skipLink.label

वाजसनेयी संहिता (माध्यन्दिन) — तृतीयोऽध्यायः (63 मन्त्राः)

तृतीयोऽध्यायः

स॒मिधा॒ऽग्निं दु॑वस्यत घृतैर्बो॑धय॒ताति॑थिम् । आस्मि॑न् ह॒व्या जु॑होतन

॥३.१॥

सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन । अ॒ग्नये॑ जा॒तवे॑दसे

॥३.२॥

तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य

॥३.३॥

उप॑ त्वाऽग्ने ह॒विष्म॑तीर्घृ॒ताची॑र्यन्तु हर्यत । जु॒षस्व॑ स॒मिधो॒ मम॑

॥३.४॥

भूर्भुव॒: स्वर्द्यौरि॑व भू॒म्ना पृ॑थि॒वीव॑ वरि॒म्णा । तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठेऽग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे

॥३.५॥

आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्व॑:

॥३.६॥

अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णादपा॑न॒ती । व्य॑ख्यन् महि॒षो दिव॑म्

॥३.७॥

त्रि॒jशद्धाम॒ वि रा॑जति॒ वाक् प॑त॒ङ्गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभि॑:

॥३.८॥

अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॑ । सूर्यो॒ ज्योति॒र्ज्योति॒: सूर्य॒: स्वाहा॑ ।

अ॒ग्निर्वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑ । सूर्यो॒ वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑ । ज्योति॒: सूर्य॒: सूर्यो॒ ज्योति॒: स्वाहा॑

॥३.९॥

स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जू रात्र्येन्द्र॑वत्या । जु॑षा॒णो अ॒ग्निर्वे॑तु॒ स्वाहा॑ ।

स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जूरु॒षसेन्द्र॑वत्या ।जु॑षा॒णः सूर्यो॑ वेतु॒ स्वाहा॑

॥३.१०॥

उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ । आ॒रे अ॒स्मे च॑ शृण्व॒ते

॥३.११॥

अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् । अ॒पाᳪरेता॑ᳪसि जिन्वति

॥३.१२॥

उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ ।

उ॒भा दा॒तारा॑वि॒षाᳪर॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम्

॥३.१३॥

अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॒हाथा॑ नो वर्धया र॒यिम्

॥३.१४॥

अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्य॑: ।

यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॒ वि॒शेवि॑शे

॥३.१५॥

अ॒स्य प्र॒त्नामनु॒ द्युत॑ᳪशु॒क्रं दु॑दुह्रे॒ अह्र॑यः । पय॑: सहस्र॒सामृषि॑म्

॥३.१६॥

त॑नू॒पा अ॑ग्नेऽसि त॒न्वं॒ मे पाह्यायु॒र्दा अ॑ग्ने॒ स्यायु॑र्मे देहि व॑र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि ।

अग्ने॒ यन्मे॑ त॒न्वा॒ ऊ॒नं तन्म॒ आपृ॑ण

॥३.१७॥

इन्धा॑नास्त्वा श॒तᳪहिमा॑ द्यु॒मन्त॒ᳪसमि॑धीमहि । वय॑स्वन्तो वय॒स्कृत॒ सह॑स्वन्तः सह॒स्कृत॑म् ।

अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा॑भ्यम् । चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शीय

॥३.१८॥

सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सागथा॒: समृषी॑णाᳪ स्तु॒तेन॑ ।

सं प्रि॒येण॒ धाम्ना॒ सम॒हमायु॑षा॒ सं वर्च॑सा॒ सं प्र॒जया॒ सᳪ रा॒यस्पोषे॑ण ग्मिषीय

॥३.१९॥

अन्ध॒ स्थान्धो॑ वो भक्षीय॒ मह॑ स्थ॒ महो॑ वो भक्षी॒योर्ज॒ स्थोर्जं॑ वो भक्षीय रा॒यस्पोष॑ स्थ रा॒यस्पोषं॑ वो भक्षीय

॥३.२०॥

रेव॑ती॒ रम॑ध्वम॒स्मिन्योना॑व॒स्मिन् गो॒ष्ठेऽस्मिंल्लो॒के॒ऽस्मिन्क्षये॑ । इहै॒व स्त॒ माप॑गात

॥३.२१॥

स॒ᳪहि॒तासि॑ विश्वरू॒प्यू॒र्जा मावि॑श गौप॒त्येन॑ । उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्द्धि॒या व॒यम् ।

नमो॒ भर॑न्त॒ एम॑सि

॥३.२२॥

राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मान॒ᳪ स्वे दमे॑

॥३.२३॥

स न॑: पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये॑

॥३.२४॥

अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्य॒: ।

वसु॑र॒ग्निर्वसुश्र॑वा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मᳪ र॒यिं दा॑:

॥३.२५॥

तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ।

स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अधाय॒तः सम॑स्मात्

॥३.२६॥

इड॒ एह्यदि॑त॒ एहि॑ काम्या॒ एत॑ । मयि॑ वः काम॒धर॑णं भूयात्

॥३.२७॥

सो॒मान॒ᳪ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जः

॥३.२८॥

यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्द्ध॑नः । स न॑: सिषक्तु॒ यस्तु॒रः

॥३.२९॥

मा न॒: शᳪसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ मर्त्य॑स्य । रक्षा॑ णो ब्रह्मणस्पते

॥३.३०॥

महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः । दु॑रा॒धर्षं॒ वरु॑णस्य

॥३.३१॥

न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ । ईशे॑ रि॒पुर॒घश॑ᳪसः

॥३.३२॥

ते हि पु॒त्रासो॒ अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य । ज्योति॒र्यच्छ॒न्त्यज॑स्रम्

॥३.३३॥

क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ । उ॒पोपेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते

॥३.३४॥

तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑: प्रचो॒दया॑त्

॥३.३५॥

परि॑ ते दू॒डभो॒ रथो॒ऽस्माँ२ अ॑श्नोतु वि॒श्वत॑: । येन॒ रक्ष॑सि दा॒शुष॑:

॥३.३६॥

भूर्भुव॒: स्व॒: सुप्र॒जाः प्र॒जाभि॑: स्याᳪ सु॒वीरो॑ वी॒रैः सु॒पोष॒: पोषै॑: ।

नर्य॑ प्र॒जां मे॑ पाहि शᳪस्य॑ प॒शून्मे॑ पा॒ह्यथ॑र्य पि॒तुं मे॑ पाहि

॥३.३७॥

आ ग॑न्म वि॒श्ववे॑दसम॒स्मभ्यं॑ वसु॒वित्त॑मम् । अग्ने॑ सम्राड॒भि द्यु॒म्नम॒भि सह॒ आ य॑च्छस्व

॥३.३८॥

अ॒यम॒ग्निर्गृ॒हप॑ति॒र्गार्ह॑पत्यः प्र॒जाया॑ वसु॒वित्त॑मः । अग्ने॑ गृहपते॒ऽभि द्यु॒म्नम॒भि सह॒ आ य॑च्छस्व

॥३.३९॥

अ॒यम॒ग्निः पु॑री॒ष्यो॒ रयि॒मान् पु॑ष्टि॒वर्ध॑नः । अग्ने॑ पुरीष्या॒भि द्यु॒म्नम॒भि सह॒ आ य॑च्छस्व

॥३.४०॥

गृहा॒ मा बि॑भीत॒ मा वे॑पध्व॒मूर्जं॑ बिभ्रत॒ एम॑सि । ऊर्जं॒ बिभ्र॑द्वः सु॒मना॑: सुमे॒धा गृ॒हानैमि॒ मन॑सा॒ मोद॑मानः

॥३.४१॥

येषा॑म॒ध्येति॑ प्र॒वस॒न्येषु॑ सौमन॒सो ब॒हुः । गृ॒हानुप॑ह्वयामहे॒ ते नो॑ जानन्तु जान॒तः

॥३.४२॥

उप॑हूता इ॒ह गाव॒ उप॑हूता अजा॒वय॑: । अथो॒ अन्न॑स्य की॒लाल॒ उप॑हूतो गृ॒हेषु॑ नः । क्षेमा॑य व॒: शान्त्यै॒ प्रप॑द्ये शि॒वᳪ श॒ग्मᳪ शं॒यो: शं॒यो:

॥३.४३॥

प्र॒घा॒सिनो॑ हवामहे म॒रुत॑श्च रि॒शाद॑सः । क॒र॒म्भेण॑ स॒जोष॑सः

॥३.४४॥

यद्ग्रामे॒ यदर॑ण्ये॒ यत्स॒भायां॒ यदि॑न्द्रि॑ये । यदेन॑श्चकृ॒मा व॒यमि॒दं तदव॑यजामहे॒ स्वाहा॑

॥३.४५॥

मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः ।

म॒हश्चि॒द्यस्य॑ मी॒ढुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः

॥३.४६॥

अक्र॒न् कर्म॑ कर्म॒कृत॑: स॒ह वा॒चा म॑यो॒भुवा॑ । दे॒वेभ्य॒: कर्म॑ कृ॒त्वास्तं॒ प्रेत॑ सचाभुवः

॥३.४७॥

अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः ।

अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि

॥३.४८॥

पू॒र्णा द॑र्वि॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रा प॑त । व॒स्नेव॒ विक्री॑णावहा॒ इष॒मूर्ज॑ᳪ शतक्रतो

॥३.४९॥

दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि त दधे । नि॒हारं॑ च॒ हरा॑सि मे नि॒हारं॒ नि ह॑राणि ते॒ स्वाहा॑

॥३.५०॥

अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत ।

अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ निवि॑ष्ठया म॒ती योजा॒ न्वि॒न्द्र ते॒ हरी॑

॥३.५१॥

सु॒स॒न्दृशं॑ त्वा व॒यं मघ॑वन्वन्दिषी॒महि॑ ।

प्र नू॒नं पू॒र्णब॑न्धुर स्तु॒तो या॑सि॒ वशाँ॒२ अनु॒ योजा॒ न्वि॒न्द्र ते॒ हरी॑

॥३.५२॥

मनो॒ न्वाह्वा॑महे नाराश॒jसेन॒ स्तोमे॑न । पि॑तॄ॒णां च॒ मन्म॑भिः

॥३.५३॥

आ न॑ एतु॒ मन॒: पुन॒: क्रत्वे॒ दक्षा॑य जी॒वसे॑ । ज्योक् च॒ सूर्यं॑ दृ॒शे

॥३.५४॥

पुन॑र्नः पितरो॒ मनो॒ ददा॑तु दैव्यो॒ जन॑: । जी॒वं व्रात॑ᳪ सचेमहि

॥३.५५॥

व॒यᳪ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तः सचेमहि

॥३.५६॥

ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व॒ स्वाहै॒ष ते॑ रुद्र भा॒ग आ॒खुस्ते॑ प॒शुः

॥३.५७॥

अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् । यथा॑ नो॒ वस्य॑स॒स्कर॒द्यथा॑ न॒: श्रेय॑स॒स्कर॒द्यथा॑ नो व्यवसा॒यया॑त्

॥३.५८॥

भे॒ष॒जम॑सि भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जम् । सु॒खं मे॒षाय॑ मेष्यै

॥३.५९॥

त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ।

त्र्य॑म्बकं यजामहे सुग॒न्धिं प॑ति॒वेद॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुत॑:

॥३.६०॥

ए॒तत्ते॑ रुद्राव॒सं तेन॑ प॒रो मूज॑व॒तोऽती॑हि ।

अव॑ततधन्वा॒ पिना॑कावस॒: कृत्ति॑वासा॒ अहि॑ᳪसन्नः शि॒वोऽती॑हि

॥३.६१॥

त्र्या॑यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् । यद्दे॒वेषु॑ त्र्यायु॒षं तन्नो॑ अस्तु त्र्यायु॒षम्

॥३.६२॥

शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिᳪसीः ।

नि व॑र्तयाम्यायु॑षे॒ऽन्नाद्या॑य॒ प्रजन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य

॥३.६३॥