम् ॥
जपादौ पापिसंसर्गात्षोडशांऽशो विनश्यति
॥११॥परस्य स्तवनाद्यानादेकपात्रस्थभोजनात् ॥
एकशय्याप्रावरणात्षष्ठांशः पुण्यपापयोः
॥१२॥पुरुषो हरते सर्वं भार्याया औरसस्य च ॥
अर्द्धं शिष्याच्चतुर्थांशं पापं पुण्यं तथैव च
॥१३॥भर्तुराज्ञाकरी नारी भर्तुरर्द्धं वृषं हरेत् ॥
यद्धस्तपक्वं भुजीयाद्दशांशं तदघं हरेत्
॥१४॥वर्षाऽशनं तु यो दत्ते तदर्द्धाघस्य भागयम् ॥
वर्षाशनार्द्धं पुण्यं तु भुंक्ते वर्षाशनी नरः
॥१५॥पुरोहितस्य षष्ठांशं पापं वा पुण्यमेव वा ॥
यजमानो भुनक्त्येव तद्दशांशं पुरोहितः
॥१६॥उद्योगी चानुमन्ता च यश्चोपकरणप्रदः ॥
षष्ठांशं पुण्यपापानामुपद्रष्टा दशांशकम्
॥१७॥यद्धस्तात्कार्यते कर्म नान्नमस्मै प्रयच्छति ॥
विना भृतकशिष्याभ्यां षष्ठांशं पुण्यमाहरेत्
॥१८॥व्यवहारात्तथा प्रीत्या नित्यं संभाषणादिभिः ॥
दशांशं पुण्यपापानां लभते नात्र संशयः
॥१९॥संसर्गपुण्ययोगेन एकदन्तो द्विजाधमः ॥
नरकान्विविधान्दृष्ट्वा स्वर्गं प्राप तदैव हि
॥२०॥नारद उवाच
ईदृशं कार्तिकव्रतमल्पायासं महत्फलम् ॥
न कुर्वंति जनाः केचित्किमर्थं वै पितामह
॥२१॥ब्रह्मोवाच
स्वसृष्टिवृद्धये वेधा धर्माऽधर्मौ ससर्ज ह ॥
धर्ममेवाऽनुतिष्ठंतः प्राप्नुवंति शुभां गतिम्
॥२२॥अधर्ममनुतिष्ठंतो यांति तेऽधोगतिं नराः ॥
पुण्यकर्मफलं नाको नरकस्तद्विपर्ययः
॥२३॥तयोः पालनकर्तारौ द्वावेव विधिना कृतौ ॥
शतक्रतुयमौ तौ च पुण्यपापानुसारिणौ
॥२४॥गुरुतल्पादयः पुत्राः कामस्य प्रथिता भुवि ॥
क्रोधस्य पितृघाताद्या लोभस्य तनयाञ्छृणु
॥२५॥ब्रह्मस्वहरणाद्याश्च एते नरकनायकाः ॥
कृता यमेन तैर्व्याप्ता मनुजा न हि कुर्वते
॥२६॥व्रतादिधर्मकृत्यं यैस्तैर्मुक्तास्ते हि कुर्वते
॥२७॥श्रद्धा मेधा विघातिन्यौ वर्तेते भुवि सर्वदा ॥
ताभ्यां व्याप्तस्तु मनुजः श्रीविष्णोः श्रवणादिकम्
॥२८॥न करोति सुदुर्मेधा येनांधं याति वै तमः ॥
कृष्णेन सत्यभामायै यदुक्तं तद्वदामि ते
॥२९॥अध्यापनाद्याजनाद्वाऽप्येकपंक्त्यशनादपि ॥
तुर्यांश पुण्यपापानां परोक्षं लभते नरः
॥३०॥एकासनादेकयानान्निश्वासस्यांगसंगतः ॥
षडंशं फलभागी स्यान्नियतं पुण्यपापयोः
॥३१॥स्पर्शनाद्भाषणाद्वाऽपि परस्य स्तवनादपि ॥
दशांशं पुण्यपापानां नित्यं प्राप्नोति मानवः
॥३२॥दर्शनश्रवणाभ्यां च मनोध्यानात्तथैव च ॥
परस्य पुण्यपापानां शतांशं प्राप्नुयान्नरः
॥३३॥परस्य निंदां पैशुन्यं धिक्कारं च करोति यः ॥
तत्कृतं पातकं प्राप्य स्वपुण्यं प्रददाति सः
॥३४॥कुर्वतः पुण्यकर्माणि सेवां यः कुरुते नरः ॥
पत्नीभृतकशिष्येभ्यो यदन्यः कोऽपि मानवः
॥३५॥तस्य सेवाऽनुरूपं च द्रव्यं किंचिन्न दीयते ॥
सोऽपि सेवानुरूपेण तत्पुण्यफलभाग्भवेत्
॥३६॥एकपंक्तिस्थितं यस्तु लंघयेत्परिवेषणम् ॥
तत्पुण्यस्य षडंशं च लभेद्यस्तु विलंघितः
॥३७॥स्नानसंध्यादिकं कुर्वन्यः स्पृशेद्वाऽथ भाषते ॥
स कर्मपुण्यषष्ठांशं दद्यात्तस्मै विनिश्चितम्
॥३८॥धर्मोद्देशेन यो द्रव्यमपरं याचते नरः ॥
तत्पुण्यकर्मजं तस्य धनदस्त्वाप्नुयात्फलम्
॥३९॥अपहृत्य परद्रव्यं पुण्यकर्म करोति यः ॥
कर्मकृत्पापभाक्तत्र धनिनस्तद्भवं फलम्
॥४०॥नापकृत्य ऋणं यस्तु परस्य म्रियते नरः ॥
धनी तत्पुण्यमादत्ते तद्धनस्याऽनुरूपतः
॥४१॥बुद्धिदाताऽनुमन्ता च यश्चोपकरणप्रदः ॥
बलकृच्चापि षष्ठांशं प्राप्नुयात्पुण्यपापयोः
॥४२॥प्रजाभ्यः पुण्यपापानां राजा षष्ठांशमुद्धरेत् ॥
शिष्याद्गुरुः स्त्रियो भर्ता पिता पुत्रात्तथैव च
॥४३॥स्वपतेरपि पुण्यस्य योषिदर्धमवाप्नुयात् ॥
चित्तस्याऽनुव्रता शश्वद्वर्तते तुष्टिकारिणी
॥४४॥परहस्तेन दानादि कुर्वतः पुण्यकर्मणः ॥
विना भृतकपुत्राभ्यां कर्ता षष्ठांशमुद्धरेत्
॥४५॥वृत्तिदो वृत्तिसंभोक्तुः पुण्यं षष्ठांशमुद्धरेत् ॥
आत्मनो वा परस्याऽपि यदि सेवां न कारयेत्
॥४६॥इत्थं ह्यदत्तान्यपि पुण्यपापान्यायांति नित्यं परसंचितानि ॥
कलौ त्वयं वै नियमो न कार्यः कर्तैव भोक्ता खलु पुण्यपापयोः
॥४७॥कलौ ज्ञानं दृढं नास्ति कलौ गर्वेण सत्क्रिया ॥
कलौ दम्भाऽन्वितो योगो नश्यत्येव न संशयः
॥४८॥तपोनिष्ठः पुरा दम्भी सती शुद्धप्रभावतः ॥
पित्रोः पूजादर्शनेन चोर्जसेवी परं गतः
॥४९॥** ॥
नारद उवाच ॥
भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् ॥
विधिं मासोपवासस्य फलं चास्य यथोचितम्
॥५०॥ब्रह्मोवाच
साधु नारद सर्वं ते यत्पृष्टं प्रब्रुवेऽनघ ॥
भक्त्या मतिमतां श्रेष्ठ शृणुष्व गदतो मम
॥५१॥सुराणां च यथा विष्णुस्तपतां च यथा रविः ॥
मेरुः शिखरिणां यद्वद्वैनतेयश्च पक्षिणाम्
॥५२॥श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनम् ॥
सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि
॥५३॥सर्वदानोद्भवं चैव यज्ञैश्च भूरिदक्षिणैः ॥
न तत्पुण्यमवाप्नोति यन्मासपरिलंघनात्
॥५४॥गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनम् ॥
अतिकृच्छ्रं च पाराकं कृत्वा चांद्रायणं ततः
॥५५॥मासोपवासं कुर्वीत ज्ञात्वा देहबलाऽबलम् ॥
वानप्रस्थो यतिर्वापि नारी वा विधवा मुने
॥५६॥मासोपवासं कुर्वीत गुरोर्विप्राज्ञया ततः ॥
आश्विनस्याऽमले पक्षे एकादश्यामुपोषितः
॥५७॥व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥
अच्युतस्याऽऽलये भक्त्या त्रिकालं पूजयेद्धरिम्
॥५८॥नैवेद्यधूपदीपाद्यैः पुष्पैर्नानाविधैरपि ॥
मनसा कर्मणा वाचा पूजयेद्गरुडध्वजम्
॥५९॥नरः स्वधर्मनिरतः सधवा च जितेन्द्रिया ॥
नारी वा विधवा साध्वी वासुदेवं समर्चयेत्
॥६०॥वस्त्वालोकनगन्धादिस्वादितं परिकीर्तितम् ॥
अन्यस्य वर्जयेद्वासं ग्रासानां संप्रमोक्षणम्
॥६१॥गात्राभ्यंगं शिरोभ्यंगं तांबूलं सविलेपनम् ॥
व्रतस्थो वर्जयेत्सर्वं यच्चाऽन्यच्च निराकृतम्
॥६२॥न व्रतस्थः स्पृशेत्कंचिद्विकर्मस्थं न चालपेत् ॥
देवतायतने तिष्ठन्गृहस्थश्चाऽऽचरेद्व्रतम्
॥६३॥कृत्वा मासोपवासं तु यथोक्तविधिना नरः ॥
अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिति
॥६४॥ततोऽर्चयेदेव पुण्यं द्वादश्यां गरुडध्वजम् ॥
वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान्
॥६५॥दद्याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेत् ॥
विप्रान्क्षमापयित्वा तुविसृज्याऽभ्यर्च्य पूज्य च
॥६६॥एवं मासोपवासांते वृत्वा विप्रांस्त्रयोदश ॥
कारयेद्वैष्णवं यज्ञमेकादश्यामुपोषितः
॥६७॥ततोऽनुभोजयेद्विप्रान्नमस्कारपुरःसरम् ॥
तांबूलवस्त्रयुग्मानि भोजनाऽऽच्छादनानि च
॥६८॥योगपट्टानि सूत्राणि शय्यां सोपस्करां तथा ॥
दत्त्वा चैव द्विजाग्र्येभ्यः पूजयित्वा विसर्जयेत्
॥६९॥विधिर्मासोपवासस्य यथावत्परिकीर्तितः ॥
अतःपरं प्रवक्ष्यामि नवम्यादितिथौ विधि
॥७०॥ऋषिभ्यो वालखिल्यैश्च प्रोक्तं तं शृणु नारद
॥७१॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये दत्तपुण्यपापफलप्राप्तिवर्णनपूर्वक मासोपवासव्रतविधिकथनंनाम त्रिंशोऽध्यायः ॥ ३० ॥
२.४.३०.४९ -- तपोनिष्ठ इति ।
अत्र प्रसिद्धा कथा ब्राह्मे-त्रेतायुगे तपोनिष्ठनामा ब्राह्मणः दंभी द्वन्द्वसहश्चासीत्, एकदा भिक्षार्थं सञ्चरतस्तस्या बलाका व्योम्नि गच्छंती पुरीषं पातयामास तस्य पात्रेऽन्नमध्यतः ॥
वियन्मार्गात्पपाताऽथ बलाका तेन वीक्षिता ॥
कोपदृष्ट्या बलाकी सा गतप्राणाऽभवत्क्षणात् ॥
तदालोक्य प्रदुष्टोऽसौ स्वप्रभावेन गर्वितः ॥
स एकदा चरन्भिक्षां जगामैकं निवेशनम् ॥
पतिव्रतायाः कस्याश्चिद्भिक्षां देहाति चाऽब्रवीत् ॥
सा तापसं समालोक्य भर्तुः शुश्रूषणे रता ॥
भिक्षार्थं नांतरं लेभे नित्यकर्मक्रियाकुला ॥
भोजयामास भर्तारं विनीता तत्प्रियैषिणी ॥
वस्त्रांतरेण सा चक्रे क्षुद्रजंतुनिवारणम् ॥
स तापसोऽपि क्रोधेन तस्थौ स्थाणुरिवाऽचलः ॥
साऽपि तं भोजयित्वाऽथ कृतशौचं निजं पतिम् ॥
शय्यासमाश्रितं दृष्ट्वा व्यधात्पादाऽनुमार्जनम् ॥
पादसंवाहनं वाक्यं साऽनुकूलं प्रियं हितम् ॥
प्रेमभावेन सम्बन्धमुवाच प्रहसन्मुखी ॥
ततो निद्रामुपगते सा भर्तरि निजे सती ॥
देवी चान्नस्य पात्रं वै गृहीत्वा निर्ययौ बहिः ॥
तापसोऽदित्सतीं भिक्षां निरीक्ष्य कुपिते क्षणः ॥
हुंकारोच्चारणं कृत्वा न जग्राह तदर्पितम् ॥
तदा तमाह सा साध्वी स्वपदन्यस्तलोचना ॥
पतिव्रतोवाच ॥
नाऽहं बलाका या दग्धा त्वया रम्या सुतापस ॥
न भविष्यति तेऽभीष्टं मनसोऽन्नं प्रगृह्यताम् ॥
ब्रह्मोवाच ॥
ततः सुविस्मितो विप्रो भिक्षापात्रं विहाय तत् ॥
रोमांचितांगो वचनमाह बद्धांजलिः सतीम् ॥
तापस उवाच ॥
बलाकां पततीमद्य वियन्मार्गान्निपातिताम् ॥
मातः कथं नु जानीषे तन्ममाचक्ष्व कारणम् ॥
पतिव्रतोवाच ॥
न मंत्रादिकृतो विप्र न च नैसर्गिको मम ॥
प्रभाव एव सामान्यो यस्ययस्याऽच्युतो हृदि ॥
अग्रौ क्रियावतां विष्णुः पुत्राणां पितरौ हरिः ॥
स्त्रीणां भर्तृषु संस्थो हि आचार्ये पाठशालिनाम् ॥
ब्राह्मणे सर्ववर्णानां विष्णुरुक्तो मनीषिभिः ॥
प्रतिमास्वल्पबुद्धीनां योगिनां हृदये हरिः ॥
सोऽयं पुराणपुरुषः प्रत्यक्षं दैवतं मम ॥
पिता माता गुरुर्गोप्ता बांधवाः सुहृदात्मभूः ॥
सर्वः सर्वमयो भूमौ ब्रह्मन्भर्तरि मे स्फुटम् ॥
तस्य शुश्रूषया ज्ञानमिदं लोकद्वयं च मे ॥
नारी भर्तुर्वशा चाऽहमसंभाष्येतरा द्विज ॥
नाधिकारस्त्वया वक्तुमेतावदपि सांप्रतम् ॥
प्रसंगादेतदुदितं तन्मे विष्णुः प्रसीदतु ॥
शुश्रूषा यदि ते धर्मं प्रति संप्रति तापस ॥
गत्वा वाराणसीं पृच्छ मांसविक्रयकारिणम् ॥
सूनागारस्थितं व्याधं स ते धर्मं प्रवक्ष्यति ॥
” इति एवावदुक्त्वा सा अंतर्गृहं गता तापसोऽपि वाराणसीं गत्वा व्याधगृहं गतवान्, 'समालोक्य तमायांत तापसं सोऽभ्यधावत ॥
व्याध आगत्य तं विप्रं नमश्चक्रे विनीतवत् ॥
निनाय स्वगृहं पश्चात्संपूज्य विधिवच्च तम् ॥
प्रोवाच प्रहिता यूयं सत्या मम गृहेऽधुना ॥
ब्रह्मोवाच ॥
तस्य अवाक्यमथाऽऽकर्ण्य विस्मितोऽतीव तापसः ॥
प्रोवाच जानासि कथं धर्मव्याध पतिव्रताम् ॥
धर्मव्याध उवाच ॥
न मन्त्रादिकृतः सोऽयं न च नैसर्गिको मम ॥
प्रभावोऽयं नमस्यामि पितरौ तन्ममेदृशः ॥
ज्ञानमप्रतिमं सम्यक्त्रैकालिकमविप्लवम् ॥
तथा धर्मरहस्यं च जानामि पितृसेवया ॥
” इति ।
इत्युक्त्वा उपदेशमिच्छंतं तापसं पुनरुवाच ॥
"वर्णानामुत्तमो विप्रः सर्ववर्णैरभिष्टुतः ॥
तस्मान्नैवोपदेष्टव्या अधमैः कर्हिचिद्द्विजः ॥
तस्मात्त्वं गच्छ भो विप्र बिन्दुनामऋषिं प्रति ॥
ज्ञानवान्धर्मशीलश्च स ते ज्ञानं प्रदास्यति ॥
इत्याकर्ण्य वचस्तस्य नमस्कृत्वा निमंत्र्य च ॥
ययौ पंचनदं तीर्थं मुनींद्रं प्रत्यभाषत ॥
तापस उवाच ॥
मया क्रोधेन विप्रर्षे ध्वंसितं पूर्वसंचितम् ॥
इदानीं कृपया ब्रूहि येन मोक्षमवाप्नुयाम् ॥
बिंदुऋषिरुवाच ॥
सर्वेषामेव धर्माणां कार्तिकः प्रवरः स्मृतः ॥
तथा हे तापस प्राणिनां पापानि सर्वतीर्थानि हरंति, सर्वतीर्थानां पातकं मकरेऽर्के प्रयागराजो हरति, प्रयागराजपापं कार्तिके पंचनदं तीर्थं हरति, तस्मात्त्वं पंचनदं गत्वा कार्तिकव्रतं कुरु, तच्छ्रुत्वा तापसस्तत्र गत्वा सविधि व्रतं कृत्वा विमानेन विष्णुलोकं ययाविति
॥४९॥