जलंधरमुक्तिकथनम्
नारद उवाच
ततो जलंधरो दृष्ट्वा रुद्रमद्भुतविक्रमम् ॥
चकार मायया गौरीं त्र्यंबकं मोहयन्निव
॥१॥रथोपरि च तां बद्धां रुदन्तीं पार्वतीं शिवः ॥
निशुंभप्रमुखाद्यैश्च वध्यमानां ददर्श सः
॥२॥गौरीं तथाविधां दृष्ट्वा शिवोऽप्युद्विग्नमानसः ॥
अवाङ्मुखः स्थितस्तूष्णीं विस्मृत्य स्वपराक्रमम्
॥३॥ततो जलंधरो वेगात्त्रिभिर्विव्याध सायकैः ॥
आपुंखमग्रैस्तं रुद्रं शिरस्युरसि चोदरे
॥४॥ततो जज्ञे स तां मायां विष्णुना च प्रबोधितः ॥
रौद्ररूपधरो जातो ज्वालामालाऽतिभीषणः
॥५॥तस्याऽतीव महारौद्रं रूपं दृष्ट्वा महासुराः ॥
न शेकुः संमुखे स्थातुं भेजिरे ते दिशो दश
॥६॥ततः शापं ददौ रुद्रस्तयोः शुंभनिशुंभयोः ॥
मम युद्धादपक्रांतौ गौर्या बध्यौ भविष्यथः
॥७॥पुनर्जलंधरो वेगाद्ववर्ष निशितैः शरैः ॥
बाणांधकारैः संछन्नं तदा भूमितलं महत्
॥८॥यावद्रुद्रश्च चिच्छेद तस्य बाणगणं जवात् ॥
तावत्स परिघेणाऽऽशु जघान वृषभं बली
॥९॥वृषस्तेन प्रहारेण परावृत्तो रणांगणात् ॥
रुद्रेणाऽऽकृष्यमाणोऽपि न तस्थौ रणभूमिषु
॥१०॥ततः परमसंक्रुद्धो रुद्रो रौद्रवपुर्धरः ॥
चक्रं सुदर्शनं वेगाच्चिक्षेपाऽऽदित्यवर्चसम्
॥११॥प्रदहद्रोदसी वेगात्पपात वसुधातले ॥
जहार तच्छिरः कायान्महदायतलोचनम्
॥१२॥रथात्कायः पपाताऽस्य नादयन्वसुधातलम् ॥
तेजश्च निर्गतं देहात्तद्रुद्रे लयमागमत्
॥१३॥वृन्दादेहोद्भवं तेजस्तद्गौर्यां विलयं गतम् ॥
अथ ब्रह्मादयो देवा हर्षादुत्फुल्ललोचनाः
॥१४॥प्रणम्य शिरसा रुद्रं शशंसुर्विष्णुचेष्टितम् ॥
देवा ऊचुः ॥
महादेव त्वया देवा रक्षिताः शत्रुजाद्भयात्
॥१५॥किंचिदन्यत्समुद्भूतं तत्र किं करवामहे ॥
वृन्दालावण्यसंभ्रांतो विष्णुस्तिष्ठति मोहितः
॥१६॥ईश्वर उवाच
गच्छध्वं शरणं देवा विष्णोर्मोहापनुत्तये ॥
शरण्यां मोहिनीं मायां सा वः कार्यं करिष्यति
॥१७॥नारद उवाच
इत्युक्त्वांतर्दधे देवः सर्वभूतगणैस्तदा ॥
देवाश्च तुष्टुवुर्मूलप्रकृतिं भक्तवत्सलाम्
॥१८॥देवा ऊचुः
यदुद्भवाः सत्त्वरजस्तमोगुणाः सर्गस्थितिध्वंसनिदानकारिणः ॥
यदिच्छया विश्वमिदं भवाऽभवौ तनोति मूलप्रकृतिं नताः स्म ताम्
॥१९॥या हि त्रयोविंशतिभेदशब्दिता जगत्यशेषे समधिष्ठिता परा ॥
यद्रूपकर्माणि जडास्त्रयोऽपि देवा न विद्युः प्रकृतिं नताः स्म ताम्
॥२०॥यद्भक्तियुक्ताः पुरुषास्तु नित्यं दारिद्र्यभीमोहपराभवादीन् ॥
न प्राप्नुवंत्येव हि भक्तवत्सलां सदैव मूलप्रकृतिं नताः स्म ताम्
॥२१॥नारद उवाच
स्तोत्रमेतत्त्रिसंध्यं यः पठेदेकाग्रमानसः ॥
दारिद्यमोहदुःखानि न कदाचित्स्पृशंति तम्
॥२२॥इत्थं स्तुवंतस्ते देवास्तेजोमण्डलमास्थितम् ॥
ददृशुर्गगनं तत्र ज्वालाव्याप्तदिगंतरम्
॥२३॥तन्मध्याद्भारतीं सर्वे शुश्रुवुर्व्योमचारिणीम् ॥
शक्तिरुवाच ॥
अहमेव त्रिधा भिन्ना तिष्ठामि त्रिविधैर्गुणैः
॥२४॥गौरी लक्ष्मी स्वरा चेति रजःसत्त्वतमोगुणैः ॥
तत्र गच्छत ताः कार्यं विधास्यति च वः सुराः
॥२५॥नारद उवाच
शृण्वतामिति तां वाचमंतर्धानमगान्महः ॥
देवानां विस्मयोत्फुल्लनेत्राणां तत्तदा नृप
॥२६॥ततः सर्वेऽपि ते देवा गत्वा तद्वाक्यनोदिताः ॥
गौरीं लक्ष्मीं स्वरां चैव प्रणेमुर्भक्तितत्पराः
॥२७॥ततस्तास्तान्सुरान्दृष्ट्वा प्रणतान्भक्तवत्सलाः ॥
बीजानि प्रददुस्तेभ्यो वाक्यान्यूचुश्च भूमिप
॥२८॥देव्य ऊचुः
इमानि तत्र बीजानि विष्णुर्यत्राऽवतिष्ठते ॥
निर्वपध्वं ततः कार्यं भवतां सिद्धिमेष्यति
॥२९॥नारद उवाच
ततस्तु हृष्टाः सुरसिद्धसंघाः प्रगृह्य बीजानि विचिक्षिपुस्ते ॥
वृंदान्वितो भूमितले स यत्र विष्णुः सदा तिष्ठति सौख्यहीनः
॥३०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे कार्तिकमासमाहात्म्ये जलंधरमुक्तिकथनं नाम द्वाविंशोऽध्यायः ॥ २२ ॥