skipLink.label

वाजसनेयी संहिता (काण्व) — षष्ठोऽध्यायः (50 मन्त्राः)

षष्ठोऽध्यायः

अथ षष्ठोऽध्यायः ।

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।

आद॑दे॒ नार्य॑सी॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑कृन्तामि ।

यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः ।

दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॑ ।

शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि

॥६.१॥

अ॒ग्रे॒णीर॑सि स्वावे॒श उ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा स्थास्यति ।

दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः ।

दिव॒मग्रे॑णास्पृक्ष॒ आन्तरि॑क्षं॒ मध्ये॑नाप्राः पृथि॒वीमुप॑रेणादृहीः

॥६.२॥

या ते॒ धामा॑न्यु॒श्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यासः॑ ।

अत्राहै॒तदु॑रुगा॒यस्य॒ विष्णोः॑ पर॒मं प॒दमव॑भारि॒ भूरि॑

॥६.३॥

ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि ।

ब्रह्म॑ दृह क्ष॒त्रं दृ॒हायु॑र्दृह प्र॒जां दृ॑ह

॥६.४॥

विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा॑

॥६.५॥

तद्विष्णोः॑ पर॒मं प॒द सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वी॑व॒ चक्षु॒रात॑तम्

॥६.६॥

प॒रि॒ वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो॑ व्ययन्ताम् । परी॒मं यज॑मान॒ रायो॑ मनु॒ष्या॑णाम् ।

दि॒वः सू॒नुर॑स्ये॒ष ते॑ पृथि॒व्याँल्लो॒क आ॑र॒ण्यस्ते॑ प॒शुः

॥६.७॥

उ॒पा॒वीर॒स्युप॑ दे॒वान् दैवी॒र्विशः॒ प्रागु॑रु॒शिजो॒ वह्नि॑तमान् ।

देव॑ त्वष्ट॒र्वसु॑ रम ह॒व्या ते॑ स्वदन्ताम्

॥६.८॥

रेव॑ती॒ रम॑ध्वं॒ बृह॑स्पते धा॒रया॒ वसू॑नि ।

ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॑न॒ प्रति॑मुञ्चामि॒ धर्षा॒न् मानु॑षः

॥६.९॥

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।

अ॒ग्नीषोमा॑भ्यां॒ जुष्टं॒ नियु॑नज्मि ।

अ॒द्भ्यस्त्वौष॑धीभ्यः॒ प्रोक्षा॒म्यनु॑ त्वां मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः ।

अ॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि

॥६.१०॥

अ॒पां पे॒रुर॑स्यापो॑ दे॒वीः स॑दन्तु । स्वा॒त्तं चि॒त्सद्दे॑वह॒विः

॥६.११॥

सं ते॑ प्रा॒णो वाते॑न गच्छता॒ समङ्गा॑नि॒ यज॑त्रैः। सं यज॑मान आ॒शिषा॑

॥६.१२॥

घृ॒तेना॒क्तौ प॒शूँस्त्रा॑येथा॒ रेव॑ति॒ यज॑माने । प्रि॒यं धा आवि॑श

॥६.१३॥

उ॒रोर॒न्तरि॑क्षात्स॒जूर्दे॒वेन॒ वाते॑न । अ॒स्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒न्वा॑ भव

॥६.१४॥

वर्षो॒ वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धाः । स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा॑ । माहि॑र्भू॒र्मा पृदा॑कुः

॥६.१५॥

नम॑स्त आतानान॒र्वा प्रेहि॑ । घृ॒तस्य॑ कु॒ल्या उप॑ ऋ॒तस्य॒ पथ्या॒ उप॑

॥६.१६॥

देवी॑रापः शु॒द्धा वो॑ढ्व॒ सुप॑रिविष्टा दे॒वेषु॑ । सुप॑रिविष्टा व॒यं प॑रिवे॒ष्टारो॑ भूयास्म

॥६.१७॥

वाचं॑ ते शुन्धामि प्रा॒णं ते॑ शुन्धामि॒ चक्षु॑स्ते शुन्धामि॒ श्रोत्रं॑ ते शुन्धामि ।

नाभिं॑ ते शुन्धामि॒ मेढ्रं॑ ते शुन्धामि पा॒युं ते॑ शुन्धामि च॒रित्रा॑स्ते शुन्धामि

॥६.१८॥

मन॑स्त॒ आप्या॑यतां॒ वाक्त॒ आप्या॑यतां प्रा॒णस्त॒ आप्या॑यतां॒ चक्षु॑स्त॒ आप्या॑यता॒ श्रोत्रं॑ त॒ आप्या॑यताम् ।

यत्ते॑ क्रू॒रं यदास्थि॑तं॒ तत्त॒ आप्या॑यतां॒ तत्ते॒ निष्ठ्या॑यतां॒ तत्ते॑ शुध्यतु॒ शमहो॑भ्यः

॥६.१९॥

ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैन॑ हिसीः । रक्ष॑सां भा॒गो॑ऽसि॒ निर॑स्त॒रक्षः॑

॥६.२०॥

इ॒दम॒ह रक्षो॒ऽभिति॑ष्ठामी॒दम॒ह रक्षोऽव॑बाधे। इ॒दम॒ह रक्षो॑ऽध॒मं तमो॑ नयामि

॥६.२१॥

घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑थां॒ वायो॒ वे स्तो॒काना॑म् ।

जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु॒ स्वाहा॑ । स्वाहा॑कृते ऊ॒र्ध्वन॑भसं मारु॒तं ग॑च्छतम्

॥६.२२॥

सं ते॒ मनो॒ मन॑सा॒ सं प्रा॒णः प्रा॒णेन॑ गच्छताम् । रेळ॑स्य॒ग्निष्ट्वा॑ श्रीणा॒त्वाप॑स्त्वा॒ सम॑रिणन्

॥६.२३॥

वात॑स्य त्वा॒ ध्राज्यै॑ पू॒ष्णो रह्या॑ ऊ॒ष्मणो॑ व्यथिषत् । प्रयु॑तं॒ द्वेषः॑

॥६.२४॥

घृ॒तं घृ॑तपावानः पिबत॒ वसां॑ वसापावानः पिबत । अन्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा॑

॥६.२५॥

दिशः॑ प्र॒दिश॑ आ॒दिशो॑ वि॒दिश॑ उ॒द्दिशो॑ दि॒ग्भ्यः स्वाहा॑ ।

ऐ॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ निधी॑त ऐ॒न्द्र उ॑दा॒नो अङ्गे॑अङ्गे॒ निदी॑धे

॥६.२६॥

देव॑ त्वष्ट॒र्भूरि॑ ते॒ सस॑मेतु॒ स ल॑क्ष्मा॒ यद्विषु॑रूपं॒ भवा॑ति ।

दे॒व॒त्रा यन्त॒मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु

॥६.२७॥

स॒मु॒द्रं ग॑च्छ॒ स्वाहा॑ दे॒व स॑वि॒तारं॑ गच्छ॒ स्वाहा॑ ।

अ॒न्तरि॑क्षं गच्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॑ ।

अ॒हो॒रा॒त्रे ग॑च्छ॒ स्वाहा॒ छन्दा॑सि गच्छ॒ स्वाहा॑ ।

द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॒ सोमं॑ गच्छ॒ स्वाहा॑ ।

य॒ज्ञं ग॑च्छ॒ स्वाहा॒ नभो॑ दि॒व्यं ग॑च्छ॒ स्वाहा॑ ।

अ॒ग्निं वै॑श्वान॒रं ग॑च्छ॒ स्वाहा॒ मनो॑ मे॒ हार्द्य॑च्छ

॥६.२८॥

दिवं॑ ते धू॒मो ग॑च्छ॒त्व॒न्तरि॑क्षं॒ ज्योतिः॑ । पृथि॒वीं भस्म॒नापृ॑ण॒ स्वाहा॑

॥६.२९॥

मापो मौष॑धीर्हिसी॒र्धाम्नो॑धाम्नो राज॒स्ततो॑ वरुण नो मुञ्च ।

यदा॒हुर॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च

॥६.३०॥

सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु।

यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः

॥६.३१॥

इ॒दमा॑पः॒ प्रव॑हत॒ यत्किं च॑ दुरि॒तं मयि॑।

यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम्

॥६.३२॥

ह॒विष्म॑तीरि॒मा आपो॑ ह॒विष्माँ॒३ आवि॑वासति ।

ह॒विष्मा॑न् दे॒वो अ॑ध्व॒रो ह॒विष्मां॑३ अस्तु॒ सूर्यः॑

॥६.३३॥

अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामि । इ॒न्द्रा॒ग्न्योर्भा॑ग॒धेयी॑ स्थ मि॒त्रावरु॑णयोर्भाग॒धेयी॑ स्थ॒।

विश्वे॑षां दे॒वानां॑ भाग॒धेयी॑ स्थ

॥६.३४॥

अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्यः॑ स॒ह । ता नो॑ हिन्वन्त्वध्व॒रम्

॥६.३५॥

हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा । ऊ॒र्ध्वो अ॑ध्व॒रं दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ

॥६.३६॥

सोम॑ राज॒न्विश्वा॒स्त्वं प्र॒जा उ॒पाव॑रोह । विश्वा॒स्त्वां प्र॒जा उ॒पाव॑रोहन्तु

॥६.३७॥

शृ॒णोत्व॒ग्निः स॒मिधा॒ ह॒वं॑ मे शृ॒ण्वन्त्वापो॑ धि॒षणा॑श्च दे॒वीः ।

श्रोता॑ ग्रावाणो वि॒दुषो॒ न य॒ज्ञ शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे॒ स्वाहा॑

॥६.३८॥

देवी॑रापो अपां नपा॒द्यो व॑ ऊ॒र्मिर्ह॑वि॒ष्यः॑ । इ॒न्द्रि॒यावा॑न् म॒दिन्त॑मः

॥६.३९॥

तं दे॒वेभ्यो॑ देव॒त्रा दा॑त शुक्र॒पेभ्यः॑ । येषां॑ भा॒ग स्थ स्वाहा॑

॥६.४०॥

कार्षि॑रसि समु॒द्रस्य॒ त्वा क्षि॑त्या॒ उन्न॑यामि । समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धीभि॒रोष॑धीः

॥६.४१॥

यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः। स यन्ता॒ शश्व॑ती॒रिषः॒ स्वाहा॑

॥६.४२॥

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।

आद॑दे॒ रावा॑सि गभी॒रमि॒मम॑ध्व॒रं कृ॒धीन्द्रा॑य सु॒षूत॑मम् ।

उ॒त्त॒मेन॑ प॒विनोर्ज॑स्वन्तं॒ मधु॑मन्तं॒ पय॑स्वन्तम् ।

नि॒ग्रा॒भ्या॑ स्थ देव॒श्रुत॑स्त॒र्पय॑त मा

॥६.४३॥

मनो॑ मे तर्पयत॒ वाचं॑ मे तर्पयत प्रा॒णं मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्रं॑ मे तर्पयत।

आ॒त्मानं॑ मे तर्पयत प्र॒जां मे॑ तर्पयत प॒शून् मे॑ तर्पयत ग॒णान्मे॑ तर्पयत ग॒णा मे॒ मा वितृ॑षन्

॥६.४४॥

इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑त॒ इन्द्रा॑य त्वादि॒त्यव॑ते ।

इन्द्रा॑य त्वाभिमाति॒घ्न्ये श्ये॒नाय॑ त्वा सोम॒भृते॑ऽग्नये॑ त्वा रायस्पोष॒दे

॥६.४५॥

यत्ते॑ सोम दि॒वि ज्योति॒र्यत्पृथि॒व्यां यदु॒रा अ॒न्तरि॑क्षे ।

तेना॒स्मै यज॑मानायो॒रु रा॒ये कृ॒ध्यधि॑ दा॒त्रे वो॑चः

॥६.४६॥

श्वा॒त्रा स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्त्ता अ॒मृत॑स्य॒ पत्नीः॑ ।

ता दे॑वीर्देव॒त्रेमं य॒ज्ञं न॑य॒तोप॑हूताः॒ सोम॑स्य पिबत

॥६.४७॥

मा भे॒र्मा संवि॑क्था॒ ऊर्जं॑ धत्स्व॒ धिष॑णे वी॒ड्वी स॒ती वी॑ळयेथा॒मूर्जं॑ दधाथाम् ।

पा॒प्मा ह॒तो न सोमः॑

॥६.४८॥

प्रागपा॒गुद॑गध॒राक्स॒र्वत॑स्त्वा॒ दिश॒ आधा॑वन्तु ।

अम्ब॒ निष्प॑र॒ सम॒रीर्वि॑दाम्

॥६.४९॥

त्वम॒ङ्ग प्रश॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् ।

न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वचः॑

॥६.५०॥