शुक्लयजुः माध्यन्दिनसंहिता — सप्तत्रिंशोऽध्यायः (21 मन्त्राः)
शुक्लयजुः माध्यन्दिनसंहिता — सप्तत्रिंशोऽध्यायः
heading.anchorLabelमन्त्राः
heading.anchorLabelमन्त्र 1 {#mantra-1}
heading.anchorLabelअध्याय: 37 | मन्त्र: 1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नारि॑रसि
मन्त्र 2 {#mantra-2}
heading.anchorLabelअध्याय: 37 | मन्त्र: 2
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑: । वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुति॒: स्वाहा॑
मन्त्र 3 {#mantra-3}
heading.anchorLabelअध्याय: 37 | मन्त्र: 3
देवी॑ द्यावापृथिवी म॒खस्य॑ वाम॒द्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे
मन्त्र 4 {#mantra-4}
heading.anchorLabelअध्याय: 37 | मन्त्र: 4
देव्यो॑ वम्र्यो भू॒तस्य॑ प्रथम॒जा म॒खस्य॑ वो॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे
मन्त्र 5 {#mantra-5}
heading.anchorLabelअध्याय: 37 | मन्त्र: 5
इय॒त्यग्र॑ आसीन्म॒खस्य॑ ते॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे
मन्त्र 6 {#mantra-6}
heading.anchorLabelअध्याय: 37 | मन्त्र: 6
इन्द्र॒स्यौज॑ स्थ म॒खस्य॑ वो॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे
मन्त्र 7 {#mantra-7}
heading.anchorLabelअध्याय: 37 | मन्त्र: 7
प्रैतु॒ ब्रह्म॑ण॒स्पति॒: प्र दे॒व्ये॒तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे
मन्त्र 8 {#mantra-8}
heading.anchorLabelअध्याय: 37 | मन्त्र: 8
म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे
मन्त्र 9 {#mantra-9}
heading.anchorLabelअध्याय: 37 | मन्त्र: 9
अश्व॑स्य त्वा॒ वृष्ण॑: श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । अश्व॑स्य त्वा॒ वृष्ण॑: श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । अश्व॑स्य त्वा॒ वृष्ण॑: श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे
मन्त्र 10 {#mantra-10}
heading.anchorLabelअध्याय: 37 | मन्त्र: 10
ऋ॒जवे॑ त्वा सा॒धवे॑ त्वा सुक्षि॒त्यै त्वा॑ । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे
मन्त्र 11 {#mantra-11}
heading.anchorLabelअध्याय: 37 | मन्त्र: 11
य॒माय॑ त्वा म॒खाय॑ त्वा॒ सूर्य॑स्य त्वा॒ तप॑से । दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु पृथि॒व्याः स॒ᳪस्पृश॑स्पाहि । अ॒र्चिर॑सि शो॒चिर॑सि॒ तपो॑ऽसि
मन्त्र 12 {#mantra-12}
heading.anchorLabelअध्याय: 37 | मन्त्र: 12
अना॑धृष्टा पु॒रस्ता॑द॒ग्नेराधि॑पत्य॒ आयु॑र्मे दाः पु॒त्रव॑ती दक्षिण॒त इन्द्र॒स्याधि॑पत्ये प्र॒जां मे॑ दाः । सु॒षदा॑ प॒श्चाद्दे॒वस्य॑ सवि॒तुराधि॑पत्ये॒ चक्षु॑र्मे दा आस्रु॑तिरुत्तर॒तो धा॒तुराधि॑पत्ये रा॒यस्पोषं॑ मे दाः । विधृ॑तिरु॒परि॑ष्टा॒द्बृह॒स्पते॒राधि॑पत्ये॒ ओजो॑ मे दा विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑स्पाहि मनो॒रश्वा॑सि
मन्त्र 13 {#mantra-13}
heading.anchorLabelअध्याय: 37 | मन्त्र: 13
स्वाहा॑ म॒रुद्भि॒: परि॑ श्रीयस्व दि॒वः स॒ᳪस्पृश॑स्पाहि । मधु॒ मधु॒ मधु॑
मन्त्र 14 {#mantra-14}
heading.anchorLabelअध्याय: 37 | मन्त्र: 14
गर्भो॑ दे॒वानां॑ पि॒ता म॑ती॒नां पति॑: प्र॒जाना॑म् । सं दे॒वो दे॒वेन॑ सवि॒त्रा ग॑त॒ सᳪसूर्ये॑ण रोचते
मन्त्र 15 {#mantra-15}
heading.anchorLabelअध्याय: 37 | मन्त्र: 15
सम॒ग्निर॒ग्निना॑ गत॒ सं दैवे॑न सवि॒त्रा सᳪ सूर्ये॑णारोचिष्ट । स्वाहा॒ सम॒ग्निस्तप॑सा गत॒ सं दैव्ये॑न सवि॒त्रा सᳪसूर्ये॑णारूरुचत
मन्त्र 16 {#mantra-16}
heading.anchorLabelअध्याय: 37 | मन्त्र: 16
ध॒र्ता दि॒वो वि भा॑ति॒ तप॑सस्पृथि॒व्यां ध॒र्ता दे॒वो दे॒वाना॒मम॑र्त्यस्तपो॒जाः । वाच॑म॒स्मे नि य॑च्छ देवा॒युव॑म्
मन्त्र 17 {#mantra-17}
heading.anchorLabelअध्याय: 37 | मन्त्र: 17
अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीची॒: स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्त्ति॒ भुव॑नेष्व॒न्तः
मन्त्र 18 {#mantra-18}
heading.anchorLabelअध्याय: 37 | मन्त्र: 18
विश्वा॑सां भुवां पते॒ विश्व॑स्य मनसस्पते॒ विश्व॑स्य वचसस्पते॒ सर्व॑स्य वचसस्पते । दे॒व॒श्रुत्त्वं दे॑व घर्म दे॒वो दे॒वान् पा॒ह्यत्र॒ प्रावी॒रनु॑ वां दे॒ववी॑तये । मधु॒ माध्वी॑भ्यां॒ मधु॒ माधू॑चीभ्याम्
मन्त्र 19 {#mantra-19}
heading.anchorLabelअध्याय: 37 | मन्त्र: 19
हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा । ऊ॒र्ध्वो अ॑ध्व॒रं दि॒वि दे॒वेषु॑ धेहि
मन्त्र 20 {#mantra-20}
heading.anchorLabelअध्याय: 37 | मन्त्र: 20
पि॒ता नो॑ऽसि पि॒ता नो॑ बोधि॒ नम॑स्ते अतु॒ मा मा॑ हिᳪसीः । त्वष्टृ॑मन्तस्त्वा सपेम पु॒त्रान्प॒शून्मयि॑ धेहि प्र॒जाम॒स्मासु॑ धे॒ह्यरि॑ष्टा॒ऽहᳪ स॒ह प॑त्या भूयासम्
मन्त्र 21 {#mantra-21}
heading.anchorLabelअध्याय: 37 | मन्त्र: 21
अह॑: के॒तुना॑ जुषताᳪ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ । रात्रि॑: के॒तुना॑ जुषताᳪ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑