skipLink.label

वाजसनेयी संहिता (माध्यन्दिन) — द्वात्रिंशोऽध्यायः (16 मन्त्राः)

द्वात्रिंशोऽध्यायः

तदे॒वाग्निस्तदा॑दि॒त्यस्तद्वा॒युस्तदु॑ च॒न्द्रमा॑: ।

तदे॒व शु॒क्रं तद्ब्रह्म॒ ता आप॒: स प्र॒जाप॑तिः

॥३२.१॥

सर्वे॑ निमे॒षा ज॑ज्ञिरे वि॒द्युत॒: पुरु॑षा॒दधि॑ ।

नै॑नमू॒र्ध्वं न ति॒र्यञ्चं॒ न मध्ये॒ परि॑ जग्रभत्

॥३२.२॥

न तस्य॑ प्रति॒मा अ॑स्ति॒ यस्य॒ नाम॑ म॒हद्यश॑: ।

हि॒र॒ण्य॒ग॒र्भ इत्ये॒षः मा मा॑ हिᳪसी॒दित्ये॒षा यस्मा॒न्न जा॒त इत्ये॒ष:

॥३२.३॥

ए॒षो ह॑ दे॒वः प्र॒दिशोऽनु॒ सर्वा॒: पूर्वो॑ ह जा॒तः स उ॒ गर्भे॑ अ॒न्तः ।

स ए॒व जा॒तः स ज॑नि॒ष्यमा॑णः प्र॒त्यङ् जना॑स्तिष्ठति स॒र्वतो॑मुखः

॥३२.४॥

यस्मा॑ज्जा॒तं न पु॒रा किं चनै॒व य आ॑ब॒भूव॒ भुव॑नानि॒ विश्वा॑ ।

प्र॒जाप॑तिः प्र॒जया॑ सᳪररा॒णस्त्रीणि॒ ज्योती॑ᳪषि सचते॒ स षो॑ड॒शी

॥३२.५॥

येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ढा येन॒ स्व॒ स्तभि॒तं येन॒ नाक॑: ।

यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मान॒: कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम

॥३२.६॥

यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने ।

यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।

आपो॑ ह॒ यद्बृ॑ह॒तीर्यश्चि॒दाप॑:

॥३२.७॥

वे॒नस्तत्प॑श्य॒न्निहि॑तं॒ गुहा॒ सद्यत्र॒ विश्वं॒ भव॒त्येक॑नीडम् ।

तस्मि॑न्नि॒दᳪ सं च॒ वि चै॑ति॒ सर्व॒ᳪ स ओत॒: प्रोत॑श्च वि॒भूः प्र॒जासु॑

॥३२.८॥

प्र तद्वो॑चेद॒मृतं॒ नु वि॒द्वान् ग॑न्ध॒र्वो धाम॒ विभृ॑तं॒ गुहा॒ सत् ।

त्रीणि॑ प॒दानि॒ निहि॑ता॒ गुहा॑स्य॒ यस्तानि॒ वेद॒ स पि॒तुः पि॒ताऽस॑त्

॥३२.९॥

स नो॒ बन्धु॑र्जनि॒ता स वि॑धा॒ता धामा॑नि वेद॒ भुव॑नानि॒ विश्वा॑ ।

यत्र॑ दे॒वा अ॒मृत॑मानशा॒नास्तृ॒तीये॒ धाम॑न्न॒ध्यैर॑यन्त

॥३२.१०॥

प॒रीत्य॑ भू॒तानि॑ प॒रीत्य॑ लो॒कान् प॒रीत्य॒ सर्वा॑: प्र॒दिशो॒ दिश॑श्च ।

उ॒प॒स्थाय॑ प्रथम॒जामृ॒तस्या॒त्मना॒ऽऽत्मान॑म॒भि सं वि॑वेश

॥३२.११॥

परि॒ द्यावा॑पृथि॒वी स॒द्य इ॒त्वा परि॑ लो॒कान् परि॒ दिश॒: परि॒ स्व॒: ।

ऋ॒तस्य॒ तन्तुं॒ वित॑तं वि॒चृत्य॒ तद॑पश्य॒त्तद॑भव॒त्तदा॑सीत्

॥३२.१२॥

सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । स॒निं मे॒धाम॑यासिष॒ᳪस्वाहा॑

॥३२.१३॥

यां मे॒धां दे॑वग॒णाः पि॒तर॑श्चो॒पास॑ते ।

तया॒ माम॒द्य मे॒धयाऽग्ने॑ मे॒धावि॑नं कुरु॒ स्वाहा॑

॥३२.१४॥

मे॒धां मे॒ वरु॑णो ददातु मे॒धाम॒ग्निः प्र॒जाप॑तिः ।

मे॒धामिन्द्र॑श्च वा॒युश्च॑ मे॒धां धा॒ता द॑दातु मे॒ स्वाहा॑

॥३२.१५॥

इ॒दं मे॒ ब्रह्म॑ च क्ष॒त्रं चो॒भे श्रिय॑मश्नुताम् ।

मयि॑ दे॒वा द॑धतु॒ श्रिय॒मुत्त॑मां॒ तस्यै॑ ते॒ स्वाहा॑

॥३२.१६॥