skipLink.label

वाजसनेयी संहिता (काण्व) — सप्तमोऽध्यायः (40 मन्त्राः)

सप्तमोऽध्यायः

अथ सप्तमोऽध्यायः ।

वा॒चस्पत॑ये पवस्व॒ वृष्णो॑ अ॒शुभ्यां॒ गभ॑स्तिपूतः ।

दे॒वो दे॒वेभ्यः॑ पवस्व॒ येषां॑ भा॒गोऽसि॒ मधु॑मतीर्न॒ इष॑स्कृधि

॥७.१॥

यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॑ ।

स्वाहो॒र्व॒न्तरि॑क्ष॒मन्वे॑मि॒ स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्य इन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यः

॥७.२॥

मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा स्वभवः॒ सूर्या॑य । दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्यो॒ देवा॑शो॒ यस्मै॒ त्वेळे॑ ॥

तत्स॒त्यमु॑परि॒प्लुता॑ भ॒ङ्गेन॑ ह॒तो॒सौ फट् । प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा

॥७.३॥

उ॒प॒या॒मगृ॑हीतो॑ऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि सोम॑म् । उ॒रु॒ष्य रायोवेषो॑ यजस्व

॥७.४॥

अ॒न्तस्ते॒ द्यावा॑पृथि॒वी द॑धाम्य॒न्तर्द॑धाम्यु॒र्व॒न्तरि॑क्षम् ।

स॒जूर्दे॒वेभि॒रव॑रैः॒ परै॑श्चान्तर्या॒मे म॑घवन् मादयस्व ।

स्वाहो॒र्व॒न्तरि॑क्ष॒मन्वे॑मि॒ स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्य इन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यः ।

मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा स्वभवः॒ सूर्या॑य । दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ उदा॒नाय॑ त्वा

॥७.५॥

आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार ।

उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेयं॑ वा॒यवे॑ त्वा

॥७.६॥

इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒राग॑तम् । इन्द॑वो वामु॒शन्ति॒ हि ।

उ॒प॒या॒मगृ॑हीतोऽसि वा॒यव॑ इन्द्रवा॒युभ्यां॑ त्वै॒ष ते॒ योनिः॑ स॒जोषो॑भ्यां त्वा

॥७.७॥

अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा । ममेदि॒ह श्रु॑त॒ हव॑म् ।

उ॒प॒या॒मगृ॑हीतोऽसि मि॒त्रावरु॑णाभ्यां त्वा

॥७.८॥

रा॒या व॒य स॑स॒वासो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ ।

तां धे॒नुं मि॑त्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरन्तीम् । ए॒ष ते॒ योनि॑रृता॒युभ्यां॑ त्वा

॥७.९॥

या वां॒ कशा॒ मधु॑म॒त्याश्वि॑ना सू॒नृता॑वती ।

तया॑ य॒ज्ञं मि॑मिक्षतम् ।

उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वै॒ष ते॒ योनि॒र्माध्वी॑भ्यां त्वा

॥७.१०॥

तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षद॑ स्व॒र्विद॑म् ।

प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे॒ धुनि॑मा॒शुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से । उ॒प॒या॒मगृ॑हीतोऽसि॒ शण्डा॑य त्वा

॥७.११॥

ए॒ष ते॒ योनि॑र्वी॒रतां॑ पा॒ह्यप॑मृष्टः॒ शण्डो॑ दे॒वास्त्वा॑ शुक्र॒पाः प्रण॑य॒न्त्वना॑धृष्टासि ।

सु॒वीरो॑ वी॒रान् प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम् ।

सं॒ ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या शु॒क्रः शु॒क्रशो॑चिषा॒ निर॑स्तः॒ शण्डः॑ शु॒क्रस्या॑धि॒ष्ठान॑मसि

॥७.१२॥

अच्छि॑न्नस्य ते देव सोम सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तारः॑ स्याम ।

सा प्र॑थ॒मा सस्कृ॑तिर्वि॒श्ववा॑रा॒ स प्र॑थ॒मो वरु॑णो मि॒त्रो अ॒ग्निः

॥७.१३॥

स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वास्तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होत॒ स्वाहा॑ ।

तृ॒म्पन्तु॒ होत्रा॒ मधो॒र्यत्स्वि॑ष्टँ॒ यत्सुभृ॑तं॒ यत्स्वाहा॑

॥७.१४॥

अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।

इ॒मम॒पा सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ।

उ॒प॒या॒मगृ॑हीतोऽसि॒ मर्का॑य त्वा

॥७.१५॥

मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या॑ वनु॒थो द्रव॑न्ता ।

आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्या श्री॑णीता॒दिशं॒ गभ॑स्तौ

॥७.१६॥

ए॒ष ते॒ योनिः॑ प्र॒जाः पा॒ह्यप॑मृष्टो॒ मर्को॑ दे॒वास्त्वा॑ मन्थि॒पाः प्रण॑य॒न्त्वना॑धृष्टासि ।

सु॒प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम् ।

सं॒ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या म॒न्थी म॒थिशो॑चिषा॒ निर॑स्तो॒ मर्को॑ म॒न्थिनो॑ऽधि॒ष्ठान॑मसि

॥७.१७॥

अच्छि॑न्नस्य ते देव सोम सु॒वीर्य॑स्य ददि॒तारः॑ स्याम।

सा प्र॑थ॒मा सस्कृ॑तिर्वि॒श्ववा॑रा॒ स प्र॑थ॒मो वरु॑णो मि॒त्रो अ॒ग्निः

॥७.१८॥

स प्र॑थ॒मो बृह॒स्पति॑श्चिकिस्तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होत॒ स्वाहा॑।

तृ॒म्पन्तु॒ होत्रा॒ भधो॒र्यत्स्वि॑ष्टं॒ यत्सुभृ॑तं॒ यत्स्वाहा॑

॥७.१९॥

ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ ।

अ॒प्सु॒क्षितो॑ महि॒नैका॑दश॒ स्थ ते दे॑वासो य॒ज्ञमि॒मं जु॑षध्वम्

॥७.२०॥

उ॒प॒या॒मगृ॑हीतोऽस्याग्रय॒णो॑ऽसि॒ स्वा॑ग्रयणः । पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिम्

॥७.२१॥

विष्णु॒स्त्वामि॑न्द्रि॒येण॑ पातु॒ विष्णुं॒ त्वं पा॑ह्य॒भि सव॑नानि पाहि ।

सोमः॑ पवते॒ सोमः॑ पवते॒ सोमः पवते

॥७.२२॥

अ॒स्मै ब्रह्म॑णे पवते॒ऽस्मै क्ष॒त्राय॑ पवते॒ऽस्मै सु॑न्व॒ते यज॑मानाय पवते ।

इ॒ष ऊ॒र्जे प॑वते॒ऽद्भ्य ओष॑धीभ्यः पवते॒ द्यावा॑पृथि॒वीभ्यां॑ पवते सुभू॒ताय॑ पवते ब्रह्मवर्च॒साय॑ पवते।

विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑

॥७.२३॥

उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒युवं॑ गृह्णामि ।

यत्त॑ इन्द्र बृ॒हद्व॑य॒स्तस्मै॑ त्वा॒ विष्ण॑वे त्वै॒षते॒ योनि॑रु॒क्थेभ्य॑स्त्वा

॥७.२४॥

दे॒वेभ्य॑स्त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे मि॒त्रावरु॑णाभ्यां त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे ।

इन्द्रा॑य त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑ष इन्द्रा॒ग्निभ्यां॑ त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे ।

इन्द्रा॑य त्वा देवायुवं॑ गृह्णामि य॒ज्ञस्यायु॑ष॒ इन्द्रा॒वरु॑णाभ्यां त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे ।

इन्द्रा॒बृह॒स्पति॑भ्यां त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑ष॒ इन्द्रा॒विष्णु॑भ्यां त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे

॥७.२५॥

मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निम् ।

क॒वि स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः

॥७.२६॥

उ॒प॒या॒मगृ॑हीतोऽसि ध्रु॒वो॑ऽसि ध्रु॒वक्षि॑तिर्ध्रु॒वाणां॑ ध्रु॒वत॒मोऽच्यु॑तानामच्युत॒क्षित्त॑मः ।

ए॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा

॥७.२७॥

ध्रु॒वं ध्रु॒वेण॒ मन॑सा वा॒चा सोम॒मव॑नयामि । अथा॑ न॒ इन्द्र॒ इद्विशो॑ सप॒त्नाः सम॑नस॒स्कर॑त्

॥७.२८॥

यस्ते॑ द्र॒प्स स्कन्द॑ति॒ यस्ते॑ अ॒शुर्ग्राव॑च्युतो धि॒षण॑योरु॒पस्था॑त् ।

अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृत॒ स्वाहा॑ दे॒वाना॑मु॒त्क्रम॑णमसि

॥७.२९॥

उ॒प॒या॒मगृ॑हीतोऽसि॒ मध॑वे त्वोपया॒मगृ॑हीतोऽसि॒ माध॑वाय त्वा ।

उ॒प॒या॒मगृ॑हीतोऽसि शु॒क्राय॑ त्वोपया॒मगृ॑हीतोऽसि॒ शुच॑ये त्वा ।

उ॒प॒या॒मगृ॑हीतोऽसि॒ नभ॑से त्वोपया॒मगृ॑हीतोऽसि॒ नभ॒स्या॑य त्वा ।

उ॒प॒या॒मगृ॑हीतोऽसी॒षे त्वो॑पया॒मगृ॑हीतो स्यू॒र्जे त्वा॑ ।

उ॒प॒या॒मगृ॑हीतोऽसि॒ सह॑से त्वोपया॒मगृ॑हीतोऽसि सह॒स्या॑य त्वा ।

उ॒प॒या॒मगृ॑हीतोऽसि॒ तप॑से त्वोपया॒मगृ॑हीतोऽसि तप॒स्या॑य त्वा ।

उ॒प॒या॒मगृ॑हीतोऽस्य हसस्प॒तये॑ त्वा

॥७.३०॥

इन्द्रा॑ग्नी॒ आग॑त सु॒तं गी॒र्भिर्नमो॒ वरे॑ण्यम् । अ॒स्य पा॑तं धि॒येषि॒ता ।

उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां॑ त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां॑ त्वा

॥७.३१॥

आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ।

उ॒प॒या॒मगृ॑हीतोऽस्यग्नी॒न्द्राभ्यां॑ त्वै॒ष ते॒ योनि॑रग्नी॒न्द्राभ्यां॑ त्वा

॥७.३२॥

ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वासो॑ दा॒शुषः॑ सु॒तम् ।

उ॒पया॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑

॥७.३३॥

विश्वे॑ देवास॒ आग॑त शृणु॒ता म॑ इ॒म हव॑म् । एदं ब॒र्हिर्निषी॑दत ।

उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑

॥७.३४॥

इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बं सु॒तस्य॑ ।

तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्नावि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ।

उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते

॥७.३५॥

म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्य शा॒समिन्द्र॑म् ।

वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्र स॑हो॒दामि॒ह त हु॑वेम ।

उ॒पया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते

॥७.३६॥

उ॒प॒या॒मगृ॑हीतोऽसि म॒रुतां ओज॑से त्वा

॥७.३७॥

स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।

ज॒हि शत्रू॒ रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ।

उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते

॥७.३८॥

म॒हाँ३ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः ।

अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ।

उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा

॥७.३९॥

म॒हाँ३ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॒ वृष्टि॒माँ३ इ॑व स्तोमै॑र्व॒त्सस्य॑ वावृधे ।

उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा

॥७.४०॥