skipLink.label

वाजसनेयी संहिता (काण्व) — अष्टाविंशोऽध्यायः (14 मन्त्राः)

अष्टाविंशोऽध्यायः

अथाष्टाविंशोऽध्यायः ।

अ॒ग्निश्च॑ पृथि॒वी च॒ संन॑ते॒ ते मे॒ सं न॑मताम॒दो वा॒युश्चा॒ऽन्तरि॑क्षं च॒ संन॑ते॒ ते मे॒ सं न॑मताम॒द

आ॑दि॒त्यश्च॒ द्यौ॑श्च॒ संन॑ते॒ ते मे॒ सं न॑मताम॒द आप॑श्च॒ वरु॑णश्च॒ संन॑ते॒ ते मे॒ सं न॑मताम॒दः ।

स॒प्त स॒सदो॑ अष्ट॒मी भू॑त॒साध॑नी

॥२८.१॥

सका॑माँ॒२ अध्व॑नस्कुरु सं॒ज्ञान॑मस्तु मे॒ऽमुना॑ ।

यथे॒मां वाचं॑ कल्या॒णीमा॒वदा॑नि॒ जने॑भ्यः

॥२८.२॥

ब्र॒ह्म॒रा॒ज॒न्या॑भ्या शू॒द्राय॒ चार्या॑य च॒ स्वाय॒ चार॑णाय च ।

प्रि॒यो दे॒वानां॒ दक्षि॑णायै दा॒तुरि॒ह भू॑यासम॒यं मे॒ कामः॒ समृ॑ध्यता॒मुप॑ मा॒दो न॑मतु

॥२८.३॥

बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द् द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।

यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ।

उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पत॑ये त्वै॒ष ते॒ योनि॒र्बृह॒स्पत॑ये त्वा

॥२८.४॥

इन्द्र॒ गोम॑न्नि॒हा या॑हि॒ पिबा॒ सोम॑ शतक्रतो । वि॒द्यद्भि॒र्ग्राव॑भिः सु॒तम् ।

उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ गोम॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ गोम॑ते

॥२८.५॥

ऋ॒तावा॑नं वैश्वान॒रमृ॒तस्य॒ ज्योति॑ष॒स्पति॑म् । अज॑स्रं घ॒र्ममी॑महे ।

उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा

॥२८.६॥

वै॒श्वा॒न॒र ह॑वामह ऋ॒तस्य॒ ज्योति॑ष॒स्पति॑म् । अज॑स्रं घ॒र्ममी॑महे ।

उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा

॥२८.७॥

वै॒श्वा॒न॒रो न॑ ऊ॒तय॒ आ प्र या॑तु परा॒वतः॑ । अ॒ग्निरु॒क्थेन॒ वाह॑सा ।

उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा

॥२८.८॥

वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या॑म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः ।

इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वन॒रो य॑तते॒ सूर्ये॑ण।

उ॒प॒या॒मगृ॑हीतोऽसि वैश्वान॒राय॑ त्वै॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा

॥२८.९॥

म॒रुत्वाँ॑२ इन्द्र वृष॒भो रणा॑य॒ पिबा॒ सोम॑मनुष्व॒धं मदा॑य ।

आसि॑ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्व राजा॑सि॒ प्रति॑पत्सु॒ताना॑म् ।

उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते

॥२८.१०॥

म॒हाँ२ इन्द्रो॒ वज्र॑हस्तः षोळ॒शी शर्म॑ यच्छतु । हन्तु॑ पा॒प्मानं॒ यो॒ऽस्मान्द्वेष्टि॑ ।

उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोळ॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोळ॒शिने॑

॥२८.११॥

अ॒ग्निरृषिः॒ पव॑मानः॒ पाञ्च॑जन्यः पु॒रोहि॑तः । तमी॑महे महाग॒यम्

॥२८.१२॥

अनु॑ वी॒रैरनु॑ पुष्यास्म॒ गोभि॒रन्वश्वै॒रनु॒ सर्वे॑ण पु॒ष्टैः ।

अनु॒ द्विप॒दानु॒ चतु॑ष्पदा व॒यं दे॒वा नो॑ य॒ज्ञमृ॑तु॒था न॑यन्तु

॥२८.१३॥

आ नो॑ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्य॑ स॒नयो॑ यन्तु॒ वाजाः॑ ।

दि॒वक्षा॑ असि वृषभ स॒त्यशु॑ष्मो॒ऽस्मभ्य॒ सुम॑घवन् बोधि गो॒दाः

॥२८.१४॥