मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कार्तिकमासमाहात्म्यम्, अध्याय ७

3
वैष्णवखण्डः · कार्तिकमासमाहात्म्यम् · 7

दीपदानमाहात्म्यवर्णनम्

नारद उवाच

भगवन्कृतकृत्योऽस्मि तव पादसमाश्रयात् ॥

श्रोतव्यं नेह भूयो मे विद्यते देवसत्तम

॥१॥

तथापि भगवन्किंचित्प्रष्टव्यं मे हृदि स्थितम् ॥

त्वद्वाक्यामृतपीतस्य न मे तृप्तिर्हि जायते

॥२॥

दीपदानस्य माहात्म्यं श्रोतुमिच्छामि ते प्रभो ॥

येन चाऽपि पुरा दत्तस्तद्वदस्व चतुर्मुख

॥३॥

ब्रह्मोवाच

प्रातः स्नात्वा शुचिर्भूत्वा दीपं दद्यात्प्रयत्नतः ॥

तेन पापानि नश्येयुस्तमांसीव भगोदये

॥४॥

आजन्म यत्कृतं पापं स्त्रिया वा पुरुषेण च ॥

तत्सर्वं नाशमायाति कार्तिके दीपदानतः

॥५॥

अत्र ते वर्णयिष्यामि इतिहासं पुरातनम् ॥

श्रवणात्सर्वपापघ्नं दीपदानफलप्रदम्

॥६॥

पुरा द्रविडदेशे तु ब्राह्मणो बुद्धनामकः ॥

तस्य भार्याऽभवद्दुष्टा अनाचाररता मुने

॥७॥

तस्याः संसर्गदोषेण क्षीणाऽऽयुर्मृतिमाप्तवान् ॥

पत्यौ मृतेऽपि सा पत्नी अनाचारे विशेषतः

॥८॥

रताभून्न हि तस्यास्तु लज्जा लोकापवादतः ॥

सुतबंधुविहीना सा सदाभिक्षान्नभोजना

॥९॥

न संस्कारान्नमल्पं वा भुक्त्वा पर्युषिताशिनी ॥

परपाकरता नित्यं तीर्थयात्रादिवर्जिता

॥१०॥

कथायाः श्रवणं चैव न श्रुतं तु तया द्विज ॥

एकदा ब्राह्मणः कश्चित्तीर्थयात्रापरायणः

॥११॥

तस्या गृहं समागच्छद्विद्वान्वै कुत्सनामकः ॥

अनाचाररतां तां तु दृष्ट्वा ब्रह्मर्षिसत्तमः ॥

कोपेन रक्तचक्षुः संस्तामुवाचाऽसतीं स्त्रियम्

॥१२॥

कुत्स उवाच

वक्ष्यामि सांप्रतं मूढे मद्वाक्यमवधारय

॥१३॥

दुःखहेतुमिमं देहं पूयशोणितपूरितम् ॥

पंचभूतात्मकं चैव किं च पुष्णासि दूतिके

॥१४॥

जलबुद्बुदवद्देहो नाशमायाति निश्चितम् ॥

अनित्यं देहमाश्रित्य नित्यं त्वं मन्यसे हृदि

॥१५॥

तस्मादंतःस्थितं मोहं त्यज मूढे विचारतः ॥

स्मर सर्वोत्तमं देवं कुरु श्रवणमादरात्

॥१६॥

कार्तिके मासि संप्राप्ते स्नानदानादिकं कुरु ॥

दामोदरस्य प्रीत्यर्थं दीपदानं तथा कुरु

॥१७॥

लक्षवर्त्यादिकं चैव लक्षपद्मादिकं तथा ॥

प्रदक्षिणां तु देवस्य नमस्कारं तथैव च

॥१८॥

धारणं पारणं चैव कुरु भक्त्या हि कार्तिके ॥

विधवानां व्रतमिदं सधवानां तथैव च

॥१९॥

सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ॥

तत्राऽपि कार्तिके मासि दीयतां दीप उत्तमः

॥२०॥

दीपो हरेः प्रियकरः कार्तिके मासि निश्चितम् ॥

महापातककृद्वापि दीपदानात्प्रमुच्यते

॥२१॥

पुरा कश्चिद्द्विजवरो नाम्ना हरिकरो ह्यभूत् ॥

अधर्मविषयासक्तः शश्वद्वेश्यारतो द्विजः

॥२२॥

पितृवित्तक्षयकरो वंशच्छेदे कुठारकः ॥

कदाचित्तेन विधवे द्यूते पितृधनं महत्

॥२३॥

हारितं दुष्टसंसर्गात्ततो दुःखी स चाऽभवत् ॥

कदाचित्साधुसंसर्गात्तीर्थयात्राप्रसंगतः

॥२४॥

अयोध्यामागतो वत्से महापापकरो द्विजः ॥

कार्तिके मासि संप्राप्तः श्रीमद्द्विजगृहे सदा

॥२५॥

द्यूतव्याजेन तेनाऽऽशु दीपो दत्तो हरेः पुरः ॥

ततः कालांतरे विप्रो मृतो मोक्षमवाप्तवान्

॥२६॥

महापातककृद्वाऽपि गतवानभयं हरिम् ॥

तस्मात्त्वं कार्तिके मासि दीपदानं तथा कुरु

॥२७॥

तथाऽन्यान्यपि दानानि कुरु भक्तिसमन्विता ॥

इत्यादिश्याथ तां कुत्सो जगामाऽन्यगृहं द्विजः

॥२८॥

साऽपि कुत्सवचः श्रुत्वा पश्चात्तापेन संयुता ॥

व्रतं तु कार्तिके मासि करिष्यामीति निश्चिता

॥२९॥

पतंगोदयवेलायां कार्तिके स्नानमंभसि ॥

दीपदानं व्रतम् चैव मासमेकं चकार सा

॥३०॥

ततः कालांतरे चैव गतायुर्मृतिमागता ॥

दीपदानस्य माहात्म्यान्महापापकृदप्यसौ

॥३१॥

स्वर्गमार्गं गता सा स्त्री काले मोक्षमवाप ह ॥

तस्मान्नारद माहात्म्यं दीपदानस्य को वदेत्

॥३२॥

कार्तिके दीपदानं तु महापुण्यफलप्रदम् ॥

कार्तिकव्रतनिष्ठो यो दीपदानादिकृन्नरः

॥३३॥

दीपदानस्येतिहासं शृण्वन्वै मोक्षमाप्नुयात्

॥३४॥

दीपदानस्य माहात्म्यं वक्तुं केनेह शक्यते ॥

परदीपप्रबोधस्य माहात्म्यं शृणु नारद

॥३५॥

स्वस्याऽपि शक्तिराहित्ये परस्याऽपि प्रबोधनम् ॥

यः कुर्याल्लभते सोऽपि नाऽत्र कार्या विचारणा

॥३६॥

दीपार्थं वर्तिकां तैलं पात्रं वा यो ददाति हि ॥

सहायं वाऽथ कुरुते ददतां दीपमुत्तमम्

॥३७॥

स तु मोक्षमवाप्नोति नाऽत्र कार्या विचारणा ॥

कार्तिके दीपदानस्य माहात्म्यं को नु वर्णयेत्

॥३८॥

स्वस्यापि शक्तिराहित्ये परदीपं प्रबोधयेत् ॥

सोऽपि तत्फलमाप्नोति नाऽत्र कार्या विचारणा

॥३९॥

वेश्या चेन्दुमतीनाम तस्या गेहेऽथ मूषिका ॥

परदीपप्रबोधेन मोक्षं प्राप सुदुर्लभम्

॥४०॥

तस्मात्सर्वप्रयत्नेन परदीपं प्रबोधयेत् ॥

तेन मोक्षमवाप्नोति मूषिकावन्न संशयः

॥४१॥

परदीपप्रबबोधस्य फलमीदृग्विधं मुने ॥

साक्षाद्दीपप्रदानस्य माहात्म्यं केन वर्ण्यते

॥४२॥

नारद उवाच

कार्तिके दीपदानस्य माहात्म्यं च मया श्रुतम् ॥

परदीप प्रबोधस्य माहात्म्यमपि वै श्रुतम् ॥

इदानीं श्रोतुमिच्छामि व्योमदीपस्य वैभवम्

॥४३॥

ब्रह्मोवाच

आकाशदीप माहात्म्यं शृणु पुत्र समाहितः ॥

यस्य श्रवणमात्रेण दीपदाने मतिर्भवेत्

॥४४॥

संप्राप्ते कार्तिके मासि प्रातःस्नानपरायणः ॥

आकाशदीपं यो दद्यात्तस्य पुण्यं वदाम्यहम्

॥४५॥

सर्वलोकाधिपो भूत्वा सर्वसंपत्समन्वितः ॥

इह लोके सुखं भुक्त्वा चांते मोक्षमवाप्नुयात्

॥४६॥

स्नानदानक्रियापूर्वं हरिमंदिरमस्तके ॥

आकाशदीपो दातव्यो मासमेकं तु कार्तिके ॥

कार्तिके शुद्धपूर्णायां विधिनोत्सर्जयेच्च तम्

॥४७॥

यः करोति विधानेन कार्तिके व्योम्नि दीपकम् ॥

न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि

॥४८॥

अत्र ते वर्णयिष्यामि इतिहासं पुरातनम् ॥

यस्य श्रवणमात्रेण व्योमदीपफलं लभेत्

॥४९॥

पुरा तु निष्ठुरोनाम लुब्धको लोककंटकः ॥

यमुनातीरवासी च कालमृत्युरिवाऽपरः

॥५०॥

वने चरन्मृगान्सर्वान्हत्वा वृत्तिमकल्पयत् ॥

पथिकान्बाधते नित्यं चोरवृत्त्या धनुर्धरः

॥५१॥

कंचिद्ग्रामं जगामाशु चौर्यार्थं कार्तिके मुने ॥

तस्मिन्विदर्भनगरे राजा सुकृतिनामकः

॥५२॥

चन्द्रशर्माख्यविप्रस्य वचनात्कार्तिके सुधीः ॥

चकार व्योमदीपं तु हरिमंदिरमस्तके

॥५३॥

दीपं दत्त्वा महाभक्त्या अशृणोच्च कथां निशि ॥

एतस्मिन्नेव काले तु चौर्यार्थं समुपागतः

॥५४॥

राज्ञा दत्तं व्योमदीपं पश्यन्क्षणमतिष्ठत ॥

तदानीं दैवयोगेन गृध्रो जवसमन्वितः

॥५५॥

शीघ्रमागत्य जग्राह तैलपात्रं सदीपकम् ॥

स्वमुखेनैव संगृह्य वृक्षाग्रं च समाश्रयत्

॥५६॥

तत्र पीत्वा तु तैलं च दीपं स्थाप्य स पक्षिराट् ॥

वृक्षाग्रं तु समास्थाय क्षणमात्रमतिष्ठत

॥५७॥

तदानीं दैवयोगेन ग्रहीतुं पक्षिसत्तमम् ॥

मार्जारोऽप्यारुहद्वृक्षं पक्षिणाऽधिष्ठितं तु तम्

॥५८॥

तदग्रे मुखदीपं च पश्यन्क्षणमतिष्ठत ॥

आकाशदीपमाहात्म्यं कथितं चन्द्रशर्मणा

॥५९॥

राज्ञे सुकृतिनाम्ने च तौ वै शुश्रुवतुः क्षणम् ॥

खगमार्जारकौ तत्र स्वस्वचामचल्यदोषतः

॥६०॥

मार्जारो जगृहे तत्र शाखामतरगतं खगम् ॥

दैवेन चोदितौ वृक्षाच्छिलायां पतितौ तदा

॥६१॥

भग्नगात्रौ मृतौ तत्र पक्षिमार्जारकौ भुवि ॥

दिव्यदेहसमायुक्तौ यानारूढौ दिवं गतौ

॥६२॥

तत्सर्वं लुब्धको दृष्ट्वा चौर्यार्थं समुपागतः ॥

निवृत्तो दुष्टभावेन कथयंतं कथां मुनिम्

॥६३॥

चंद्रशर्माणमाभाष्य इदं वचनमब्रवीत् ॥

चंद्रशर्मन्मया दृष्टं चौर्यार्थं ह्यागतेन च

॥६४॥

राज्ञा सुकृतिना दत्तं व्योमदीपं मनोहरम् ॥

तदानीं दैवयोगेन खगः पात्रं प्रगृह्य च

॥६५॥

तैलं पीत्वा तु तत्पात्रं सदीपं तु मनोहरम् ॥

वृक्षाग्रे स्थापयित्वा च तत्र क्षणमतिष्ठत

॥६६॥

मार्जारोऽप्यागतस्तत्र ग्रहीतुं पक्षिपुंगवम् ॥

दैवेन प्रेरितौ तौ च उभे शाखे समाश्रितौ

॥६७॥

त्वन्मुखात्कथ्यमानां हि कथां शुश्रुवतुः क्षणम् ॥

पश्चाच्चांचल्यदोषेण मार्जारो ह्यग्रहीत्खगम्

॥६८॥

तौ वृक्षात्पतितौ मृत्युं प्राप्तौ च क्षणमात्रतः ॥

उभौ तौ दिव्यरूपौ च यानारूढौ दिवं गतौ

॥६९॥

तदाश्चर्यमहं दृष्ट्वा त्वां प्रष्टुं समुपागतः ॥

तौ कौ पुरा च मार्जारखगौ तद्वद भो द्विज

॥७०॥

तिर्यग्योनिसमापन्नौ मुक्तौ केन च कर्मणा ॥

इति लुब्धवचः श्रुत्वा चंद्रशर्माऽब्रवीत्तदा

॥७१॥

शृणु लुब्ध प्रवक्ष्यामि तयोर्वृत्तांतमंजसा ॥

मार्जारोऽपि पुरा पापी तथा श्रीवत्सगोत्रजः

॥७२॥

देवशर्मा इति प्रोक्तो देवद्रव्याऽपहारकः ॥

अहोबलनृसिंहस्य पूजाकर्तृत्वमाप सः

॥७३॥

तस्मिन्देवालये प्राप्तं तैलं द्रव्यादिकं तथा ॥

अपहृत्य च तेनैव कुटुंबं पोषयत्यसौ

॥७४॥

आयुर्नीत्वैवमेवाऽसौ ततः पंचत्वमागतः ॥

तस्मात्पापात्कालसूत्रं महारौरवरौरवम्

॥७५॥

निरुच्छ्वासं तथा प्राप्य असिपत्रवनं क्रमात् ॥

छिद्यमानो महाकायैर्यमदूतैर्भयंकरैः

॥७६॥

अनुभूय च तान्सर्वान्ब्रह्मराक्षसतां गतः ॥

ततस्तु श्वानयोनौ च चंडालोऽभूत्कुकर्मतः

॥७७॥

एवं जन्मशतं प्राप्य भूमौ मार्जारतां गतः ॥

आकाशदीपमाहात्म्यं श्रुत्वेदानीं तु दैवतः ॥

निर्मुक्ताऽखिलपापस्तु अगमद्धरिमंदिरम्

॥७८॥

गृध्रोऽयं तु पुरा विप्रो मिथिले वेदपारगः ॥

शर्यातिरिति विख्यातौ नाम्ना लोके महाप्रभुः

॥७९॥

दासीसंगं चकारासौ वेश्यासंगं तथैव च ॥

तेन दोषेण महता पंचत्वमगमत्तदा

॥८०॥

कुंभीपाके महाघोरे स्थित्वा युगचतुष्टयम् ॥

कर्मशेषेण भूमौ च गृध्रत्वमगमत्तदा

॥८१॥

दैवेन चोदितो गृध्रस्तैलपानार्थमागतः

॥८२॥

दत्त्वा चाकाशदीपं च श्रुत्वा चैव हरेः कथाम् ॥

विध्वस्ताऽखिलपापस्तु जगाम हरिमंदिरम्

॥८३॥

इत्येतत्सर्वमाख्यातं लुब्ध गच्छ यथासुखम् ॥

व्याधोऽप्यस्य वचः श्रुत्वा गत्वा चैव स्वमंदिरम्

॥८४॥

व्रतं चाकाशदीपस्य चकार विधिवन्मुने ॥

आयुःशेषं तदा नीत्वा जगाम हरिमंदिरम्

॥८५॥

सुनंदोपि महाराज आश्चर्यं समुपागतः ॥

चकार विधिना मासं चंद्रशर्मोक्तमार्गतः

॥८६॥

प्रातः स्नात्वा शुचिर्भूत्वा कार्तिके मासि वै नृपः ॥

कोमलैस्तुलसीपत्रैः समभ्यर्च्य जनार्दनम्

॥८७॥

रात्रौ दद्याद्व्योमदीपं मंत्रेणानेन वै नृपः

॥८८॥

दामोदराय विश्वाय विश्वरूपधराय च ॥

नमस्कृत्वा प्रदास्यामि व्योमदीपं हरिप्रियम् ॥

निर्विघ्नं कुरु देवेश यावन्मासः समाप्यते

॥८९॥

व्रतेनाऽनेन देवेश त्वयि भक्तिः प्रवर्द्धताम् ॥

इति मंत्रेण राजाऽसौ दीपदानं चकार ह

॥९०॥

ब्राह्मे मुहूर्ते च पुनर्व्योमदीपं ददाति हि ॥

विष्णोः पूजा कृता प्रातः प्रातःस्नानं चकार ह

॥९१॥

उत्सर्गस्य विधिं कृत्वा व्योम्नि दीपं समाप्य च ॥

ब्राह्मणान्भोजयित्वा च व्रतं विष्णोः समार्पयत्

॥९२॥

तेन पुण्यप्रभावेन स राजा मुनिसत्तम ॥

शरदां शतसाहस्रमिह भोगान्मनोहरान्

॥९३॥

सुपुत्रपौत्रस्वजनैर्बुभुजे सह भार्यया ॥

ततश्चांऽते द्विजवर विमानं सुमनोहरम्

॥९४॥

स्त्रीभिः सह समारुह्य मोक्षमार्गं गतो मुने ॥

चतुर्भुजः पीतवासाः शंखचक्रगदाधरः

॥९५॥

विष्णुलोके विष्णुरिव प्रोच्यमानः सदाऽमरैः ॥

क्रीडयामास राजाऽसौ यथाकामं महामनाः

॥९६॥

तस्मात्तु कार्तिके मासि मानुष्यं प्राप्य दुर्लभम् ॥

आकाशदीपो दातव्यो विधानेन हरेः प्रियः

॥९७॥

दास्यंति ये कार्तिकमासि मर्त्या व्योमप्रदीपं हरितुष्टयेऽत्र ॥

पश्यंति ते नैव कदाऽपि देवं यमं महाक्रूरमुखं मुनींद्र

॥९८॥

अथाऽन्यच्च प्रवक्ष्यामि व्योमदीपस्य वैभवम् ॥

वालखिल्यैः पुरा प्रोक्तं तच्छृणुष्व द्विजोत्तम

॥९९॥

वालखिल्या ऊचुः

कृष्णादिमासक्रमतः कार्तिकस्यादिमासतः ॥

आकाशादीपदानं तु कुर्वंतु ऋषिसत्तमाः

॥१००॥

तुलायां तिलतैलेन सायं संध्यासमागमे ॥

आकाशदीपं यो दयान्मासमेकं निरंतरम्

॥१॥

सश्रीकाय श्रीपतये श्रिया न स वियुज्यते ॥

आकाशदीपवंशस्तु विंशद्धस्तोत्तमो भवेत्

॥२॥

मध्यमो नवहस्तः स्यात्कनिष्ठः पंचहस्तकः ॥

यथा दूरस्थितैर्लोकैर्दृश्यते तत्तथाऽऽचरेत्

॥३॥

तथाऽभ्रादिकरंडेषु दीपदानं विशिष्यते ॥

वंशस्य नवमांशेन लंबा कार्या पताकिका

॥४॥

मयूरपिच्छमुष्टिं वा कलशं चोपरि न्यसेत् ॥

विष्णुप्रीतिकरो दीपः पित्रुद्धारस्य कारकः

॥५॥

एकादश्यास्तुलार्काद्वा दीपदानमतोऽपि वा ॥

दामोदराय नभसि तुलायां लोलया सह

॥६॥

प्रदीपं ते प्रयच्छामि नमोऽनंताय वेधसे ॥

आकाशदीपसदृशं पितुरुद्धारकं नहि

॥७॥

हेलिकस्य च द्वौ पुत्रौ तत्रैकस्तु पिशाचकः ॥

व्योमदीपपुण्यदानान्मोक्षं प्राप सुदुर्लभम्

॥८॥

नमः पितृभ्यः प्रेतेभ्यो नमो धर्माय विष्णवे ॥

नमो यमाय रुद्राय कांतारपतये नमः

॥९॥

मन्त्रेणाऽनेन ये मर्त्याः पितृभ्यः खे तु दीपकम् ॥

प्रयच्छंति गता ये स्युर्नरके यांति तेऽपि वै ॥

उत्तमां गतिमित्थं ते दीपदानं मयेरितम्

॥११०॥

लक्ष्मीसंततिसिद्ध्यर्थमारोग्याय प्रदीपयेत्

॥११॥

कार्तिके कृष्णपक्षे तु द्वादश्यादिषु पंचसु ॥

तिथीषूक्तः पूर्वरात्रे नृणां नीराजनाविधिः

॥१२॥

ब्रह्मविष्णुशिवादीनां भवनेषु विशेषतः ॥

कूटागारेषु चैत्येषु सभासु च नदीषु च

॥१३॥

प्राकारोद्यानवापीषु प्रतोलीनिष्कुटेषु च ॥

मन्दुरासु विविक्तासु हस्तिशालासु चैव हि

॥१४॥

प्रदोषसमये दीपान्दद्यादेवं मनोहरान् ॥

कृतं यैः कार्तिके मासि दीपदानं विधानतः

॥१५॥

दृश्यंते ये रत्नभाजस्तेऽत एव प्रकीर्तिताः ॥

दीपदानासमर्थश्चेत्परदीपं तु रक्षयेत्

॥१६॥

यो वेदाभ्यासिने दद्याद्दीपार्थं तैलमादरात् ॥

को वा तस्य फलं वक्तुं भुवि तिष्ठति मानवः

॥१७॥

दीपान्दद्याद्बहुविधान्कार्तिके विष्णुसंनिधौ ॥

कार्तिके मासि संप्राप्ते गगने स्वच्छताके

॥१८॥

रात्रौ लक्ष्मीः समायाति द्रष्टुं भुवनकौतुकम् ॥

यत्रयत्र च दीपान्सा पश्यत्यब्धिसमुद्भवा

॥१९॥

तत्रतत्र रतिं कुर्यान्नांधकारे कदाचन ॥

तस्माद्दीपः स्थापनीयः कार्तिके मासि वै सदा

॥१२०॥

लक्ष्मीरूपार्थिनां प्रोक्तं दीपदानं विशेषतः ॥

देवाऽऽलये नदीतीरे राजमार्गे विशेषतः

॥२१॥

निद्रास्थले दीपदाता तस्य श्रीः सर्वतोमुखी ॥

दुर्बलस्याऽऽलयं वीक्ष्य दीपशून्यं तु यो ददेत्

॥२२॥

विप्रस्य वाऽन्यवर्णस्य विष्णुलोके महीयते ॥

कीटकंटकसंकीर्णे दुर्गमे विषमस्थले

॥२३॥

कुर्याद्यो दीपदानानि नरकं स न गच्छति ॥

दद्याद्रात्रौ पंचनदे दीपं यो विधिपूर्वकम्

॥२४॥

तस्य वंशे प्रजायन्ते बालकाः कुलदीपकाः ॥

पितृपक्षेऽन्नदानेन ज्येष्ठाऽऽषाढे च वारिणा

॥२५॥

कार्तिके तत्फलं तेषां परदीपप्रबोधनात् ॥

बोधनात्परदीपस्य वैष्णवानां च सेवनात्

॥२६॥

कार्तिके फलमाप्नोति राजसूयाश्वमेधयोः ॥

पुरा हरिकरोनाम द्विजः पापरतः सदा

॥२७॥

कृतं द्यूतप्रसंगेन दीपदानं हि कार्तिके ॥

तेन पुण्यप्रभावेन स्वर्गं प्राप द्विजोत्तमः

॥२८॥

आकाशदीपदानेन पुरा वै धर्मनन्दनः ॥

विमानवरमारुह्य विष्णुलोकं ययौ नृपः

॥२९॥

यः कुर्यात्कार्तिके विष्णोः पुरः कर्पूरदीपकम् ॥

प्रबोधिन्यां विशेषेण तस्य पुण्यं वदाम्यहम्

॥१३०॥

कुले तस्य प्रसूता ये पुरुषास्ते हरिप्रियाः ॥

क्रीडित्वा सुचिरं कालमन्ते मुक्तिं व्रजंति च

॥३१॥

दीपको ज्वलते यस्य दिवा रात्रौ हरेर्गृहे ॥

एकादश्यां विशेषेण स याति हरिमन्दिरम्

॥३२॥

लुब्धकोऽपि चतुर्दश्यां दीपं दत्त्वा शिवालये ॥

भक्त्या विना परे लिंगे शिवलोकं जगाम सः

॥३३॥

गोपः कश्चिदमावास्यां दीपं प्रज्वाल्य शार्ङ्गिणः ॥

मुहुर्जयजयेत्युक्त्वा स च राजेश्वरोऽभवत्

॥१३४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये दीपदानमाहात्म्यवर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥