skipLink.label

वाजसनेयी संहिता (काण्व) — नवविंशोऽध्यायः (50 मन्त्राः)

नवविंशोऽध्यायः

अथैकोनत्रिंशोऽध्यायः।

समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु संवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या ।

सं दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिश॒श्चत॑स्रः

॥२९.१॥

सं चे॒ध्यस्वा॑ग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौ॑भगाय ।

मा च॑ रिषदुपस॒त्ता ते॑ अग्ने ब्र॒ह्माण॑स्ते य॒शसः॑ सन्तु॒ मान्ये

॥२९.२॥

त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने सं॒वर॑णे भवा नः ।

स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे गये॑ जागृ॒ह्यप्र॑युच्छन्

॥२९.३॥

इ॒हैवाग्ने॒ अधि॑ धारया र॒यिं मा त्वा॒ नि क्र॑न्पूर्व॒चितो॑ निका॒रिणः॑ ।

क्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतां ते॒ अनि॑ष्टृतः

॥२९.४॥

क्ष॒त्रेणा॑ग्ने॒ स्वायुः॒ सृ र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धेये॑ यतस्व ।

स॒जा॒तानां॑ मध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॑ दीदिही॒ह

॥२९.५॥

अति॒ निहो॒ अति॒ स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने ।

विश्वा॒ ह्य॑ग्ने दुरि॒ता सह॒स्वाथा॒स्मभ्य॑ृ स॒हवी॑रृ र॒यिं दाः॑

॥२९.६॥

अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ अनि॑ष्टृतो वि॒राळ॑ग्ने क्षत्र॒भृद्दी॑दिही॒ह ।

विश्वा॒ आशाः॑ प्रमु॒ञ्चन्मानु॑षीर्भि॒यः शि॒वाभि॑र॒द्य परि॑ पाहि नो वृ॒धे

॥२९.७॥

बृह॑स्पते सवितर्बो॒धयै॑न॒ृ सृशि॑तं चित्संत॒राृ सृ शि॑शाधि ।

व॒र्धयै॑नं मह॒ते सौ॑भगाय॒ विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः

॥२९.८॥

अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः ।

प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः

॥२९.९॥

उद्व॒यं तम॑स॒स्परि॒ स्वः॒ पश्य॑न्त॒ उत्त॑रम् ।

दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्

॥२९.१०॥

ऊ॒र्ध्वा अ॑स्य स॒मिधो॑ भवन्त्यू॒र्ध्वा शु॒क्रा शो॒चीृष्य॒ग्नेः । द्यु॒मत्त॑मा सु॒प्रती॑कस्य सू॒नोः

॥२९.११॥

तनू॒नपा॒दसु॑रो वि॒श्ववे॑दा दे॒वो दे॒वेषु॑ दे॒वः । प॒थो अ॑नक्तु॒ मध्वा॑ घृ॒तेन॑

॥२९.१२॥

मध्वा॑ य॒ज्ञं न॑क्षसे प्रीणा॒नो नरा॒शृसो॑ अग्ने । सु॒कृद्दे॒वः स॑वि॒ता वि॒श्ववा॑रः

॥२९.१३॥

अच्छा॒यमे॑ति॒ शव॑सा घृ॒तेने॑ळा॒नो वह्नि॒र्नम॑सा । अ॒ग्निृ स्रुचो॑ अध्व॒रेषु॑ प्र॒यत्सु॑

॥२९.१४॥

स य॑क्षदस्य महि॒मान॑म॒ग्नेः स ईं॑ म॒न्द्रा सु॑प्र॒यसः॑ । वसु॒श्चेति॑ष्ठो वसु॒धात॑मश्च

॥२९.१५॥

द्वारो॑ दे॒वीरन्व॑स्य॒ विश्वे॑ व्र॒ता द॑दन्ते अ॒ग्नेः । उ॒रु॒व्यच॑सो॒ धाम्ना॒ पत्य॑मानाः

॥२९.१६॥

ते अ॑स्य॒ योष॑णे दि॒व्ये न योना॑ उ॒षासा॒नक्ता॑ । इ॒मं य॒ज्ञमव॑तामध्व॒रं नः॑

॥२९.१७॥

दैव्या॑ होतारा ऊ॒र्ध्वम॑ध्व॒रं नो॒ऽग्नेर्जि॒ह्वाम॒भि गृ॑णीतम् । कृ॒णु॒तं नः॒ स्वि॑ष्टिम्

॥२९.१८॥

ति॒स्रो दे॒वीर्ब॒र्हिरेदृ स॑द॒न्त्विळा॒ सर॑स्वती॒ भार॑ती । म॒ही गृ॑णा॒ना

॥२९.१९॥

तन्न॑स्तु॒रीप॒मद्भु॑तं पुरु॒क्षु त्वष्टा॑ सु॒वीर॑म् । रा॒यस्पोषं॒ वि ष्य॑तु॒ नाभि॑म॒स्मे

॥२९.२०॥

वन॑स्प॒तेऽव॑ सृजा॒ ररा॑ण॒स्त्मना॑ दे॒वेषु॑ । अ॒ग्निर्ह॒व्यृ श॑मि॒ता सू॑दयाति

॥२९.२१॥

अग्ने॒ स्वाहा॑ कृणुहि जातवेद॒ इन्द्रा॑य ह॒व्यम् ।

विश्वे॑ दे॒वा ह॒विरि॒दं जु॑षन्ताम्

॥२९.२२॥

पीवो॑ अन्ना रयि॒वृधः॑ सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः ।

ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः

॥२९.२३॥

रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् ।

अध॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वा उ॒त श्वे॒तं वसु॑धितिं निरे॒के

॥२९.२४॥

वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः सा॒कं ग॒न्मन॑सा य॒ज्ञम् ।

शि॒वो नि॒युद्भिः॑ शि॒वाभिः॑

॥२९.२५॥

प्र याभि॒र्यासि॑ दा॒श्वाृस॒मच्छा॑ नि॒युद्भि॑र्वाय इ॒ष्टये॑ दुरो॒णे ।

नि नो॑ र॒यिृ सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं॑ च॒ राधः॑

॥२९.२६॥

वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि । नि॒युत्वा॒न्त्सोम॑पीतये

॥२९.२७॥

एक॑या च द॒शभि॑श्च स्वभूते॒ द्वाभ्या॑मि॒ष्टये॑ विृश॒ती च॑ ।

ति॒सृभि॑श्च॒ वह॑से त्रि॒ृशता॑ च नि॒युद्भि॑र्वाय इ॒ह ता वि मु॑ञ्च

॥२९.२८॥

नि॒युत्वा॑न्वाय॒ आ ग॑ह्य॒यृ शु॒क्रो अ॑यामि ते । गन्ता॑सि सुन्व॒तो गृ॒हम्

॥२९.२९॥

वायो॑ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु ।

आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता

॥२९.३०॥

आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रृ स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।

वायो॑ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः

॥२९.३१॥

तव॑ वाय ऋतस्पते॒ त्वष्टु॑र्जामातरद्भुत । अवा॒ृस्या वृ॑णीमहे

॥२९.३२॥

हि॒र॒ण्य॒ग॒र्भ इत्ये॒षः । येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळहा येन॒ स्व॑ स्तभि॒तं येन॒ नाकः॑ ।

यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम

॥२९.३३॥

यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने ।

यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम

॥२९.३४॥

आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।

ततो॑ दे॒वाना॒ृ सम॑वर्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम

॥२९.३५॥

यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् ।

यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।

मा नो॑ हिृसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिव॑ृ स॒त्यध॑र्मा ज॒जान॑ ।

यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम।

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।

यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यृ स्या॑म॒ पत॑यो रयी॒णाम्

॥२९.३६॥

अग्न॒ आयू॑ृषि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः। आ॒रे बा॑धस्व दु॒च्छुना॑म्

॥२९.३७॥

अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् । दध॑द्र॒यिं मयि॒ पोषम्

॥२९.३८॥

अ॒ग्निरृषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यम्

॥२९.३९॥

अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑। ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑

॥२९.४०॥

न त्वावाँ॑२ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते ।

अ॒श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे

॥२९.४१॥

त्वामिद्धि हवा॑महे सा॒तौ वाज॑स्य का॒रवः॑ ।

त्वां वृ॒त्रेष्वि॑न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः

॥२९.४२॥

स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो अ॑द्रिवः ।

गामश्व॑ृ र॒थ्य॑मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे॑

॥२९.४३॥

कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा॑ । कया॒ शचि॑ष्ठया वृ॒ता

॥२९.४४॥

कस्त्वा॑ स॒त्यो मदा॑नां॒ मृहि॑ष्ठो मत्स॒दन्ध॑सः । दृ॒ळहा चि॑दा॒रुजे॒ वसु॑

॥२९.४५॥

अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णाम् । श॒तं भ॑वास्यू॒तये॑

॥२९.४६॥

य॒ज्ञाय॑ज्ञा वो अ॒ग्नये॑ गि॒रागि॑रा च॒ दक्ष॑से ।

प्रप्र॑ व॒यम॒मृतं॑ जा॒तवे॑दसं प्रि॒यं मि॒त्रं न श॑ृसिषम्

॥२९.४७॥

ऊ॒र्जो नपा॑त॒ृ स हि॒नायम॑स्म॒युर्दाशे॑म ह॒व्यदा॑तये ।

भुव॒द्वाजे॑ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूना॑म्

॥२९.४८॥

सं॒व॒त्स॒रो॑ऽसि परिवत्स॒रो॑ऽसीदावत्स॒रो॑ऽसीद्वत्स॒रो॑ऽसि वत्स॒रो॑ऽसि ।

उ॒षस॑स्ते कल्पन्तामहोरा॒त्रास्ते॑ कल्पन्तामर्धमा॒सास्ते॑ कल्पन्तां॒ मासा॑स्ते कल्पन्तामृ॒तव॑स्ते

कल्पन्ताृ संवत्स॒रस्ते॑ कल्पताम्

॥२९.४९॥

प्रेत्या॒ एत्यै॒ सं चाञ्च॒ प्र च॑ सारय ।

सु॒प॒र्ण॒चिद॑सि॒ तया॑ दे॒वत॑याङ्गिर॒स्वद् ध्रु॒वः सी॑द

॥२९.५०॥