दूतवाक्यकथनम्
नारद उवाच
स मां प्रोवाच विधिवत्संपूज्यातीव भक्तिमान् ॥
संप्रहस्य तदा वाक्यं स्नेहपूर्वं च वै नृप
॥१॥कुत आगम्यते ब्रह्मन्किचिद्दृष्टं त्वया प्रभो ॥
यदर्थमिह चाऽऽयातस्तदाऽऽज्ञापय मां मुने
॥२॥नारद उवाच
गतः कैलासशिखरं दैत्येंद्राहं यदृच्छया ॥
तत्रोमया समासीनं दृष्टवानस्मि शंकरम्
॥३॥योजनायुतविस्तीर्णे कल्पवृक्षमहावने ॥
कामधेनुशताकीर्णे चिंतामणिसुदीपिते
॥४॥तद्दृष्ट्वा महदाश्चर्यं विस्मयो मेऽभवत्तदा ॥
क्वाऽपीदृशी भवेदृद्धिस्त्रैलोक्ये वा न वेति च
॥५॥तदा तवाऽपि दैत्येंद्र समृद्धिः संस्मृता मया ॥
तद्विलोकनकामोऽस्मि त्वत्सान्निध्यमिहाऽऽगतः
॥६॥त्वत्समृद्धिमिमां पश्यन्स्त्रीरत्नरहितां धुवम् ॥
तर्कयामि शिवादन्यस्त्रिलोक्यां न समृद्धिमान्
॥७॥अप्सरोनागकन्याद्या यद्यपि त्वद्वशे स्थिताः ॥
तथाऽपि ता न पार्वत्या रूपेण सदृशा ध्रुवम्
॥८॥यस्या लावण्यजलधौ निमग्नश्चतुराननः ॥
स्वधैर्यममुचत्पूर्वं तया काऽन्योपमीयते
॥९॥वीतरागोऽपि हि यथा मदनारिः स्वलीलया ॥
सौंदर्यगहनेऽभ्रामि शफरीरूपया पुरा
॥१०॥यस्याः पुनः पुनः पश्यन्रूपं धाताऽपि सर्जने ॥
ससर्जाऽप्सरसस्तासां तत्समैकाऽपि नाभवत्
॥११॥अतः स्त्रीरत्नसंभोक्तुः समृद्धिस्तस्य सा वरा ॥
तथा न तव दैत्येंद्र सर्वरत्नाऽधिपस्य च
॥१२॥एवमुक्त्वा तमामंत्र्य गते सति स दैत्यराट् ॥
तद्रूप श्रवणादासीदनंगज्वरपीडितः
॥१३॥अथ संप्रेषयामास स दूतं सिंहिकासुतम् ॥
त्र्यंबकायाऽपि च तदा विष्णुमायाविमोहितः
॥१४॥कैलासमगमद्राहुः कुर्वञ्छुक्लेंदुवर्चसम् ॥
कार्ष्ण्येन कृष्णपक्षेन्दुवर्चसं स्वांगजेन तम्
॥१५॥निवेदितस्तदेशाय नंदिना प्रविवेश सः ॥
त्र्यंबकभ्रूलतासंज्ञा प्रेरितो वाक्यमब्रवीत्
॥१६॥राहुरुवाच
देवपन्नगसेव्यस्य त्रैलोक्याधिपतेः प्रभोः ॥
सर्वरत्नेश्वरस्य त्वमाज्ञां शृणु वृषध्वज
॥१७॥स्मशानवासिनो नित्यमस्थिभारवहस्य च ॥
दिगंबरस्य ते भार्या कथं हैमवती शुभा
॥१८॥अहं रत्नाधिनाथोऽस्मि सा च स्त्रीरत्नसंज्ञिका ॥
तस्मान्ममैव सा योग्या नैव भिक्षाशिनस्तव
॥१९॥नारद उवाच
वदत्येवं तदा राहौ भ्रूमध्याच्छूलपाणिनः ॥
अभवत्पुरुषो रौद्रस्तीव्राशनिसमस्वनः
॥२०॥सिंहास्यः प्रललज्जिह्वः स ज्वलन्नयनो महान् ॥
ऊर्ध्वकेशः शुष्कतनुर्नृसिंह इव चाऽपरः
॥२१॥स तं खादितुमायांतं दृष्ट्वा राहुर्भयातुरः ॥
अधावत स वेगेन बहिः स च दधार तम्
॥२२॥स च राहुर्महाबाहो मेघगम्भीरया गिरा ॥
उवाच देवदेव त्वं पाहि मां शरणागतम्
॥२३॥ब्राह्मणं मां महादेव खादितुं समुपागतः ॥
महादेवो वचः श्रुत्वा ब्राह्मणस्य तदाऽब्रवीत्
॥२४॥नैवाऽसौ वध्यतामेति दूतोऽयं परवान्यतः ॥
मुंचेति पुरुषः श्रुत्वा राहुं तत्याज्य सोंऽबरे
॥२५॥राहुं त्यक्त्वाऽथ पुरुषस्तदा रुद्रं व्यजिज्ञपत् ॥
पुरुष उवाच ॥
क्षुधा मां वाधतेऽत्यंतं क्षुत्क्षामश्चाऽस्मि सर्वथा
॥२६॥किं भक्षयामि देवेश तदाज्ञापय मां प्रभो ॥
ईश्वर उवाच ॥
भक्षयस्वात्मनः शीघ्रं मांसं त्वं हस्तपादयोः
॥२७॥नारद उवाच
स शिवेनैवमाज्ञप्तश्चखाद पुरुषः स्वकम् ॥
हस्तपादोद्भवं मांसं शिरःशेषो यथाऽभवत्
॥२८॥दृष्ट्वा शिरोऽवशेषं तं सुप्रसन्नस्तदा शिवः ॥
उवाच भीमकर्माणं पुरुषं जातविस्मयः
॥२९॥ईश्वर उवाच
त्वं कीर्तिमुखसंज्ञो हि भव मद्द्वारिगः सदा ॥
त्वदर्चां ये न कुर्वंति नैव ते मे प्रियंकराः
॥३०॥* ॥
नारद उवाच ॥
तदा प्रभृति देवस्य द्वारि कीर्तिमुखः स्थितः ॥
नार्चयन्तीह ये पूर्वं तेषामर्चा वृथा भवेत्
॥३१॥राहुर्विमुक्तो यस्तेन सोऽपि तद्बर्बरे स्थले ॥
अतः स बर्बरोद्भूत इति भूमौ प्रथां गतः
॥३२॥ततः स राहुः पुनरेव जातमात्मानमस्मिन्निति मन्यमानः ॥
समेत्य सर्वं कथयांबभूव जलंधरायैव विचेष्टितं तत्
॥३३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरोपाख्याने दूतवाक्यकथनंनाम सप्तदशोऽध्यायः ॥ १७ ॥
मूर्तिकलायां कीर्तिमुखः