skipLink.label

वाजसनेयी संहिता (माध्यन्दिन) — सप्तदशोऽध्यायः (99 मन्त्राः)

सप्तदशोऽध्यायः

अश्म॒न्नूर्जं॒ पर्व॑ते शिश्रिया॒णाम॒द्भ्य ओष॑धीभ्यो॒ वन॒स्पतिभ्यो॒ अधि॒ सम्भृ॑तं॒ पय॑: ।

तां न॒ इष॒मूर्जं॑ धत्त मरुतः सᳪररा॒णाः अश्मँ॑स्ते॒ क्षुन्मयि॑ त॒ ऊर्ग्यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु

॥१७.१॥

इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नव॑: स॒न्त्वेका॑ च॒ दश॑ च॒ दश॑ च श॒तं च॑ श॒तं च॑ स॒हस्रं॑ च स॒हस्रं॑ चा॒युतं॑ चा॒युतं॑ च नि॒युतं॑ च नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒ न्य॑र्बुदं समु॒द्रश्च॒ मध्यं॒ चान्त॑श्च परा॒र्धश्चै॒ता मे॑ अग्न॒ इष्ट॑का धे॒नव॑: सन्त्व॒मुत्रा॒मुष्मिँ॑ल्लो॒के

॥१७.२॥

ऋ॒तव॑ स्थ ऋता॒वृध॑ ऋतु॒ष्ठा स्थ॑ ऋता॒वृध॑: ।

घृ॒त॒श्च्युतो॑ मधु॒श्च्युतो॑ वि॒राजो॒ नाम॑ काम॒दुघा॒ अक्षी॑यमाणाः

॥१७.३॥

स॒मु॒द्रस्य॒ त्वाऽव॑क॒याग्ने॒ परि॑ व्ययामसि । पा॒व॒को अ॒स्मभ्य॑ᳪ शि॒वो भ॑व

॥१७.४॥

हि॒मस्य॑ त्वा ज॒रायु॒णाऽग्ने॒ परि॑ व्ययामसि । पा॒व॒को अ॒स्मभ्य॑ᳪ शि॒वो भ॑व

॥१७.५॥

उप॒ ज्मन्नुप॑ वेत॒सेऽव॑ तर न॒दीष्वा । अग्ने॑ पि॒त्तम॒पाम॑सि॒ मण्डू॑कि॒ ताभि॒रा ग॑हि॒ सेमं नो॑ य॒ज्ञं पा॑व॒कव॑र्णᳪ शि॒वं कृ॑धि

॥१७.६॥

अ॒पामि॒दं न्यय॑नᳪ समु॒द्रस्य॑ नि॒वेश॑नम् ।

अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॑: पाव॒को अ॒स्मभ्य॑ᳪ शि॒वो भ॑व

॥१७.७॥

अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑ । आ दे॒वान् व॑क्षि॒ यक्षि॑ च

॥१७.८॥

स न॑: पावक दीदि॒वोऽग्ने॑ दे॒वाँ२ इ॒हा व॑ह ।

उप॑ य॒ज्ञᳪ ह॒विश्च॑ नः

॥१७.९॥

पा॒व॒कया॒ यश्चि॒तय॑न्त्या कृ॒पा क्षाम॑न् रुरु॒च उ॒षसो॒ न भा॒नुना॑ ।

तूर्व॒न् न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जर॑:

॥१७.१०॥

नम॑स्ते॒ हर॑से शो॒चिषे॒ नम॑स्ते अस्त्व॒र्चिषे॑ ।

अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॑: पाव॒को अ॒स्मभ्य॑ᳪ शि॒वो भ॑व

॥१७.११॥

नृ॒षदे॒ वेड॑प्सु॒षदे॒ वेड् ब॑र्हि॒षदे॒ वेड् व॑न॒सदे॒ वेड् स्व॒र्विदे॒ वेट्

॥१७.१२॥

ये दे॒वा दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नाᳪ संवत्स॒रीण॒मुप॑ भा॒गमास॑ते ।

अ॑हु॒तादो॑ ह॒विषो॑ य॒ज्ञे अ॒स्मिन्त्स्व॒यं पि॑बन्तु॒ मधु॑नो घृ॒तस्य॑

॥१७.१३॥

ये दे॒वा दे॒वेष्वधि॑ देव॒त्वमाय॒न् ये ब्रह्म॑णः पुर ए॒तारो॑ अ॒स्य ।

येभ्यो॒ न ऋ॒ते पव॑ते॒ धाम॒ किञ्च॒न न ते दि॒वो न पृ॑थि॒व्या अधि॒ स्नुषु॑

॥१७.१४॥

प्रा॒ण॒दा अ॑पान॒दा व्या॑न॒दा व॑र्चो॒दा व॑रिवो॒दाः ।

अ॒न्याँस्ते॑ अ॒स्मत्त॑पन्तु हे॒तय॑: पाव॒को अ॒स्मभ्य॑ᳪ शि॒वो भ॑व

॥१७.१५॥

अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्यत्रिण॑म् । अ॒ग्निर्नो॑ वनते र॒यिम्

॥१७.१६॥

य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत् पि॒ता न॑: ।

स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒२ आ वि॑वेश

॥१७.१७॥

किᳪस्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थाऽऽसी॑त् ।

यतो॒ भूमिं॑ ज॒नय॑न् वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः

॥१७.१८॥

वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् ।

सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न् दे॒व एक॑:

॥१७.१९॥

किᳪस्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।

मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न्

॥१७.२०॥

या ते॒ धामा॑नि पर॒माणि॒ याऽव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा ।

शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॒ वृधा॒नः

॥१७.२१॥

विश्व॑कर्मन् ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् ।

मुह्य॑न्त्व॒न्ये अ॒भित॑: स॒पत्ना॑ इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु

॥१७.२२॥

वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम ।

स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा

॥१७.२३॥

विश्व॑कर्मन् ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् ।

तस्मै॒ विश॒: सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॒हव्यो॒ यथाऽस॑त्

॥१७.२४॥

चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नम्न॑माने ।

य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व॒ आदिद् द्यावा॑पृथि॒वी अ॑प्रथेताम्

॥१७.२५॥

वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् ।

तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा॑ सप्त ऋ॒षीन् प॒र एक॑मा॒हुः

॥१७.२६॥

यो न॑: पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ ।

यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तᳪ स॑म्प्र॒श्नं भुव॑ना यन्त्य॒न्या

॥१७.२७॥

त आऽय॑जन्त॒ द्रवि॑ण॒ᳪ सम॑स्मा॒ ऋष॑य॒: पूर्वे॑ जरि॒तारो॒ न भू॒ना ।

अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑

॥१७.२८॥

प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ ।

कᳪस्वि॒द् गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ पूर्वे॑

॥१७.२९॥

तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑ ।

अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न् विश्वा॑नि॒ भुव॑नानि त॒स्थुः

॥१७.३०॥

न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव ।

नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति

॥१७.३१॥

वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्ग॑न्ध॒र्वो अ॑भवद् द्वि॒तीय॑: ।

तृ॒तीय॑: पि॒ता ज॑नि॒तौष॑धीनाम॒पां गर्भं॒ व्य॒दधात् पुरु॒त्रा

॥१७.३२॥

आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् ।

सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तᳪ सेना॑ अजयत् सा॒कमिन्द्र॑:

॥१७.३३॥

सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ ।

तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑

॥१७.३४॥

स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि॑र्व॒शी सᳪस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑ ।

स॒ᳪसृष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्युग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑

॥१७.३५॥

बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हाऽमित्राँ॑२ अप॒बाध॑मानः ।

प्र॒भ॒ञ्जन्त्सेना॑: प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम्

॥१७.३६॥

ब॒ल॒वि॒ज्ञा॒य स्थवि॑र॒: प्रवी॑र॒: सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः ।

अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जै॑त्रमिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित्

॥१७.३७॥

गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा ।

इ॒मᳪ स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्र॑ᳪ सखायो॒ अनु॒ सᳪ र॑भध्वम्

॥१७.३८॥

अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिन्द्र॑: ।

दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒ध्योऽस्माक॒ᳪ सेना॑ अवतु॒ प्र यु॒त्सु

॥१७.३९॥

इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोम॑: ।

दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्र॑म्

॥१७.४०॥

इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुता॒ᳪ शर्ध॑ उ॒ग्रम् ।

म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात्

॥१७.४१॥

उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मना॑ᳪसि ।

उद्वृ॑त्रहन् वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यन्तु॒ घोषा॑:

॥१७.४२॥

अ॒स्माक॒मिन्द्र॒: समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु ।

अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्माँ२ उ॑ देवा अवता॒ हवे॑षु

॥१७.४३॥

अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भय॑न्ती गृहा॒णाङ्गा॑न्यप्वे॒ परे॑हि ।

अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम्

॥१७.४४॥

अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सᳪशिते । गच्छा॒मित्रा॒न् प्र प॑द्यस्व॒ माऽमीषां॒ कं च॒नोच्छि॑षः

॥१७.४५॥

प्रेता॒ जय॑ता नर॒ इन्द्रो॑ व॒: शर्म॑ यच्छतु । उ॒ग्रा व॑: सन्तु बा॒हवो॑ऽनाधृ॒ष्या यथाऽस॑थ

॥१७.४६॥

असौ॒ या सेना॑ मरुत॒: परे॑षाम॒भ्यैति॑ न॒ ओज॑सा॒ स्पर्ध॑माना ।

तां गू॑हत॒ तम॒साऽप॑व्रतेन॒ यथा॒ऽमी अ॒न्यो अ॒न्यं न जा॒नन्

॥१७.४७॥

यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।

तन्न॒ इन्द्रो॒ बृह॒स्पति॒रदि॑ति॒: शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु

॥१७.४८॥

मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒ऽमृते॒नानु॑वस्ताम् ।

उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वाऽनु॑ दे॒वा म॑दन्तु

॥१७.४९॥

उदे॑नमुत्त॒रां न॒याग्ने॑ घृतेनाहुत । रा॒यस्पोषे॑ण॒ सᳪ सृ॑ज प्र॒जया॑ च ब॒हुं कृ॑धि

॥१७.५०॥

इन्द्रे॒मं प्र॑त॒रां न॑य सजा॒ताना॑मसद्व॒शी । समे॑नं॒ वर्च॑सा सृज दे॒वानां॑ भाग॒दा अ॑सत्

॥१७.५१॥

यस्य॑ कु॒र्मो गृ॒हे ह॒विस्तम॑ग्ने वर्धया॒ त्वम् । तस्मै॑ दे॒वा अधि॑ ब्रुवन्न॒यं च॒ ब्रह्म॑ण॒स्पति॑:

॥१७.५२॥

उदु॑ त्वा॒ विश्वे॑ दे॒वा अग्ने॑ भरन्तु॒ चित्ति॑भिः । स नो॑ भव शि॒वस्त्वᳪ सु॒प्रती॑को वि॒भाव॑सुः

॥१७.५३॥

पञ्च॒ दिशो॒ दैवी॑र्य॒ज्ञम॑वन्तु दे॒वीरपाम॑तिं॒ दुर्म॑तिं॒ बाध॑मानाः ।

रा॒यस्पोषे॑ य॒ज्ञप॑तिमा॒भज॑न्ती रा॒यस्पोषे॒ अधि॑ य॒ज्ञो अ॑स्थात्

॥१७.५४॥

समि॑द्धे अ॒ग्नावधि॑ मामहा॒न उ॒क्थप॑त्र॒ ईड्यो॑ गृभी॒तः ।

त॒प्तं घ॒र्मं प॑रि॒गृह्या॑यजन्तो॒र्जा यद्य॒ज्ञमय॑जन्त दे॒वाः

॥१७.५५॥

दै॑व्याय ध॒र्त्रे जोष्ट्रे॑ देव॒श्रीः श्रीम॑नाः श॒तप॑याः ।

प॒रि॒गृह्य॑ दे॒वा य॒ज्ञमा॑यन् दे॒वा दे॒वेभ्यो॑ अध्व॒र्यन्तो॑ अस्थुः

॥१७.५६॥

वी॒तᳪ ह॒विः श॑मि॒तᳪ श॑मि॒ता य॒जध्यै॑ तु॒रीयो॑ य॒ज्ञो यत्र॑ ह॒व्यमेति॑ ।

ततो॑ वा॒का आ॒शिषो॑ नो जुषन्ताम्

॥१७.५७॥

सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता॑त्सवि॒ता ज्योति॒रुद॑याँ॒२ अज॑स्रम् ।

तस्य॑ पू॒षा प्र॑स॒वे या॑ति वि॒द्वान्त्स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः

॥१७.५८॥

वि॒मान॑ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान् रोद॑सी अ॒न्तरि॑क्षम् ।

स वि॒श्वाची॑र॒भि च॑ष्टे घृ॒ताची॑रन्त॒रा पूर्व॒मप॑रं च के॒तुम्

॥१७.५९॥

उ॒क्षा स॑मु॒द्रो अ॑रु॒णः सु॑प॒र्णः पूर्व॑स्य॒ योनिं॑ पि॒तुरा वि॑वेश ।

मध्ये॑ दि॒वो निहि॑त॒: पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ॑

॥१७.६०॥

इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिर॑: ।

र॒थीत॑मᳪ र॒थीनां॒ वाजा॑ना॒ᳪ सत्प॑तिं॒ पति॑म्

॥१७.६१॥

दे॒व॒हूर्य॒ज्ञ आ च॑ वक्षत्सुम्न॒हूर्य॒ज्ञ आ च॑ वक्षत् । यक्ष॑द॒ग्निर्दे॒वो दे॒वाँ२ आ च॑ वक्षत्

॥१७.६२॥

वाज॑स्य मा प्रस॒व उ॑द्ग्रा॒भेणोद॑ग्रभीत् । अधा॑ स॒पत्ना॒निन्द्रो॑ मे निग्रा॒भेणाध॑राँ२ अकः

॥१७.६३॥

उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन् ।

अधा॑ स॒पत्ना॑निन्द्रा॒ग्नी मे॑ विषू॒चीना॒न्व्य॒स्यताम्

॥१७.६४॥

क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्य॒ᳪ हस्ते॑षु॒ बिभ्र॑तः ।

दि॒वस्पृ॒ष्ठᳪ स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम्

॥१७.६५॥

प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वान॒ग्नेर॑ग्ने पुरो अ॑ग्निर्भवे॒ह ।

विश्वा॒ आशा॒ दीद्या॑नो॒ वि भा॒ह्यूर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ष्पदे

॥१७.६६॥

पृ॒थि॒व्या अ॒हमुद॒न्तरि॑क्ष॒माऽरु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम् ।

दि॒वो नाक॑स्य पृ॒ष्ठात् स्व॒र्ज्योति॑रगाम॒हम्

॥१७.६७॥

स्व॒र्यन्तो॒ नापे॑क्षन्त॒ आ द्याᳪ रो॑हन्ति॒ रोद॑सी ।

य॒ज्ञं ये वि॒श्वतो॑धार॒ᳪ सुवि॑द्वाᳪसो वितेनि॒रे

॥१७.६८॥

अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम् ।

इय॑क्षमाणा॒ भृगु॑भिः स॒जोषा॒: स्व॒र्यन्तु॒ यज॑मानाः स्व॒स्ति

॥१७.६९॥

नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे धा॒पये॑ते॒ शिशु॒मेक॑ᳪ समी॒ची ।

द्यावा॒क्षामा॑ रु॒क्मो अ॒न्तर्वि भा॑ति दे॒वा अ॒ग्निं धा॑रयन् द्रविणो॒दाः

॥१७.७०॥

अग्ने॑ सहस्राक्ष शतमूर्धञ्छ॒तं ते॑ प्रा॒णाः स॒हस्रं॑ व्या॒नाः ।

त्वᳪ सा॑ह॒स्रस्य॑ रा॒य ई॑शिषे॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहा॑

॥१७.७१॥

सु॒प॒र्णो॒ऽसि ग॒रुत्मा॑न् पृ॒ष्ठे पृ॑थि॒व्याः सी॑द ।

भा॒साऽन्तरि॑क्ष॒मा पृ॑ण॒ ज्योति॑षा॒ दिव॒मुत्त॑भान॒ तेज॑सा॒ दिश॒ उद्दृ॑ᳪह

॥१७.७२॥

आ॒जुह्वा॑नः सु॒प्रती॑कः पु॒रस्ता॒दग्ने॒ स्वं योनि॒मा सी॑द साधु॒या ।

अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑ देवा॒ यज॑मानश्च सीदत

॥१७.७३॥

ताᳪ स॑वि॒तुर्वरे॑ण्यस्य चि॒त्रामाऽहं वृ॑णे सुम॒तिं वि॒श्वज॑न्याम् ।

याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नाᳪ स॒हस्र॑धारां॒ पय॑सा म॒हीं गाम्

॥१७.७४॥

वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे॑ ।

यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वीᳪषि॑ जुहुरे॒ समि॑द्धे

॥१७.७५॥

प्रेद्धो॑ अग्ने दीदिहि पु॒रो नऽज॑स्रया सू॒र्म्या॒ यविष्ठ । त्वाᳪ शश्व॑न्त॒ उप॑ यन्ति॒ वाजा॑:

॥१७.७६॥

अग्ने॒ तम॒द्याश्वं॒ न स्तोमै॒: क्रतुं॒ न भ॒द्रᳪ हृ॑दि॒स्पृश॑म् । ऋ॒ध्यामा॑ त॒ ओहै॑:

॥१७.७७॥

चित्तिं॑ जुहोमि॒ मन॑सा घृ॒तेन॒ यथा॑ दे॒वा इ॒हागम॑न्वी॒तिहो॑त्रा ऋता॒वृध॑: ।

पत्ये॒ विश्व॑स्य॒ भूम॑नो जु॒होमि॑ वि॒श्वक॑र्मणे वि॒श्वाहाऽदा॑भ्यᳪ ह॒वि:

॥१७.७८॥

स॒प्त ते॑ अग्ने स॒मिध॑: स॒प्त जि॒ह्वाः स॒प्त ऋष॑यः स॒प्त धाम॑ प्रि॒याणि॑ ।

स॒प्त होत्रा॑: सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्व घृ॒तेन॒ स्वाहा॑

॥१७.७९॥

शु॒क्रज्यो॑तिश्च चि॒त्रज्यो॑तिश्च स॒त्यज्यो॑तिश्च॒ ज्योति॑ष्माँश्च । शु॒क्रश्च॑ ऋत॒पाश्चात्य॑ᳪहाः

॥१७.८०॥

ई॒दृङ् चा॑न्या॒दृङ् च॑ स॒दृङ् च॑ प्रति॑सदृङ् च॑ । मि॒तश्च॒ सम्मि॑तश्च॒ सभ॑राः

॥१७.८१॥

ऋ॒तश्च॑ स॒त्यश्च॑ ध्रु॒वश्च॑ ध॒रुण॑श्च । ध॒र्ता च॑ विध॒र्ता च॑ विधार॒यः

॥१७.८२॥

ऋ॒त॒जिच्च॑ सत्य॒जिच्च॑ सेन॒जिच्च॑ सु॒षेण॑श्च । अन्ति॑मित्रश्च दू॒रे अ॑मित्रश्च ग॒णः

॥१७.८३॥

ई॒दृक्षा॑स एता॒दृक्षा॑स ऊ॒ षु ण॑: स॒दृक्षा॑स॒: प्रति॑सदृक्षास॒ एत॑न ।

मि॒तास॑श्च॒ सम्मि॑तासो नो अ॒द्य सभ॑रसो मरुतो य॒ज्ञे अ॒स्मिन्

॥१७.८४॥

स्वत॑वाँश्च प्रघा॒सी च॑ सान्तप॒नश्च॑ गृहमे॒धी च॑ । क्री॒डी च॑ शा॒की चो॑ज्जे॒षी

॥१७.८५॥

इन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानोऽभव॒न्यथेन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मा॒नोऽभ॑वन् ।

ए॒वमि॒मं यज॑मानं॒ दैवी॑श्च॒ विशो॑ मानु॒षीश्चानु॑वर्त्मानो भवन्तु

॥१७.८६॥

इ॒मᳪ स्तन॒मूर्ज॑स्वन्तं धया॒पां प्रपी॑नमग्ने सरि॒रस्य॒ मध्ये॑ ।

उत्सं॑ जुषस्व॒ मधु॑मन्तमर्वन्त्समु॒द्रिय॒ᳪ सद॑न॒मा वि॑शस्व

॥१७.८७॥

घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ ।

अ॒नुष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा॑कृतं वृषभ वक्षि ह॒व्यम्

॥१७.८८॥

समु॒द्रादू॒र्मिर्मधु॑माँ॒२ उदा॑र॒दुपा॒ᳪशुना॒ सम॑मृत॒त्वमा॑नट् ।

घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभि॑:

॥१७.८९॥

व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन् य॒ज्ञे धा॑रयामा॒ नमो॑भिः ।

उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतु॑:शृङ्गो॒ऽवमीद्गौ॒र ए॒तत्

॥१७.९०॥

च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य ।

त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒२ आ वि॑वेश

॥१७.९१॥

त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् ।

इन्द्र॒ एक॒ᳪ सूर्य॒ एकं॑ जजान वे॒नादेक॑ᳪ स्व॒धया॒ निष्ट॑तक्षुः

॥१७.९२॥

ए॒ता अ॑र्षन्ति॒ हृद्या॑त्समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑ ।

घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ आसाम्

॥१७.९३॥

स॒म्यक् स्र॑वन्ति स॒रितो॒ न धेना॑ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः ।

ए॒ते अ॑र्षन्त्यू॒र्मयो॑ घृ॒तस्य॑ मृ॒गा इ॑व क्षिप॒णोरीष॑माणाः

॥१७.९४॥

सिन्धो॑रिव प्राध्व॒ने शू॑घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः ।

घृ॒तस्य॒ धारा॑ अरु॒षो न वा॒जी काष्ठा॑ भि॒न्दन्नू॒र्मिभि॒: पिन्व॑मानः

॥१७.९५॥

अ॒भि प्र॑वन्त॒ सम॑नेव॒ योषा॑: कल्या॒ण्यः स्मय॑मानासो अ॒ग्निम् ।

घृ॒तस्य॒ धारा॑: स॒मिधो॑ नसन्त॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः

॥१७.९६॥

क॒न्या॒ इव वह॒तुमेत॒वा उ॑ अ॒ञ्ज्य॒ञ्जा॒ना अ॒भि चा॑कशीमि ।

यत्र॒ सोम॑: सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा॑ अ॒भि तत्प॑वन्ते

॥१७.९७॥

अ॒भ्य॒र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त ।

इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते

॥१७.९८॥

धामं॑ ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्यन्तरायु॑षि ।

अ॒पामनी॑के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं त ऊ॒र्मिम्

॥१७.९९॥