skipLink.label

वाजसनेयी संहिता (माध्यन्दिन) — अष्टात्रिंशोऽध्यायः (28 मन्त्राः)

अष्टात्रिंशोऽध्यायः

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।

आ द॒देऽदि॑त्यै॒ रास्ना॑ऽसि

॥३८.१॥

इड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्त्येहि॑ । असा॒वेह्यसा॒वेह्यसा॒वेहि॑

॥३८.२॥

अदि॑त्यै॒ रास्ना॑ऽसीन्द्रा॒ण्या उ॒ष्णीष॑: ।

पू॒षाऽसि॑ घ॒र्माय॑ दीष्व

॥३८.३॥

अ॒श्विभ्यां॑ पिन्वस्व॒ सर॑स्वत्यै पिन्व॒स्वेन्द्रा॑य पिन्वस्व ।

स्वाहेन्द्र॑व॒त् स्वाहेन्द्र॑व॒त् स्वाहेन्द्र॑व॒त्

॥३८.४॥

यस्ते॒ स्तन॑: शश॒यो यो म॑यो॒भूर्यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्र॑: ।

येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि॒ सर॑स्वति॒ तमि॒ह धात॑वेऽकः । उ॒र्वन्तरि॑क्ष॒मन्वे॑मि

॥३८.५॥

गा॒य॒त्रं छन्दो॑ऽसि॒ त्रै॑ष्टुभं॒ छन्दो॑ऽसि॒ द्यावा॑पृथि॒वीभ्यां॑ त्वा॒ परि॑ गृह्णाम्य॒न्तरि॑क्षे॒णोप॑ यच्छामि ।

इन्द्रा॑श्विना॒ मधु॑नः सार॒घस्य॑ घ॒र्मं पा॑त॒ वस॑वो॒ यज॑त॒ वाट् ।

स्वाहा॒ सूर्य॑स्य र॒श्मये॑ वृष्टि॒वन॑ये

॥३८.६॥

स॒मु॒द्राय॑ त्वा॒ वाता॑य॒ स्वाहा॑ सरि॒राय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ।

अ॒ना॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ऽप्रतिधृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा॑ ।

अ॒व॒स्यवे॑ त्वा॒ वाता॑य॒ स्वाहा॑ ऽशिमि॒दाय॑ त्वा॒ वाता॑य॒ स्वाहा॑

॥३८.७॥

इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑ते॒ स्वाहेन्द्रा॑य त्वाऽऽदि॒त्यव॑ते॒ स्वाहेन्द्रा॑य त्वाऽभिमाति॒घ्ने स्वाहा ।

स॒वि॒त्रे त्व॑ ऋभु॒मते॑ विभु॒मते॒ वाज॑वते॒ स्वाहा॒ बृह॒स्पत॑ये त्वा वि॒श्वदे॑व्यावते॒ स्वाहा॑

॥३८.८॥

य॒माय॒ त्वाऽङ्गि॑रस्वते पितृ॒मते॒ स्वाहा॑ । स्वाहा॑ घ॒र्माय॒ स्वाहा॑ घ॒र्मः पि॒त्रे

॥३८.९॥

विश्वा॒ आशा॑ दक्षिण॒सद्विश्वा॑न् दे॒वानया॑डि॒ह ।

स्वाहा॑कृतस्य घ॒र्मस्य॒ मधो॑: पिबतमश्विना

॥३८.१०॥

दि॒वि धा॑ इ॒मं य॒ज्ञमि॒मं य॒ज्ञं दि॒वि धा॑: । स्वाहा॒ऽग्नये॑ य॒ज्ञिया॑य॒ शं यजु॑र्भ्यः

॥३८.११॥

अश्वि॑ना घ॒र्मं पा॑त॒ᳪ हार्द्वा॑न॒मह॑र्दि॒वाभि॑रू॒तिभि॑: । तन्त्रा॒यिणे॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म्

॥३८.१२॥

अपा॑ताम॒श्विना॑ घ॒र्ममनु॒ द्यावा॑पृथि॒वी अ॑मᳪसाताम् । इहै॒व रा॒तय॑: सन्तु

॥३८.१३॥

इ॒षे पि॑न्वस्वो॒र्जे पि॑न्वस्व॒ ब्रह्म॑णे पिन्वस्व क्ष॒त्राय॑ पिन्वस्व॒ द्यावा॑पृथि॒वीभ्यां॑ पिन्वस्व ।

धर्मा॑सि सु॒धर्मामे॑न्य॒स्मे नृ॒म्णानि॑ धारय॒ ब्रह्म॑ धारय क्ष॒त्रं धा॑रय॒ विशं॑ धारय

॥३८.१४॥

स्वाहा॑ पू॒ष्णे शर॑से॒ स्वाहा॒ ग्राव॑भ्यः स्वाहा॑ प्रतिर॒वेभ्य॑: ।

स्वाहा॑ पि॒तृभ्य॑ ऊ॒र्ध्वब॑र्हिर्भ्यो घर्म॒पाव॑भ्य॒: स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ᳪ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्य॑:

॥३८.१५॥

स्वाहा॑ रु॒द्राय॑ रु॒द्रहू॑तये॒ स्वाहा॒ सं ज्योति॑षा॒ ज्योति॑: ।

अह॑: के॒तुना॑ जुषताᳪ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ।

रात्रि॑: के॒तुना॑ जुषताᳪ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ।

मधु॑ हु॒तमिन्द्र॑तमे अ॒ग्नाव॒श्याम॑ ते देव॒ घर्म॒ नम॑स्ते अस्तु॒ मा मा॑ हिᳪसीः

॥३८.१६॥

अ॒भीमं म॑हि॒मा दिवं॒ विप्रो॑ बभूव स॒प्रथा॑: ।

उ॒त श्रव॑सा पृथि॒वीᳪ सᳪ सी॑दस्व म॒हाँ२ अ॑सि॒ रोच॑स्व देव॒वीत॑मः

॥३८.१७॥

या ते॑ घर्म दि॒व्या शुग्या गा॑य॒त्र्याᳪ ह॑वि॒र्धाने॑ ।

सा त॒ आ प्या॑यतां॒ निष्टया॑यतां॒ तस्यै॑ ते॒ स्वाहा॑ ।

या ते॑ घर्मा॒न्तरि॑क्षे॒ शुग्या त्रि॒ष्टुभ्याग्नी॑ध्रे ।

सा त॒ आ प्या॑यतां॒ निष्टया॑यतां॒ तस्यै॑ ते॒ स्वाहा॑ ।

या ते॑ घर्म पृथि॒व्याᳪ शुग्या जग॑त्याᳪ सद॒स्या॒ ।

सा त॒ आ प्या॑यतां॒ निष्टया॑यतां॒ तस्यै॑ ते॒ स्वाहा॑

॥३८.१८॥

क्ष॒त्रस्य॑ त्वा प॒रस्पा॑य॒ ब्रह्म॑णस्त॒न्वं॒ पाहि ।

विश॑स्त्वा॒ धर्म॑णा व॒यमनु॑ क्रामाम सुवि॒ताय॒ नव्य॑से

॥३८.१९॥

चतु॑: स्रक्ति॒र्नाभि॑रृ॒तस्य॑ स॒प्रथा॒: स नो॑ वि॒श्वायु॑: स॒प्रथा॒: स न: स॒र्वायु॑: स॒प्रथा॑: ।

अप॒ द्वेषो॒ अप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिम

॥३८.२०॥

घर्मै॒तत्ते॒ पुरी॑षं॒ तेन॒ वर्ध॑स्व॒ चा च॑ प्यायस्व । व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि

॥३८.२१॥

अचि॑क्रद॒द्वृषा॒ हरि॑र्म॒हान्मि॒त्रो न॑ दर्श॒तः । सᳪ सूर्ये॑ण दिद्युतदुद॒धिर्नि॒धिः

॥३८.२२॥

सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः

॥३८.२३॥

उद्व॒यं तम॑स॒स्परि॒ स्व: पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्

॥३८.२४॥

एधो॑ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि

॥३८.२५॥

याव॑ती॒ द्यावा॑पृथि॒वी याव॑च्च स॒प्त सिन्ध॑वो वितस्थि॒रे ।

तव॑न्तमिन्द्र ते॒ ग्रह॑मू॒र्जा गृ॑ह्णा॒म्यक्षि॑तं॒ मयि॑ गृह्णा॒म्यक्षि॑तम्

॥३८.२६॥

मयि॒ त्यदि॑न्द्रि॒यं बृ॒हन्मयि॒ दक्षो॒ मयि॒ क्रतु॑: ।

घ॒र्मस्त्रि॒शुग्वि रा॑जति वि॒राजा॒ ज्योति॑षा स॒ह ब्रह्म॑णा॒ तेज॑सा स॒ह

॥३८.२७॥

पय॑सो॒ रेत॒ आभृ॑तं॒ तस्य॒ दोह॑मशीम॒ह्युत्त॑रामुत्तरा॒ᳪ समा॑म् ।

त्विष॑: सं॒वृक् क्रत्वे॒ दक्ष॑स्य ते सुषु॒म्णस्य॑ ते सुषुम्णाग्निहु॒तः ।

इन्द्र॑पीतस्य प्र॒जाप॑तिभक्षितस्य॒ मधु॑मत॒ उप॑हूत॒ उप॑हूतस्य भक्षयामि

॥३८.२८॥