skipLink.label

वाजसनेयी संहिता (काण्व) — तृतीयोऽध्यायः (76 मन्त्राः)

तृतीयोऽध्यायः

अथ तृतीयोऽध्यायः।

स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आस्मि॑न् ह॒व्या जु॑होतन

॥३.१॥

सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन । अ॒ग्नये॑ जा॒तवे॑दसे

॥३.२॥

तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि । बृ॒हछो॑चा यविष्ट्य

॥३.३॥

उप॑ त्वाग्ने ह॒विष्म॑तीर्घृ॒ताची॑र्यन्तु हर्यत । जु॒षस्व॑ स॒मिधो॒ मम॑

॥३.४॥

भूर्भुवः॒ स्व॒र्द्यौरि॑व भू॒म्ना भूमि॑रिव वरि॒म्णा ।

तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठे॒ग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे

॥३.५॥

आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्वः॑

॥३.६॥

अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती । व्य॑ख्यन् महि॒षो दिव॑म्

॥३.७॥

त्रि॒ शद्धाम॒ विरा॑जति॒ वाक् प॑त॒ङ्गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभिः॑

॥३.८॥

अ॒ग्निर्ज्यो॑तिषं त्वा वायु॒मतीं॑ प्रा॒णव॑तीम्। स्व॒र्ग्या॑स्व॒र्गायोप॑दधामि॒ भास्व॑तीम्।

अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॑

॥३.९॥

सूर्य॑ ज्योतिषं त्वा वायु॒मतीं॑ प्रा॒णव॑तीम्। स्व॒र्ग्या॑स्व॒र्गायोप॑दधामि॒ भास्व॑तीम्।

सूर्यो॒ ज्योति॒र्ज्योतिः॒ सूर्यः॒ स्वाहा॑

॥३.१०॥

स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जू रात्र्येन्द्र॑वत्या । जु॒षा॒णो अ॒ग्निर्वे॑तु॒ स्वाहा॑

॥३.११॥

स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जूरु॒षसेन्द्र॑वत्या । जु॒षा॒णः सूर्यो॑ वेतु॒ स्वाहा॑

॥३.१२॥

इ॒ह पुष्टिं॒ पुष्टि॑पतिर्दधात्वि॒ह प्र॒जा र॑मयतु प्र॒जाप॑तिः। अ॒ग्नये॑ गृ॒हप॑तये रयि॒मते॒ पुष्टि॑पतये॒ स्वाहा॑।

अ॒ग्नये॑ऽन्ना॒दायान्न॑पतये॒ स्वाहा॑

॥३.१३॥

अ॒न॒मि॒त्रं मे॑ अध॒राग॑नमि॒त्रमुद॑क्कृधि । इन्द्रा॑नमि॒त्रं प॒श्चान्मे॑नमि॒त्रं पु॒रस्कृ॑धि

॥३.१४॥

इन्द्रः॑ प॒श्चादिन्द्रः॑ पु॒रस्ता॒दिन्द्रो॑ अ॒स्माँ३ अ॒भिपा॑तु वि॒श्वतः॑।

इन्द्रो॒ जिघा॑सतां॒ मना॑सि विषू॒चीना॒ व्य॑स्यतात्

॥३.१५॥

स॒मिद॑सि॒ समि॑द्धो मे अग्ने दीदिहि । स॒मे॒द्धा ते॑ अग्ने दीद्यासम्

॥३.१६॥

उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ । आ॒रे अ॒स्मे च॑ शृण्व॒ते

॥३.१७॥

अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पा रेता॑सि जिन्वति

॥३.१८॥

उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ ।

उ॒भा दा॒तारा॑ इ॒षा र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम्

॥३.१९॥

अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।

तं जा॒नन्न॑ग्न॒ आरो॒हाथा॑ नो वर्धया र॒यिम्

॥३.२०॥

अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ ।

यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं वि॒शेवि॑शे

॥३.२१॥

अ॒स्य प्र॒त्नामनु॒ द्युत॑ शु॒क्रं दु॑दुह्रे॒ अह्र॑यः । पयः॑ सहस्र॒सामृषि॑म्

॥३.२२॥

त॒नू॒पा अ॑ग्नेऽसि त॒न्वं॑ मे पाह्यायु॒र्दा अ॑ग्ने॒ऽस्यायु॑र्मे देहि । व॒र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि

॥३.२३॥

अग्ने॒ यन्मे॑ त॒न्वा॑ ऊ॒नं तन्म॒ आपृ॑ण । इन्धा॑नास्त्वा श॒त हिमा॑ द्यु॒मन्त॒ समि॑धीमहि

॥३.२४॥

वय॑स्वन्तो वय॒स्कृत॒ सह॑स्वन्तः सह॒स्कृत॑म् । अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा॑भ्यम्

॥३.२५॥

चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शीय । सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सागथाः॒ समृषी॑णा स्तु॒तेन॑

॥३.२६॥

सं प्रि॒येण॒ धाम्ना॒ सम॒हमायु॑षा॒ सं वर्च॑सा॒ सं प्र॒जया॒ स रा॒यस्पोषे॑ण ग्मिषीय ।

अन्ध॒ स्थान्धो॑ वो भक्षीय॒ मह॑ स्थ॒ महो॑ वो भक्षीय

॥३.२७॥

ऊर्ज॒ स्थोर्जं॑ वो भक्षीय रा॒यस्पोष॑ स्थ रा॒यस्पोषं॑ वो भक्षीय ।

रेव॑ती॒ रम॑ध्वम॒स्मिन् योना॑ अ॒स्मिन् गोष्ठे॒ऽस्मिन् क्षये॒ऽस्मिँल्लो॒के॒

॥३.२८॥

इ॒हैव स्ते॒तो माप॑गात । स॒ हि॒तासि॑ विश्वरू॒प्यू॒र्जा मावि॑श गौप॒त्येन॑

॥३.२९॥

उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् । नमो॒ भर॑न्त॒ एम॑सि

॥३.३०॥

राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मान॒ स्वे दमे॑

॥३.३१॥

स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये॑

॥३.३२॥

अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः॑ । वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा॑ नक्षि द्यु॒मत्त॑म र॒यिं दाः॑

॥३.३३॥

तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ।

स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः सम॑स्मात्

॥३.३४॥

इळ॒ एह्यदि॑त॒ एहि॑ काम्या॒ एहि॑ । मयि॑ वः काम॒धर॑णं भूयात्

॥३.३५॥

सो॒मान॒ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जः

॥३.३६॥

यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित् पु॑ष्टि॒वर्ध॑नः । स नः॑ सिषक्तु॒ यस्तु॒रः

॥३.३७॥

मा नः॒ श सो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य । रक्षा॑ णो ब्रह्मणस्पते

॥३.३८॥

महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः । दु॒रा॒धर्षं॒ वरु॑णस्य

॥३.३९॥

न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ । ईशे॑ रि॒पुर॒घश॑ सः

॥३.४०॥

ते हि पु॒त्रासो॒ अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य । ज्योति॒र्यच्छ॒न्त्यज॑स्रम्

॥३.४१॥

क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ ।

उ॒पोपेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते

॥३.४२॥

तत् स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचो॒दया॑त्

॥३.४३॥

परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ३ अ॑श्नोतु वि॒श्वतः॑ । येन॒ रक्ष॑सि दा॒शुषः॑ ।।

समि॑द्धो मा॒सम॑र्धय प्र॒जया॑ च॒ धने॑न च

॥३.४४॥

भूर्भुवः॒ स्वः॑ सुप्र॒जाः प्र॒जया॑ भूयासम् । सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑

॥३.४५॥

नर्य॑ प्र॒जां मे॑ पाहि॒ शस्य॑ प॒शून् मे॑ पाहि । आग॑न्म वि॒श्ववे॑दसम॒स्मभ्यं॑ वसु॒वित्त॑मम्

॥३.४६॥

अग्ने॑ सम्राळ॒भि द्यु॒म्नम॒भि सह॒ आय॑च्छस्व । अ॒यम॒ग्निर्गृ॒हप॑ति॒र्गार्ह॑पत्यः प्र॒जावान्वसु॒वित्त॑म

॥३.४७॥

अग्ने॑ गृहपते॒ऽभि द्यु॒म्नम॒भि सह॒ आय॑च्छस्व । गृहा॒ मा बि॑भीत॒ मा वे॑पध्व॒मूर्जं॒ बिभ्र॑त॒ एम॑सि

॥३.४८॥

ऊर्जं॒ बिभ्र॑द्वः सु॒मनाः॑ सुमे॒धा गृ॒हानैमि॒ मन॑सा॒ मोद॑मानः । येषा॑म॒ध्येति॑ प्र॒वस॒न्येषु॑ सौमन॒सो ब॒हुः

॥३.४९॥

गृ॒हानुप॑ह्वयामहे॒ ते नो॑ जानन्तु जान॒तः । उप॑हूता इ॒ह गाव॒ उप॑हूता अजा॒वयः॑

॥३.५०॥

अथो॒ अन्न॑स्य की॒लाल॒ उप॑हूतो गृ॒हेषु॑ नः । क्षेमा॑य वः॒ शान्त्यै॒ प्रप॑द्ये ।

शि॒व श॒ग्म शं॒योः शं॒योः

॥३.५१॥

प्र॒घा॒सिनो॑ हवामहे म॒रुत॑श्च रि॒शाद॑सः । क॒र॒म्भेण॑ स॒जोष॑सः

॥३.५२॥

यद् ग्रामे॒ यदर॑ण्ये॒ यत्स॒भायां॒ यदि॑न्द्रि॒ये । यदेन॑श्चकृ॒मा व॒यमि॒दं तदव॑यजामहे॒ स्वाहा॑

॥३.५३॥

मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु देवै॒रस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः ।

म॒हश्चि॒द्यस्य॑ मी॒ळहुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः

॥३.५४॥

अक्र॒न् कर्म॑ कर्म॒कृतः॑ स॒ह वा॒चा म॑यो॒भुवा॑ । दे॒वेभ्यः॒ कर्म॑ कृ॒त्वास्तं॒ प्रेत॑ सचाभुवः

॥३.५५॥

अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पुणः ।

अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि

॥३.५६॥

पू॒र्णा द॑र्वि॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रा प॑त । व॒स्नेव॒ विक्री॑णावहा॒ इष॒मूर्ज शतक्रतो

॥३.५७॥

दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि ते॑ दधौ । नि॒हारं॑ निह॑रामि ते नि॒हारं॒ निह॑रासि मे॒ स्वाहा॑

॥३.५८॥

अक्ष॒न्नमी॑मदन्त॒ह्यव॑ प्रि॒या अ॑धूषत ।

अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि॑न्द्र ते॒ हरी॑

॥३.५९॥

सु॒सं॒दृशं॑ त्वा व॒यं मघ॑वन् वन्दिषी॒महि॑ । प्र नू॒नं पू॒र्णव॑न्धुर स्तु॒तो या॑सि॒ वशाँ॒३ अनु॒ योजा॒ न्वि॑न्द्र ते॒ हरी॑

॥३.६०॥

मनो॒ न्वाहु॑वामहे नाराश॒सेन॒ स्तोमे॑न । पि॒तॄ॒णां च॒ मन्म॑भिः

॥३.६१॥

आ न॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑ । ज्योक् च॒ सूर्यं॑ दृ॒शे

॥३.६२॥

पुन॑र्नः पितरो॒ मनो॒ ददा॑तु दैव्यो॒ जनः॑ । जी॒वं व्रात॑ सचेमहि

॥३.६३॥

व॒यँ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तः सचेमहि

॥३.६४॥

ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व॒ स्वाहा॑ । ए॒ष ते॑ रुद्र भा॒ग आ॒खुस्ते॑ प॒शुः

॥३.६५॥

अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् ।

यथा॑ नो॒ वस्य॑स॒स्कर॒द्यथा॑ नः॒ श्रेय॑स॒स्कर॒द्यद्यथा॑ नो व्यवसा॒यया॑त्

॥३.६६॥

भे॒ष॒जम॑सि भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जम् । सु॒गं मे॒षाय॑ मे॒ष्यै

॥३.६७॥

त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त्

॥३.६८॥

त्र्य॑म्बकं यजामहे सुग॒न्धिं प॑ति॒वेद॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुतः॑

॥३.६९॥

ए॒तेन॑ रुद्राव॒सेन॑ प॒रो मूज॑व॒तोऽती॑हि ।

अव॑ततधन्वा॒ पिना॑कावसः॒ कृत्ति॑वासा॒ अहि॑सन्नः शि॒वः शान्तोऽती॑हि

॥३.७०॥

वा॒जिनां॒ वाजो॑ऽवतु भ॒क्षो अस्मान् रेतः॑ सि॒क्तम॒मृतं॒ बला॑य।

विश्वे॑ दे॒वा अ॒भि यत् सं॑बभू॒वुस्तन्मा॑ धिनोतु प्र॒जया॒ धने॑न

॥३.७१॥

वा॒ज्य॒हं वाजिन॒स्यो॑पहूत॒ उप॑हूतस्य भक्षयामि। वाजे॑ वा॒जी भूयासम्

॥३.७२॥

स॒वि॒त्रा प्रसू॑ता॒ दैव्य॒ आप॑ उ॑दन्तु ते त॒नूम्। दी॒र्घा॒यु॒त्वाय॒ वर्चसे

॥३.७३॥

क॒श्यप॑स्य त्र्यायु॒षं ज॒मद॑ग्नेस्त्र्यायु॒षम् । यद्दे॒वानां॑ त्र्यायु॒षं तन्मे॑ अस्तु त्र्यायु॒षम्

॥३.७४॥

येन॑ धा॒ता बृह॒स्पते॒रिन्द्र॑स्य॒ चायु॒षेऽव॑पत्।तेन॑ ते वपामि॒ ब्रह्म॑णा जी॒वात॑वे॒ जीव॑नाय

॥३.७५॥

दी॒र्घा॒यु॒त्वाय॒ बला॑य॒ वर्च॑से। सु॒प्र॒जा॒स्त्वाय॑ चासा॒ अथो॑ जीव श॒रदः॑ शतम्

॥३.७६॥