skipLink.label

वाजसनेयी संहिता (काण्व) — त्रिंशोऽध्यायः (46 मन्त्राः)

त्रिंशोऽध्यायः

अथ त्रिंशोऽध्यायः ।

होता॑ यक्षत्स॒मिधेन्द्र॑मि॒ळस्प॒दे नाभा॑ पृथि॒व्या अधि॑ ।

दि॒वो वर्ष्म॒न्त्समि॑ध्यत॒ ओजि॑ष्ठश्चर्षणी॒सहां॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.१॥

होता॑ यक्ष॒त्तनू॒नपा॑तमू॒तिभि॒र्जेता॑र॒मप॑राजितम् ।

इन्द्रं॑ दे॒व स्व॒र्विदं॑ प॒थिभि॒र्मधु॑मत्तमै॒र्नरा॒शसे॑न॒ तेज॑सा॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.२॥

होता॑ यक्ष॒दिळा॑भि॒रिन्द्र॑मीळि॒तमा॒जुह्वा॑न॒मम॑र्त्यम् ।

दे॒वो देवैः॒ सवी॑र्यो॒ वज्र॑हस्तः पुरंद॒रो वेत्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.३॥

होता॒ यक्ष॑द्ब॒र्हिषीन्द्रं॑ निषद्व॒रं वृ॑ष॒भं नर्या॑पसम् ।

वसु॑भी रुद्रैरा॑दि॒त्यैः सु॒युग्भि॑र्ब॒र्हिरास॑द॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.४॥

होता॑ यक्ष॒दोजो॒ न वी॒र्य॒ सहो॒ द्वार॒ इन्द्र॑मवर्धयन् ।

सु॒प्रा॒य॒णा अ॒स्मिन्य॒ज्ञे वि श्र॑यन्तामृता॒वृधो॒ द्वार॒ इन्द्रा॑य मी॒ळहुषे॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.५॥

होता॑ यक्षदु॒षे इन्द्र॑स्य धे॒नू सु॒दुघे॑ मा॒तरा॑ म॒ही ।

स॒वा॒तरौ॒ न तेज॑सा व॒त्समिन्द्र॑मवर्धतां वी॒तामाज्य॑स्य॒ होत॒र्यज॑

॥३०.६॥

होता॑ यक्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒ सखा॑या ह॒विषेन्द्रं॑ भिषज्यतः ।

क॒वी देवौ॒ प्रचे॑तसा॒ इन्द्रा॑य धत्त इन्द्रि॒यं वी॒तामाज्य॑स्य॒ होत॒र्यज॑

॥३०.७॥

होता॑ यक्षत्ति॒स्रो दे॒वीर्न भे॑ष॒जं त्रय॑स्त्रि॒धात॑वो॒ऽपस॒ इळा॒ सर॑स्वती॒ भार॑ती म॒हीः ।

इन्द्र॑पत्नीर्ह॒विष्म॑ती॒र्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.८॥

होता॑ यक्ष॒त्त्वष्टा॑र॒मिन्द्रं॑ दे॒वं भि॒षज॑ सु॒यजं॑ घृत॒श्रिय॑म् ।

पु॒रु॒रूप॑ सु॒रेत॑सं म॒घोन॒मिन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.९॥

होता॑ यक्ष॒द्वन॒स्पति॑ शमि॒तार॑ श॒तक्र॑तुं धि॒यो जो॒ष्टार॑मिन्द्रि॒यम् ।

मध्वा॑ सम॒ञ्जन्प॒थिभिः॑ सु॒गेभिः॒ स्वदा॑ति य॒ज्ञं मधु॑ना घृ॒तेन॒ वेत्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.१०॥

होता॑ यक्ष॒दिन्द्र॒ स्वाहाज्य॑स्य॒ स्वाहा॒ मेद॑सः॒ स्वाहा॑ स्तो॒काना॒ स्वाहा॒ स्वाहा॑कृतीना॒ स्वाहा॑ ह॒व्यसू॑क्तीनाम् ।

स्वाहा॑ दे॒वा आ॑ज्य॒पा जु॑षा॒णा इन्द्र॒ आज्य॑स्य॒ व्यन्तु॒ होत॒र्यज॑

॥३०.११॥

दे॒वं ब॒र्हिरिन्द्र॑ सुदे॒वं दे॒वैर्वी॒रव॑त्स्ती॒र्णं वेद्या॑मवर्धयत् ।

वस्तो॑र्वृ॒तं प्राक्तोर्भृ॒त रा॒या ब॒र्हिष्म॒तोऽत्य॑गाद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑

॥३०.१२॥

दे॒वीर्द्वार॒ इन्द्र॑ संघा॒ते वी॒ड्वीर्याम॑न्नवर्धयन् । आ व॒त्सेन॒ तरु॑णेन कुमा॒रेण॑ च मीव॒तापार्वा॑ण

रे॒णुक॑काटं नुदन्ताँ वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑

॥३०.१३॥

दे॒वी उ॒षासा॒नक्तेन्द्रं॑ य॒ज्ञे प्र॑य॒त्य॑ह्वेताम् ।

दैवी॒र्विशः॒ प्राया॑सिष्टा॒ सुप्री॑ते॒ सुधि॑ते वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑

॥३०.१४॥

दे॒वी जोष्ट्री॒ वसु॑धिती दे॒वमिन्द्र॑मवर्धताम् । अया॑व्य॒न्याघा द्वेषा॒स्यान्या व॑क्ष॒द्वसु॒ वार्या॑णि॒

यज॑मानाय शिक्षि॒ते व॑सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑

॥३०.१५॥

दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॒ पय॒सेन्द्र॑मवर्धताम् ।

इष॒मूर्ज॑म॒न्या व॑क्ष॒त्सग्धि॒ सपी॑तिम॒न्या नवे॑न॒ पूर्वं॒ दय॑माने पुरा॒णेन॒ नव॒मधा॑ता॒मूर्ज॑मू॒र्जाहु॑ती

ऊ॒र्जय॑माने॒ वसु॒ वार्या॑णि॒ यज॑मानाय शिक्षि॒ते व॑सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑

॥३०.१६॥

दे॒वा दे॑व्या॒ होता॑रा दे॒वमिन्द्र॑मवर्धताम् ।

ह॒ताघ॑शसा॒ आभा॑र्ष्टां॒ वसु॒ वार्या॑णि॒ यज॑मानाय शिक्षि॒तौ व॑सु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑

॥३०.१७॥

दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः पति॒मिन्द्र॑मवर्धयन् ।

अस्पृ॑क्ष॒द्भार॑ती॒ दिव॑ रुद्रैर्य॒ज्ञ सर॑स्व॒तीळा॒ वसु॑मती

गृ॒हान्व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑

॥३०.१८॥

दे॒व इन्द्रो॒ नरा॒शस॑स्त्रिवरू॒थस्त्रि॑बन्धु॒रो दे॒वमिन्द्र॑मवर्धयत् ।

श॒तेन॑ शितिपृ॒ष्ठाना॒माहि॑तः स॒हस्रे॑ण॒ प्र व॑र्तते मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्ह॑तो॒ बृह॒स्पति॑

स्तो॒त्रम॒श्विनाध्व॑र्यवं वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑

॥३०.१९॥

दे॒वो देवै॒र्वन॒स्पति॒र्हिर॑ण्यपर्णो॒ मधु॑शाखः सुपिप्प॒लो दे॒वमिन्द्र॑मवर्धयत् ।

दिव॒मग्रे॑णास्पृक्ष॒दान्तरि॑क्षं पृथि॒वीम॑दृहीद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑

॥३०.२०॥

दे॒वं ब॒र्हिर्वारि॑तीनां दे॒वमिन्द्र॑मवर्धयत् ।

स्वा॒स॒स्थमिन्द्रे॒णास॑न्नम॒न्या ब॒र्हीष्य॒भ्य॑भूद्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑

॥३०.२१॥

दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वमिन्द्र॑मवर्धयत् ।

स्वि॑ष्टं कु॒र्वन् त्स्वि॑ष्ट॒कृत्स्वि॑ष्टम॒द्य क॑रोतु नो वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑

॥३०.२२॥

अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मानः॒ पच॒न्पक्तीः॒ पच॑न्पुरो॒ळाशं॑ ब॒ध्नन्निन्द्रा॑य॒ च्छाग॑म् ।

सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभव॒दिन्द्रा॑य॒ च्छागे॑न ।

अघ॒त्तं मे॑द॒स्तः प्रति॑ पच॒ताग्र॑भी॒दवी॑वृधत्पुरो॒ळाशे॑न ।त्वाम॒द्य ऋ॑षे

॥३०.२३॥

होता॑ यक्षत्समिधा॒नं म॒हद्यशः॒ सुस॑मिद्धं॒ वरे॑ण्यम॒ग्निमिन्द्रं॑ वयो॒धस॑म् ।

गा॒य॒त्रीं छन्द॑ इन्द्रि॒यं त्र्यविं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.२४॥

होता॑ यक्ष॒त्तनू॒नपा॑तमु॒द्भिदं॒ यं गर्भ॒मदि॑तिर्द॒धे शुचि॒मिन्द्रं॑ वयो॒धस॑म् ।

उ॒ष्णिहं॒ छन्द॑ इन्द्रि॒यं दि॑त्य॒वाहं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.२५॥

होता॑ यक्षदी॒ळेन्य॑मीळि॒तं वृ॑त्र॒हन्त॑म॒मिळा॑भि॒रीड्य॒ सहः॒ सोम॒मिन्द्रं॑ वयो॒धस॑म् ।

अ॒नु॒ष्टुभं॒ छन्द॑ इन्द्रि॒यं पञ्चा॑विं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.२६॥

होता॑ यक्षत्सुब॒र्हिषं॑ पूष॒ण्वन्त॒मम॑र्त्य॒ सीद॑न्तं ब॒र्हिषि॑ प्रि॒ये॒ऽमृतेन्द्रं॑ वयो॒धस॑म् ।

बृ॒ह॒तीं छन्द॑ इन्द्रि॒यं त्रि॑व॒त्सं गां व॑यो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.२७॥

होता॑ यक्ष॒द्व्यच॑स्वतीः सुप्राय॒णा ऋ॑ता॒वृधो॒ द्वारो॑ दे॒वीर्हि॑र॒ण्ययी॑र्ब्र॒ह्माण॒मिन्द्रं॑ वयो॒धस॑म् ।

प॒ङ्क्तिं छन्द॑ इ॒हेन्द्रि॒यं तु॑र्य॒वाहं॒ गां वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.२८॥

होता॑ यक्षत्सु॒पेश॑सा सुशि॒ल्पे बृ॑ह॒ती उ॒भे नक्तो॒षासा॒ न द॑र्श॒ते विश्व॒मिन्द्रं॑ वयो॒धस॑म् ।

त्रि॒ष्टुभं॒ छन्द॑ इ॒हेन्द्रि॒यं प॑ष्ठ॒वाहं॒ गां वयो॒ दध॑द्वी॒तामाज्य॑स्य॒ होत॒र्यज॑

॥३०.२९॥

होता॑ यक्ष॒त्प्रचे॑तसा दे॒वाना॑मुत्त॒मं यशो॒ होता॑रा॒ दैव्या॑ क॒वी स॒युजेन्द्रं॑ वयो॒धस॑म् ।

जग॑तीं॒ छन्द॑ इन्द्रि॒यम॑न॒ड्वाहं॒ गां वयो॒ दध॑द्वी॒तामाज्य॑स्य॒ होत॒र्यज॑

॥३०.३०॥

होता॑ यक्ष॒त्पेश॑स्वतीस्ति॒स्रो दे॒वीर्हि॑र॒ण्ययी॒र्भार॑तीर्बृह॒तीर्म॒हीः पति॒मिन्द्रं॑ वयो॒धस॑म् ।

वि॒राजं॒ छन्द॑ इ॒हेन्द्रि॒यं धे॒नुं गां न वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.३१॥

होता॑ यक्षत्सु॒रेत॑सं॒ त्वष्टा॑रं पुष्टि॒वर्ध॑न रू॒पाणि॒ बिभ्र॑तं॒ पृथ॒क् पुष्टि॒मिन्द्रं॑ वयो॒धस॑म् ।

द्वि॒पदं॒ छन्द॑ इन्द्रि॒यमु॒क्षाणं॒ गां न वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.३२॥

होता॑ यक्ष॒द्वन॒स्पति॑ शमि॒तार॑ श॒तक्र॑तु॒

हिर॑ण्यपर्णमु॒क्थिन॑ रश॒नां बिभ्र॑तं व॒शिं भग॒मिन्द्रं॑ वयो॒धस॑म् ।

क॒कुभं॒ छन्द॑ इ॒हेन्द्रि॒यं व॒शां वे॒हतं॒ गां वयो॒ दध॒द्वेत्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.३३॥

होता॑ यक्ष॒त्स्वाहा॑कृतीर॒ग्निं गृ॒हप॑तिं॒ पृथ॒ग्वरु॑णं भेष॒जं क॒विं क्ष॒त्रमिन्द्रं॑ वयो॒धस॑म् ।

अति॑च्छन्दसं॒ छन्द॑ इन्द्रि॒यं बृ॒हदृ॑ष॒भं गां वयो॒ दध॒द्व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑

॥३०.३४॥

दे॒वं ब॒र्हिर्व॑यो॒धसं॑ दे॒वमिन्द्र॑मवर्धयत् ।

गा॒य॒त्र्या छन्द॑सेन्द्रि॒यं चक्षु॒रिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑

॥३०.३५॥

दे॒वीर्द्वारो॑ वयो॒धस॒ शुचि॒मिन्द्र॑मवर्धयन् ।

उ॒ष्णिहा॒ छन्द॑सेन्द्रि॒यं प्रा॒णमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑

॥३०.३६॥

दे॒वी उ॒षासा॒नक्ता॑ दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वी दे॒वम॑वर्धताम् ।

अ॒नु॒ष्टुभा॒ छन्द॑सेन्द्रि॒यं बल॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑

॥३०.३७॥

दे॒वी जोष्ट्री॒ वसु॑धिती दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वी दे॒वम॑वर्धताम् ।

बृ॒ह॒त्या छन्द॑सेन्द्रि॒य श्रोत्र॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑

॥३०.३८॥

दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे॒ पय॒सेन्द्रं॑ वयो॒धसं॑ दे॒वी दे॒वम॑वर्धताम् ।

प॒ङ्क्त्या छन्द॑सेन्द्रि॒य शु॒क्रमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑

॥३०.३९॥

दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वौ दे॒वम॑वर्धताम् ।

त्रि॒ष्टुभा॒ छन्द॑सेन्द्रि॒यं त्विषि॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑

॥३०.४०॥

दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीर्व॑यो॒धसं॒ पति॒मिन्द्र॑मवर्धयन् ।

जग॑त्या॒ छन्द॑सेन्द्रि॒य शूष॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑

॥३०.४१॥

दे॒वो नरा॒शसो॑ दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वो दे॒वम॑वर्धयत् ।

वि॒राजा॒ छन्द॑सेन्द्रि॒य रु॒पमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑

॥३०.४२॥

दे॒वो वन॒स्पति॑र्दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वो दे॒वम॑वर्धयत् ।

द्वि॒पदा॒ छन्द॑सेन्द्रि॒यं भग॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑

॥३०.४३॥

दे॒वं ब॒र्हिर्वारि॑तीनां दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वं दे॒वम॑वर्धयत् ।

क॒कुभा॒ छन्द॑सेन्द्रि॒यं यश॒ इन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑

॥३०.४४॥

दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वो दे॒वम॑वर्धयत् ।

अति॑च्छन्दसा॒ छन्द॑सेन्द्रि॒यं क्ष॒त्रमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑

॥३०.४५॥

अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मानः॒ पच॒न्पक्तीः॒ पच॑न्पुरो॒ळाशं॑ ब॒ध्नन्निन्द्रा॑य वयो॒धसे॒ छाग॑म् ।

सू॒प॒स्था अ॒द्य दे॒वो वन॒स्पति॑रभव॒दिन्द्रा॑य वयो॒धसे॒ छागे॑न ।

अघ॒त्तं मे॑द॒स्तः प्रति॑पच॒ताग्र॑भी॒दवी॑वृधत्पुरो॒ळाशे॑न । त्वाम॒द्य ऋ॑षे

॥३०.४६॥