skipLink.label

वाजसनेयी संहिता (माध्यन्दिन) — पञ्चत्रिंशोऽध्यायः (22 मन्त्राः)

पञ्चत्रिंशोऽध्यायः

अपे॒तो य॑न्तु प॒णयोऽसु॑म्ना देवपी॒यव॑: । अ॒स्य लो॒कः सु॒ताव॑तः ।

द्युभि॒रहो॑भिर॒क्तुभि॒र्व्य॒क्तं य॒मो द॑दात्वव॒सान॑मस्मै

॥३५.१॥

स॒वि॒ता ते॒ शरी॑रेभ्यः पृथि॒व्याँल्लो॒कमि॑च्छतु । तस्मै॑ युज्यन्तामु॒स्रिया॑:

॥३५.२॥

वा॒युः पु॑नातु स॑वि॒ता पु॑नात्व॒ग्नेर्भ्राज॑सा॒ सूर्य॑स्य॒ वर्च॑सा । वि मु॑च्यन्तामु॒स्रिया॑:

॥३५.३॥

अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता ।

गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षम्

॥३५.४॥

स॒वि॒ता ते॒ शरी॑राणि मा॒तुरु॒पस्थ॒ आ व॑पतु । तस्मै॑ पृथिवि॒ शं भ॑व

॥३५.५॥

प्र॒जाप॑तौ त्वा दे॒वता॑या॒मुपो॑दके लो॒के नि द॑धाम्यसौ । अप॑ न॒: शोशु॑चद॒घम्

॥३५.६॥

परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॑ अ॒न्य इत॑रो देव॒याना॑त् ।

चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा न॑: प्र॒जाᳪ री॑रिषो॒ मोत वी॒रान्

॥३५.७॥

शं वात॒: शᳪ हि ते॒ घृणि॒: शं ते॑ भव॒न्त्विष्ट॑काः ।

शं ते॑ भवन्त्व॒ग्नय॒: पार्थि॑वासो॒ मा त्वा॒ऽभि शू॑शुचन्

॥३५.८॥

कल्प॑न्तां ते॒ दिश॒स्तुभ्य॒माप॑: शि॒वत॑मा॒स्तुभ्यं॑ भवन्तु॒ सिन्ध॑वः ।

अ॒न्तरि॑क्षᳪ शि॒वं तुभ्यं॒ कल्प॑न्तां ते॒ दिश॒: सर्वा॑:

॥३५.९॥

अश्म॑न्वती रीयते॒ सᳪ र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता॒ सखा॑यः ।

अत्रा॑ जही॒मोऽशि॑वा॒ ये अस॑ञ्छि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न्

॥३५.१०॥

अपा॒घमप॒ किल्वि॑ष॒मप॑ कृ॒त्यामपो॒ रप॑: । अपा॑मार्ग॒ त्वम॒स्मदप॑ दु॒:ष्वप्न्य॑ᳪ सुव

॥३५.११॥

सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः

॥३५.१२॥

अ॒न॒ड्वाह॑म॒न्वार॑भामहे॒ सौर॑भेयᳪ स्व॒स्तये॑ । स न॒ इन्द्र॑ इव दे॒वेभ्यो॒ वह्नि॑: स॒न्तार॑णो भव

॥३५.१३॥

उद्व॒यं तम॑स॒स्परि॒ स्व: पश्य॑न्त॒ उत्त॑रम् ।

दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्

॥३५.१४॥

इ॒मं जी॒वेभ्य॑: परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम् ।

श॒तं जी॑वन्तु श॒रद॑: पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन

॥३५.१५॥

अग्न॒ आयू॑ᳪषि पवस्व॒ आ सु॒वोर्ज॒मिषं॑ च नः । आ॒रे बा॑धस्व दु॒च्छुना॑म्

॥३५.१६॥

आयु॑ष्मानग्ने ह॒विषा॑ वृधा॒नो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि ।

घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मान्त्स्वाहा॑

॥३५.१७॥

परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत । दे॒वेष्व॑क्रत॒ श्रव॒: क इ॒माँ२ आ द॑धर्षति

॥३५.१८॥

क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॑म॒राज्यं॑ गच्छतु रिप्रवा॒हः ।

इहै॒वायमित॑रो जा॒तवे॑दा दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन्

॥३५.१९॥

वह॑ व॒पां जा॑तवेदः पि॒तृभ्यो॒ यत्रै॑ना॒न्वेत्थ॒ निहि॑तान् परा॒के ।

मेद॑सः कु॒ल्या उप॒ तान्त्स्र॑वन्तु स॒त्या ए॑षामा॒शिष॒: सं न॑मन्ता॒ᳪ स्वाहा॑

॥३५.२०॥

स्यो॒ना पृ॑थिवि नो भवानृक्ष॒रा नि॒वेश॑नी । यच्छा॑ न॒: शर्म॑ स॒प्रथा॑: ।

अप॑ न॒: शोशु॑चद॒घम्

॥३५.२१॥

अ॒स्मात्त्वमधि॑ जा॒तो॒ऽसि॒ त्वद॒यं जा॑यतां॒ पुन॑: । अ॒सौ स्व॒र्गाय॑ लो॒काय॒ स्वाहा॑

॥३५.२२॥