skipLink.label

वाजसनेयी संहिता (माध्यन्दिन) — सप्तविंशोऽध्यायः (45 मन्त्राः)

सप्तविंशोऽध्यायः

समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या ।

सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिश॒श्चत॑स्रः

॥२७.१॥

सं चे॒ध्यस्वा॑ग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौ॑भगाय ।

मा च॑ रिषदुपस॒त्ता ते॑ अग्ने ब्र॒ह्माण॑स्ते य॒शस॑: सन्तु॒ मान्ये

॥२७.२॥

त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने सं॒वर॑णे भवा नः ।

स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे गये॑ गागृ॒ह्यप्र॑युच्छन्

॥२७.३॥

इ॒है॒वाग्ने॒ अधि॑ धारया र॒यिं मा त्वा॒ नि क्र॑न्पूर्व॒चितो॑ निका॒रिण॑: ।

क्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतां ते॒ अनि॑ष्टृतः

॥२७.४॥

क्ष॒त्रेणा॑ग्ने॒ स्वायु॒: सᳪ र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धेये॑ यतस्व ।

स॒जा॒तानां॑ मध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॒ दीदिही॒ह

॥२७.५॥

अति॒ निहो॒ अति॒ स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने ।

विश्वा॒ ह्य॑ग्ने दुरि॒ता सह॒स्वाथा॒स्मभ्य॑ᳪ स॒हवी॑राᳪ र॒यिं दा॑:

॥२७.६॥

अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ अनि॑ष्टृतो वि॒राडग्ने॑ क्षत्र॒भृद्दी॑दिही॒ह ।

विश्वा॒ आशा॑: प्रमु॒ञ्चन्मानु॑षीर्भि॒यः शि॒वेभि॑र॒द्य परि॑ पाहि नो वृ॒धे

॥२७.७॥

बृह॑स्पते सवितर्बो॒धयै॑न॒ᳪ सᳪशि॑तं चित्सन्त॒राᳪ सᳪ शि॑शाधि ।

व॒र्धयै॑नं मह॒ते सौ॑भगाय॒ विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः

॥२७.८॥

अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः ।

प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः

॥२७.९॥

उद्व॒यं तम॑स॒स्परि॒ स्व: पश्य॑न्त॒ उत्त॑रम् ।

दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्

॥२७.१०॥

ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चीᳪष्य॒ग्नेः ।

द्यु॒मत्त॑मा सु॒प्रती॑कस्य सू॒नोः

॥२७.११॥

तनू॒नपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः ।

प॒थो अ॑नक्तु॒ मध्वा॑ घृ॒तेन॑

॥२७.१२॥

मध्वा॑ य॒ज्ञं न॑क्षसे प्रीणा॒नो नरा॒शᳪसो॑ अग्ने ।

सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः

॥२७.१३॥

अच्छा॒यमे॑ति॒ शव॑सा घृ॒तेने॑डा॒नो वह्नि॒र्नम॑सा ।

अ॒ग्निᳪ स्रुचो॑ अध्व॒रेषु॑ प्र॒यत्सु॑

॥२७.१४॥

स य॑क्षदस्य महि॒मान॑म॒ग्नेः स ईं॑ म॒न्द्रा सु॑प्र॒यस॑: ।

वसु॒श्चेति॑ष्ठो वसु॒धात॑मश्च

॥२७.१५॥

द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे॑ व्र॒ता द॑दन्ते अ॒ग्नेः ।

उ॒रु॒व्यच॑सो॒ धाम्ना॒ पत्य॑मानाः

॥२७.१६॥

ते अ॑स्य॒ योष॑णे दि॒व्ये न योना॑ उ॒षासा॒नक्ता॑ ।

इ॒मं य॒ज्ञमव॑तामध्व॒रं न॑:

॥२७.१७॥

दै॑व्या॒ होतारा ऊ॒र्ध्वम॑ध्व॒रं नो॒ऽग्नेर्जु॒ह्वाम॒भि गृ॑णीतम् ।

कृ॒णु॒तं न॒: स्वि॒ष्टम्

॥२७.१८॥

ति॒स्रो दे॒वीर्ब॒र्हिरेदᳪ स॑द॒न्त्विडा॒ सर॑स्वती॒ भार॑ती ।

म॒ही गृ॑णा॒ना

॥२७.१९॥

तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु त्वष्टा॑ सु॒वीर्य॑म् ।

रा॒यस्पोषं॒ वि ष्य॑तु॒ नाभि॑म॒स्मे

॥२७.२०॥

वन॑स्प॒तेऽव॑ सृजा॒ ररा॑ण॒स्त्मना॑ दे॒वेषु॑ ।

अ॒ग्निर्ह॒व्यᳪ श॑मि॒ता सू॑दयाति

॥२७.२१॥

अग्ने॒ स्वाहा॑ कृणुहि जातवेद॒ इन्द्रा॑य ह॒व्यम् ।

विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्ताम्

॥२७.२२॥

पीवो॑ अन्ना रयि॒वृध॑: सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः ।

ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नर॑: स्वप॒त्यानि॑ चक्रुः

॥२७.२३॥

रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् ।

अध॑ वा॒युं नि॒युत॑: सश्चत॒ स्वा उ॒त श्वे॒तं वसु॑धितिं निरे॒के

॥२७.२४॥

आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न् गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।

ततो॑ दे॒वाना॒ᳪ सम॑वर्त॒तासु॒रेक॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम

॥२७.२५॥

यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् ।

यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम

॥२७.२६॥

प्र याभि॒र्यासि॑ दा॒श्वाᳪस॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे ।

नि नो॑ र॒यिᳪ सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं॑ च॒ राध॑:

॥२७.२७॥

आ नो॑ नि॒युद्भि॑: श॒तिनी॑भिरध्व॒रᳪ स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।

वायो॑ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः

॥२७.२८॥

नि॒युत्वा॑न्वाय॒वा ग॑ह्य॒यᳪ शु॒क्रो अ॑यामि ते ।

गन्ता॑सि सुन्व॒तो गृ॒हम्

॥२७.२९॥

वायो॑ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु ।

आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता

॥२७.३०॥

वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः सा॒कं ग॒न्मन॑सा य॒ज्ञम् ।

शि॒वो नि॒युद्भि॑: शि॒वाभि॑:

॥२७.३१॥

वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि ।

नि॒युत्वा॒न्त्सोम॑पीतये

॥२७.३२॥

एक॑या च द॒शभि॑श्च स्वभूते॒ द्वाभ्या॑मि॒ष्टये॑ विᳪश॒ती च॑ ।

ति॒सृभि॑श्च॒ वह॑से त्रि॒ᳪशता॑ च नि॒युद्भि॑र्वायवि॒ह ता वि मु॑ञ्च

॥२७.३३॥

तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत ।

अवा॒ᳪस्या वृ॑णीमहे

॥२७.३४॥

अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नव॑: ।

ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुष॑:

॥२७.३५॥

न त्वावाँ॑२ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते ।

अ॒श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे

॥२७.३६॥

त्वामिद्धि हवा॑महे सा॒तौ वाज॑स्य का॒रव॑: ।

त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः

॥२७.३७॥

स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒ह स्त॑वा॒नो अ॑द्रिवः ।

गामश्व॑ᳪ र॒थ्य॒मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑

॥२७.३८॥

कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑ध॒: सखा॑ ।

कया॒ शचि॑ष्ठया वृ॒ता

॥२७.३९॥

कस्त्वा॑ स॒त्यो मदा॑नां॒ मᳪहि॑ष्ठो मत्स॒दन्ध॑सः ।

दृ॒ढा चि॑दा॒रुजे॒ वसु॑

॥२७.४०॥

अ॒भी षु ण॒: सखी॑नामवि॒ता ज॑रितॄ॒णाम् ।

श॒तं भ॑वास्यू॒तये॑

॥२७.४१॥

य॒ज्ञा-य॑ज्ञा वो अ॒ग्नये॑ गि॒रा-गि॑रा च॒ दक्ष॑से ।

प्र-प्र॑ व॒यम॒मृतं॑ जा॒तवे॑दसं प्रि॒यं मि॒त्रं न श॑ᳪसिषम्

॥२७.४२॥

पा॒हि नो॑ अग्न॒ एक॑या पा॒ह्युत द्वि॒तीय॑या ।

पा॒हि गी॒र्भिस्ति॒सृभि॑रूर्जां पते पा॒हि च॑त॒सृभि॑र्वसो

॥२७.४३॥

ऊ॒र्जो नपा॑त॒ᳪ स हि॒नायम॑स्म॒युर्दाशे॑म ह॒व्यदा॑तये ।

भुव॒द्वाजे॑ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूना॑म्

॥२७.४४॥

सं॒व॒त्स॒रो॒ऽसि परिवत्स॒रो॒ऽसीदावत्स॒रो॒ऽसीद्वत्स॒रो॒ऽसि वत्स॒रो॒ऽसि ।

उ॒षस॑स्ते कल्पन्तामहोरा॒त्रास्ते॑ कल्पन्तामर्धमा॒सास्ते॑ कल्पन्तां मा॒सास्ते कल्पन्तामृ॒तव॑स्ते कल्पन्ताᳪ संवत्स॒रस्ते॑ कल्पताम् । प्रेत्या॒ एत्यै॒ सं चाञ्च॒ प्र च॑ सारय ।

सुप॒र्ण॒चिद॑सि॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒व: सी॑द

॥२७.४५॥