skipLink.label

कृष्णयजुः तैत्तिरीयसंहिता — चतुर्थ काण्ड, प्रपाठक 6 (18 अनुवाकाः)

कृष्णयजुः तैत्तिरीयसंहिता — चतुर्थ काण्ड, प्रपाठक 6

heading.anchorLabel

चतुर्थकाण्डे षष्ठः प्रश्नः ६


अनुवाकाः

heading.anchorLabel
अनुवाकप्रथम पद
1१ अश्मन्नूर्ज
1उप देवान्
2६ य
2जजानैनौषधीना भूमि
3१२ उदेनमुत्तरा
3विश्वेदेवा शतपया
4१६ आशु
4दीयादायो
5२१ प्राचीमनु
5अगा सहस्राक्ष
6२७ जीमूतस्येव
6धन्वन्महिमान ब्राह्मणासोदिति
7३४ यदक्रन्द
7विपृक्तो दिवा
8३९ मा
8इदुतो
9४३ ये
9घासि कशया

१ अश्म॒न्नूर्जं॒ पर्व॑ते शिश्रिया॒णां वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚ । अ॒द्भ्य ओष॑धीभ्यो॒ वन॒स्पति॒भ्योऽधि॒ संभृ॑तां॒ तां न॒ इष॒मूर्जं॑ धत्त मरुतः सꣳ ररा॒णाः ॥ अश्मग्ग्॑स्ते॒ क्षुद॒मुं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मः ॥ स॒मु॒द्रस्य॑ त्वा॒ऽवाक॒याग्ने॒ परि॑ व्ययामसि । पा॒व॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ हि॒मस्य॑ त्वा ज॒रायु॒णाग्ने॒ परि॑ व्ययामसि । पा॒व॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ उप॒ २ ज्मन्नुप॑ वेत॒सेऽव॑त्तरं न॒दीष्वा । अग्ने॑ पि॒त्तम॒पाम॑सि ॥ मण्डू॑कि॒ ताभि॒रा ग॑हि॒ सेमं नो॑ य॒ज्ञम् । पा॒व॒कव॑र्णꣳ शि॒वं कृ॑धि ॥ पा॒व॒क आ चि॒तय॑न्त्या कृ॒पा । क्षाम॑न्रुरु॒च उ॒षसो॒ न भा॒नुना᳚ ॥ तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे । न त॑तृषा॒णो अ॒जरः॑ ॥ अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया᳚ । आ दे॒वान् ३ व॑क्षि॒ यक्षि॑ च ॥ स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाꣳ इ॒हाऽव॑ह । उप॑ य॒ज्ञꣳ ह॒विश्च॑ नः ॥ अ॒पामि॒दं न्यय॑नꣳ समु॒द्रस्य॑ नि॒वेश॑नम् । अ॒न्यं ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे᳚ । अ॒न्यं ते॑ अ॒स्मत्तप॑न्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ नृ॒षदे॒ वड॑ ४ प्सु॒षदे॒ वड्व॑न॒सदे॒ वड्ब॑र्हि॒षदे॒ वट्सु॑व॒र्विदे॒ वट् ॥ ये दे॒वा दे॒वानां᳚ य॒ज्ञिया॑ य॒ज्ञिया॑नाꣳ संवथ्स॒रीण॒मुप॑ भा॒गमास॑ते । अ॒हु॒तादो॑ ह॒विषो॑ य॒ज्ञे अ॒स्मिन्थ्स्व॒यं जु॑हुध्वं॒ मधु॑नो घृ॒तस्य॑ ॥ ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न्॒ ये ब्रह्म॑णः पुर ए॒तारो॑ अ॒स्य । येभ्यो॒ नर्ते पव॑ते॒ धाम॒ किं च॒न न ते दि॒वो न पृ॑थि॒व्या अधि॒ स्नुषु॑ ॥ प्रा॒ण॒दा ५ अ॑पान॒दा व्या॑न॒दाश्च॑क्षु॒र्दा व॑र्चो॒दा व॑रिवो॒दाः । अ॒न्यं ते॑ अ॒स्मत्त॑पन्तु हे॒तयः॑ पाव॒को अ॒स्मभ्यꣳ॑ शि॒वो भ॑व ॥ अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यꣳ स॒द्विश्वं॒ न्य॑त्रिण᳚म् । अ॒ग्निर्नो॑ वꣳसते र॒यिम् ॥ सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाꣳ आय॑जिष्ठः स्व॒स्ति । अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने᳚ द्यु॒मदु॒त रे॒वद्दि॑दीहि ॥४.६.१॥


उप॑ दे॒वान्, वट्प्रा॑ण॒दाश्चतु॑श्चत्वारिꣳशच्च ॥४.६.१॥


६ य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्॒होता॑ निष॒सादा॑ पि॒ता नः॑ । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः परम॒च्छदो॒ वर॒ आ वि॑वेश ॥ वि॒श्वक॑र्मा॒ मन॑सा॒ यद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्र॑ सप्त॒र्॒षीन्प॒र एक॑मा॒हुः ॥ यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता यो नः॑ स॒तो अ॒भ्या सज्ज॒जान॑ । ७ यो दे॒वानां᳚ नाम॒धा एक॑ ए॒व तꣳ सं॑ प्र॒श्नं भुव॑ना यन्त्य॒न्या ॥ त आय॑जन्त॒ द्रवि॑ण॒ꣳ॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना । अ॒सूर्ता॒ सूर्ता॒ रज॑सो वि॒माने॒ ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥ न तं वि॑दाथ॒ य इ॒दं ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं भवाति । नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥ प॒रो दि॒वा प॒र ए॒ना ८ पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्गुहा॒ यत् । क२ꣳ स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे᳚ ॥ तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे᳚ । अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॑न्नि॒दं विश्वं॒ भुवन॒मधि॑ श्रि॒तम् ॥ वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्ग॑न्ध॒र्वो अ॑भवद्द्वि॒तीयः॑ । तृ॒तीयः॑ पि॒ता ज॑नि॒तौष॑धीना ९ म॒पां गर्भं॒ व्य॑दधात्पुरु॒त्रा ॥ चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने । य॒देदन्ता॒ अद॑दृꣳ हन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥ वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् । सं बा॒हुभ्यां॒ नम॑ति॒ सं पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑ ॥ कि२ꣳ स्वि॑दासीदधि॒ष्ठान॑मा॒रंभ॑णं कत॒मथ्स्वि॒त्किमा॑सीत् । यदी॒ भूमिं॑ ज॒नय॑ १० न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो᳚न्महि॒ना वि॒श्वच॑क्षाः ॥ कि२ꣳ स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑सी॒द्यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्॑ ॥ या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒नुवं॑ जुषा॒णः ॥ वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ ११ मनो॒युजं॒ वाजे॑ अ॒द्या हु॑वेम । स नो॒ नेदि॑ष्ठा॒ हव॑नानि जोषते वि॒श्वशं॑भू॒रव॑से सा॒धुक॑र्मा ॥ विश्व॑कर्मन् ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व त॒नुवं॑ जुषा॒णः । मुह्य॑न्त्व॒न्ये अ॒भितः॑ स॒पत्ना॑ इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥ विश्व॑कर्मन् ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् । तस्मै॒ विशः॒ सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॑ह॒व्यो॑ यथास॑त् ॥ स॒मु॒द्राय॑ व॒युना॑य॒ सिन्धू॑नां॒ पत॑ये॒ नमः॑ ंअ॒दीना॒ꣳ॒ सर्वा॑सां पि॒त्रे जु॑हु॒ता वि॒श्वक॑र्मणे॒ विश्वाहाम॑र्त्यꣳ ह॒विः ॥४.६.२॥


ज॒जानै॒नौष॑धीनां॒ भूमिं॑ ज॒नय॑न्नू॒तये॒ नमो॒ नव॑ च ॥४.६.२॥


१२ उदे॑नमुत्त॒रां न॒याग्ने॑ घृतेनाहुत । रा॒यस्पोषे॑ण॒ सꣳ सृ॑ज प्र॒जया॑ च॒ धने॑न च ॥ इन्द्रे॒मं प्र॑त॒रां कृ॑धि सजा॒ताना॑मसद्व॒शी । समे॑नं॒ वर्च॑सा सृज दे॒वेभ्यो॑ भाग॒धा अ॑सत् ॥ यस्य॑ कु॒र्मो ह॒विर्गृ॒हे तम॑ग्ने वर्धया॒ त्वम् । तस्मै॑ दे॒वा अधि॑ ब्रवन्न॒यं च॒ ब्रह्म॑ण॒स्पतिः॑ ॥ उदु॑ त्वा॒ विश्वे॑ दे॒वा १३ अग्ने॒ भर॑न्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वत॑मः सु॒प्रती॑को वि॒भाव॑सुः ॥ पञ्च॒ दिशो॒ दैवी᳚र्य॒ज्ञम॑वन्तु दे॒वीर॒पाम॑तिं दुर्म॒तिं बाध॑मानाः । रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्तीः ॥ रा॒यस्पोषे॒ अधि॑ य॒ज्ञो अ॑स्था॒थ्समि॑द्धे अ॒ग्नावधि॑ मामहा॒नः । उ॒क्थप॑त्र॒ ईड्यो॑ गृभी॒तस्त॒प्तं घ॒र्मं प॑रि॒गृह्या॑यजन्त ॥ ऊ॒र्जा यद्य॒ज्ञमश॑मन्त दे॒वा दैव्या॑य ध॒र्त्रे जोष्ट्रे᳚ । दे॒व॒श्रीः श्रीम॑णाः श॒तप॑याः १४ परि॒गृह्य॑ दे॒वा य॒ज्ञमा॑यन् ॥ सूर्य॑रश्मि॒र्॒हरि॑केशः पु॒रस्ता᳚थ्सवि॒ता ज्योति॒रुद॑या॒ꣳ॒ अज॑स्रम् । तस्य॑ पू॒षा प्र॑स॒वं या॑ति दे॒वः सं॒ पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ॥ दे॒वा दे॒वेभ्यो॑ अध्व॒र्यन्तो॑ अस्थुर्वी॒तꣳ श॑मि॒त्रे श॑मि॒ता य॒जध्यै᳚ । तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यमेति॒ ततः॑ पाव॒का आ॒शिषो॑ नो जुषन्ताम् ॥ वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् । स वि॒श्वाची॑र॒भि १५ च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥ उ॒क्षा स॑मु॒द्रो अ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरा वि॑वेश । मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सः पा॒त्यन्तौ᳚ ॥ इन्द्रं॒ विश्वा॑ अवीवृधन्थ्समु॒द्रव्य॑च सं॒ गिरः॑ । र॒थीत॑मꣳ रथी॒नां वाजा॑ना॒ꣳ॒ सत्प॑तिं॒ पति᳚म् ॥ सु॒म्न॒हूर्य॒ज्ञो दे॒वाꣳ आ च॑ वक्ष॒द्यक्ष॑द॒ग्निर्दे॒वो दे॒वाꣳ आ च॑ वक्षत् । वाज॑स्य मा प्रस॒वेनो᳚द् ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्ना॒ꣳ॒ इन्द्रो॑ मे निग्रा॒भेणाध॑राꣳ अकः ॥ उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् । अथा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न् व्य॑स्यताम् ॥४.६.३॥


विश्वे॑दे॒वाः श॒तप॑या अ॒भि वाज॑स्य॒ षड्विꣳ॑शतिश्च ॥४.६.३॥


१६ आ॒शुः शिशा॑नो वृष॒भो न यु॒ध्मो घ॑नाघ॒नः, क्षोभ॑णश्चर्षणी॒नाम् । सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तꣳ सेना॑ अजयथ्सा॒कमिन्द्रः॑ ॥ सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्य॒वनेन॑ धृ॒ष्णुना᳚ । तदिन्द्रे॑ण जयत॒ तथ्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा᳚ ॥ स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी स२ꣳ स्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ । स॒ꣳ॒सृ॒ष्ट॒जिथ्सो॑म॒पा बा॑हुश॒र्ध्यू᳚र्ध्वध॑न्वा॒ प्रति॑हिताभि॒रस्ता᳚ ॥ बृह॑स्पते॒ परि॑ दीया॒ १७ रथे॑न रक्षो॒हामित्राꣳ॑ अप॒बाध॑मानः । प्र॒भ॒ञ्जन्थ्सेनाः᳚ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम् ॥ गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा । इ॒मꣳ स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रꣳ॑ सखा॒योऽनु॒ सꣳ र॑भध्वम् ॥ ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः । अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥ अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽदा॒यो १८ वी॒रः श॒तम॑न्यु॒रिन्द्रः॑ । दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒ध्यो᳚ऽस्माक॒ꣳ॒ सेना॑ अवतु॒ प्र यु॒थ्सु ॥ इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ । दे॒व॒से॒नाना॑मभि भञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्रे᳚ ॥ इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां᳚ म॒रुता॒ꣳ॒ शर्ध॑ उ॒ग्रम् । म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥ अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु । १९ अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु ॥ उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युथ्सत्व॑नां माम॒कानां॒ महाꣳ॑सि । उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तामेतु॒ घोषः॑ ॥ उप॒ प्रेत॒ जय॑ता नरः स्थि॒रा वः॑ सन्तु बा॒हवः॑ । इन्द्रो॑ वः॒ शर्म॑ यच्छत्वनाधृ॒ष्या यथास॑थ ॥ अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑ सꣳ शिता । गच्छा॒मित्रा॒न् प्र २० वि॑श॒ मैषां॒ कं च॒नोच्छि॑षः ॥ मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॑ना॒भिऽव॑स्ताम् । उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्तं॒ त्वामनु॑ मदन्तु दे॒वाः ॥ यत्र॑ बा॒णाः सं॒पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु ॥४.६.४॥


दी॒या॒दा॒यो ज॑यन्त्व॒मित्रा॒न्प्र च॑त्वारि॒ꣳ॒ शच्च॑ ॥४.६.४॥


२१ प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने पु॒रो अ॑ग्निर्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॒ह्यूर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥ क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्य॒ꣳ॒ हस्ते॑षु॒ बिभ्र॑तः । दि॒वः पृ॒ष्ठꣳ सुव॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ॥ पृ॒थि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम् । दि॒वो नाक॑स्य पृ॒ष्ठाथ्सु॑व॒र्ज्योति॑रगा २२ म॒हम् ॥ सु॒व॒र्यन्तो॒ नापे᳚क्षन्त॒ आ द्याꣳ रो॑हन्ति॒ रोद॑सी । य॒ज्ञं ये वि॒श्वतो॑धार॒ꣳ॒ सुवि॑द्वाꣳसो वितेनि॒रे ॥ अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम् । इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ सुव॑र्यन्तु॒ यज॑मानाः स्व॒स्ति ॥ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेकꣳ॑ समी॒ची । द्यावा॒ क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन्द्रविणो॒दाः ॥ अग्ने॑ सहस्राक्ष २३ शतमूर्धञ्छ॒तं ते᳚ प्रा॒णाः स॒हस्र॑मपा॒नाः । त्वꣳ सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा᳚ ॥ सु॒प॒र्णो॑ऽसि ग॒रुत्मा᳚न्पृथि॒व्याꣳ सी॑द पृ॒ष्ठे पृ॑थि॒व्याः सी॑द भा॒सान्तरि॑क्ष॒मा पृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒ दिश॒ उद्दृꣳ॑ह ॥ आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वां योनि॒मा सी॑द सा॒ध्या । अ॒स्मिन्थ्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ २४ यज॑मानश्च सीदत ॥ प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑यविष्ठ । त्वाꣳ शश्व॑न्त॒ उप॑ यन्ति॒ वाजाः᳚ ॥ वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे᳚ । यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वीꣳषि॑ जुहुरे॒ समि॑द्धे ॥ ताꣳ स॑वि॒तुर्वरे᳚ण्यस्य चि॒त्रामाहं वृ॑णे सुम॒तिं वि॒श्वज॑न्याम् । याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नाꣳ स॒हस्र॑धारां॒ २५ पय॑सा म॒हीं गाम् ॥ स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्तर्ष॑यः स॒प्त धाम॑ प्रि॒याणि॑ । स॒प्त होत्राः᳚ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॑ ॥ ई॒दृञ्चा᳚न्या॒दृञ्चै॑ता॒दृञ्च॑ प्रति॒दृञ्च॑ मि॒तश्च॒ संमि॑तश्च॒ सभ॑राः । शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माग्श्च स॒त्यश्च॑र्त॒पाश्चात्यꣳ॑हाः ॥ २६ ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॒श्चान्त्य॑मित्रश्च दू॒रे अ॑मित्रश्च ग॒णः । ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः । ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षुणः॑ स॒दृक्षा॑सः॒ प्रति॑सदृक्षास॒ एत॑न । मि॒तास॑श्च॒ संमि॑तासश्च न ऊ॒तये॒ सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन्निंद्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानो॒ यथेंद्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मान ए॒वमि॒मं यज॑मानं॒ दैवी᳚श्च॒ विशो॒ मानु॑षी॒श्चानु॑वर्त्मानो भवन्तु ॥४.६.५॥


अ॒गा॒ꣳ॒ स॒ह॒स्रा॒क्ष॒ दे॒वाः॒ स॒हस्र॑धारा॒मत्यꣳ॑हा॒ अनु॑वर्त्मानः॒ षोड॑श च ॥४.६.५॥


२७ जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे᳚ । अना॑विद्धया त॒नुवा॑ जय॒ त्वꣳ स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥ धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम । धनुः॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः᳚ प्र॒दिशो॑ जयेम ॥ व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒यꣳ सखा॑यं परिषस्वजा॒ना । योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒न् २८ ज्या इ॒यꣳ सम॑ने पा॒रय॑न्ती ॥ ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे᳚ । अप॒ शत्रून्॑, विध्यताꣳ संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रान्॑ ॥ ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ । इ॒षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः᳚ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥ रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः । अ॒भीशू॑नां महि॒मानं॑ २९ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ॥ ती॒व्रान् घोषा᳚न् कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः । अ॒व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रा᳚न् क्षि॒णन्ति॒ शत्रू॒ꣳ॒ रन॑पव्ययन्तः ॥ र॒थ॒वाह॑नꣳ ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ । तत्रा॒ रथ॒मुप॑ श॒ग्मꣳ स॑देम वि॒श्वाहा॑ व॒यꣳ सु॑मन॒स्यमा॑नाः ॥ स्वा॒दु॒ष॒ꣳ॒ सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती॑वन्तो गभी॒राः । चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो᳚ व्रातसा॒हाः ॥ ब्राह्म॑णासः॒ ३० पित॑रः॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा᳚ । पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशꣳ॑ स ईशत ॥ सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभिः॒ सन्न॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यꣳसन् ॥ ऋजी॑ते॒ परि॑ वृङ्ग्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः । सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑तिः॒ ३१ शर्म॑ यच्छतु ॥ आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घना॒ꣳ॒ उप॑ जिघ्न ते । अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा᳚न्थ्स॒मथ्सु॑ चोदय ॥ अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान् पुमा॒न् पुमाꣳ॑सं॒ परि॑ पातु वि॒श्वतः॑ ॥ वन॑स्पते वी॒ड्व॑ङ्गो॒ हि भू॒या अ॒स्मथ्स॑खा प्र॒तर॑णः सु॒वीरः॑ । गोभिः॒ सन्न॑द्धो असि वी॒डय॑स्वास्था॒ता ते॑ जयतु॒ जेत्वा॑नि ॥ दि॒वः पृ॑थि॒व्याः पऱ्यो ३२ ज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑त॒ꣳ॒ सहः॑ । अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रꣳ॑ ह॒विषा॒ रथं॑ यज ॥ इन्द्र॑स्य॒ वज्रो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ । सेमां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥ उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त् । स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद् ३३ दवी॑यो॒ अप॑ सेध॒ शत्रून्॑ ॥ आ क्र॑न्दय॒ बल॒मोजो॑न॒ आ धा॒ निष्ट॑निहि दुरि॒ता बाध॑मानः । अप॑ प्रोथ दुन्दुभे दु॒च्छुनाꣳ॑ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒डय॑स्व ॥ आमूर॑ज प्र॒त्याव॑र्तये॒ऽमाः के॑तु॒मद्दु॑न्दु॒भिर्वा॑वदीति । समश्व॑पर्णा॒श्चर॑न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो॑ जयन्तु ॥४.६.६॥


धन्व॑न्महि॒मानं॒ ब्राह्म॑णा॒सोदि॑तिः पृथि॒व्याः परि॑ दू॒रादेक॑ चत्वारिꣳशच्च ॥४.६.६॥


३४ यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्थ्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् । श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥ य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् । ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒थ्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ॥ असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ । असि॒ सोमे॑न स॒मया॒ विपृ॑क्त ३५ आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥ त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे । उ॒तेव॑ मे॒ वरु॑णश्छन्थ्स्यर्व॒न्॒ यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र᳚म् ॥ इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानाꣳ॑ सनि॒तुर्नि॒धाना᳚ । अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒या अ॑भि॒रक्ष॑न्ति गो॒पाः ॥ आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा ३६ प॒तय॑न्तं पत॒ङ्गम् । शिरो॑ अपश्यं प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ॥ अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः । य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒डादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ॥ अनु॑ त्वा॒ रथो॒ अनु॒ मऱ्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीना᳚म् । अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॑ ३७ ते ॥ हिर॑ण्यश‍ृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् । दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्॒, यो अर्व॑न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ॥ ई॒र्मान्ता॑सः॒ सिलि॑कमध्यमासः॒ सꣳ शूर॑णासो दि॒व्यासो॒ अत्याः᳚ । ह॒ꣳ॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः᳚ ॥ तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् । तव॒ श‍ृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति ॥ उप॒ ३८ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः । अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ॥ उप॒ प्रागा᳚त्पर॒मं यथ्स॒धस्थ॒मर्वा॒ꣳ॒ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च । अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथाशा᳚स्ते दा॒शुषे॒ वार्या॑णि ॥४.६.७॥


विपृ॑क्तो दि॒वा वी॒र्य॑मुपैका॒न्न च॑त्वारि॒ꣳ॒शच्च॑ ॥४.६.७॥


३९ मा नो॑ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन् । यद्वा॒जिनो॑ दे॒वजा॑तस्य॒ सप्तेः᳚ प्रव॒क्ष्यामो॑ वि॒दथे॑ वी॒र्या॑णि ॥ यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति । सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑प इन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ ॥ ए॒ष च्छागः॑ पु॒रो अश्वे॑न वा॒जिना॑ पू॒ष्णो भा॒गो नी॑यते वि॒श्वदे᳚व्यः । अ॒भि॒प्रियं॒ यत्पु॑रो॒डाश॒मर्व॑ता॒ त्वष्टे ४० दे॑नꣳ सौश्रव॒साय॑ जिन्वति ॥ यद्ध॒विष्य॑मृतु॒शो दे॑व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नय॑न्ति । अत्रा॑ पू॒ष्णः प्र॑थ॒मो भा॒ग ए॑ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय॑न्न॒जः ॥ होता᳚ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा॑वग्रा॒भ उ॒त श२ꣳ स्ता॒ सुवि॑प्रः । तेन॑ य॒ज्ञेन॒ स्व॑रं कृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् ॥ यू॒प॒व्र॒स्का उ॒त ये यू॑पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति । ये चार्व॑ते॒ पच॑नꣳ सं॒ भर॑न्त्यु॒तो ४१ तेषा॑म॒भिगू᳚र्तिर्न इन्वतु ॥ उप॒ प्रागा᳚थ्सु॒मन्मे॑ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः । अन्वे॑नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां᳚ पु॒ष्टे च॑कृमा सु॒बन्धु᳚म् ॥ यद्वा॒जिनो॒ दाम॑ सं॒ दान॒मर्व॑तो॒ या शी॑र्ष॒ण्या॑ रश॒ना रज्जु॑रस्य । यद्वा॑ घास्य॒ प्रभृ॑तमा॒स्ये॑ तृण॒ꣳ॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ यदश्व॑स्य क्र॒विषो॒ ४२ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ । यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो॑ ग॒न्धो अस्ति॑ । सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेधꣳ॑ श‍ृत॒पाकं॑ पचन्तु ॥ यत्ते॒ गात्रा॑द॒ग्निना॑ प॒च्यमा॑नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति । मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे॑षु दे॒वेभ्य॒स्तदु॒शद्भ्यो॑ रा॒तम॑स्तु ॥४.६.८॥


इदु॒तो क्र॒विषः॑ श्रिषथ्स॒प्त च॑ ॥४.६.८॥


४३ ये वा॒जिनं॑ परि॒पश्य॑न्ति प॒क्वं य ई॑मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ । ये चार्व॑तो माꣳस भि॒क्षामु॒पास॑त उ॒तो तेषा॑म॒भिगू᳚र्तिर्न इन्वतु ॥ यन्नीक्ष॑णं मा॒ग्॒स्पच॑न्या उ॒खाया॒ या पात्रा॑णि यू॒ष्ण आ॒सेच॑नानि । ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व᳚म् ॥ नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी॑श॒मर्व॑तः । यच्च॑ प॒पौ यच्च॑ घा॒सिं ४४ ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ॥ मा त्वा॒ग्निर्ध्व॑नयिद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रिः॑ । इ॒ष्टं वी॒तम॒भिगू᳚र्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्व᳚म् ॥ यदश्वा॑य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर॑ण्यान्यस्मै । स॒न्दान॒मर्व॑न्तं॒ पड्बी॑शं प्रि॒या दे॒वेष्वा या॑मयन्ति ॥ यत्ते॑ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्णि॑या वा॒ कश॑या ४५ वा तु॒तोद॑ । स्रु॒चेव॒ ता ह॒विषो॑ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ॥ चतु॑स्त्रिꣳशद्वा॒जिनो॑ दे॒वब॑न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे॑ति । अच्छि॑द्रा॒ गात्रा॑ व॒युना॑ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ॥ एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा॑ भवत॒स्तथ॒र्तुः । या ते॒ गात्रा॑णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा॑नां॒ प्र जु॑होम्य॒ग्नौ ॥ मा त्वा॑ तपत् ४६ प्रि॒य आ॒त्माऽपि॒यन्तं॒ मा स्वधि॑तिस्त॒नुव॒ आ ति॑ष्ठिपत्ते । मा ते॑ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा᳚ण्य॒सिना॒ मिथू॑ कः ॥ न वा उ॑वे॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाꣳ इदे॑षि प॒थिभिः॑ सु॒गेभिः॑ । हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा᳚स्थाद्वा॒जी धु॒रि रास॑भस्य ॥ सु॒गव्यं॑ नो वा॒जी स्वश्वि॑यं पु॒ꣳ॒सः पु॒त्राꣳ उ॒त वि॑श्वा॒पुषꣳ॑ र॒यिम् । अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनताꣳ ह॒विष्मान्॑ ॥४.६.९॥


घा॒सिं कश॑या तपद्र॒यिं नव॑ च ॥४.६.९॥