skipLink.label

वाजसनेयी संहिता (काण्व) — सप्तत्रिंशोऽध्यायः (20 मन्त्राः)

सप्तत्रिंशोऽध्यायः

अथ सप्तत्रिंशोऽध्यायः।

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नारि॑रसि

॥३७.१॥

यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ ।

वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः॒ स्वाहा॑

॥३७.२॥

देवी॑ द्यावापृथिवी म॒खस्य॑ वाम॒द्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।

म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे

॥३७.३॥

देव्यो॑ वम्रियो भू॒तस्य॑ प्रथम॒जा म॒खस्य॑ वो॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।

म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ॥

॥३७.४॥

इय॒त्यग्रे॑ आसीर्म॒खस्य॑ ते॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।

म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे

॥३७.५॥

इन्द्रस्यौज॑ स्थ म॒खस्य॑ वो॒ऽद्य शिरो॑ राध्यासं देव॒यज॑ने पृथि॒व्याः ।

म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे

॥३७.६॥

प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये॑तु सू॒नृता॑ । अच्छा॑ वी॒रं नर्यं॑ प॒ङ्क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यन्तु नः ।

म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे

॥३७.७॥

म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खस्य॒ शिरो॑ऽसि ।

म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खस्य॒ शिरो॑ऽसि । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।

म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे

॥३७.८॥

अश्व॑स्य त्वा॒ वृष्णः॑ श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।

अश्व॑स्य त्वा॒ वृष्णः॑ श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।

अश्व॑स्य त्वा॒ वृष्णः॑ श॒क्ना धू॑पयामि देव॒यज॑ने पृथि॒व्याः । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।

म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे

॥३७.९॥

ऋ॒जवे॑ त्वा सा॒धवे॑ त्वा सुक्षि॒त्यै त्वा॑ । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे ।

म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे । म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णे

॥३७.१०॥

य॒माय॑ त्वा म॒खाय॑ त्वा॒ सूर्य॑स्य त्वा॒ तप॑से ।

दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु पृथि॒व्याः स॒स्पृश॑स्पाहि ।

अ॒र्चिर॑सि शो॒चिर॑सि॒ तपो॑ऽसि

॥३७.११॥

अना॑धृष्टा पु॒रस्ता॑द॒ग्नेराधि॑पत्य॒ आयु॑र्मे दाः पु॒त्रव॑ती दक्षिण॒त इन्द्र॒स्याधि॑पत्ये प्र॒जां मे॑ दाः ।

सु॒षदा॑ प॒श्चाद्दे॒वस्य॑ सवि॒तुराधि॑पत्ये॒ चक्षु॑र्मे दा॒ आश्रु॑तिरुत्तर॒तो धा॒तुराधि॑पत्ये रा॒यस्पोषं॑ मे दाः ।

विधृ॑तिरु॒परि॑ष्टा॒द् बृह॒स्पते॒राधि॑पत्य॒ ओजो॑ मे दा॒ विश्वा॑भ्यो मा ना॒ष्ट्राभ्य॑स्पाहि॒ मनो॒रश्वा॑सि

॥३७.१२॥

स्वाहा॑ म॒रुद्भिः॒ परि॑ श्रीयस्व । दि॒वः स॒स्पृश॑स्पाहि । मधु॒ मधु॒ मधु॑

॥३७.१३॥

गर्भो॑ दे॒वानां॑ पि॒ता म॑ती॒नां पतिः॑ प्र॒जाना॑म् ।

सं दे॒वो दे॒वेन॑ सवि॒त्रा ग॑त॒ स सूर्ये॑ण रोचते

॥३७.१४॥

सम॒ग्निर॒ग्निना॑ गत॒ सं दैवे॑न सवि॒त्रा स सूर्ये॑णारोचिष्ट ।

स्वाहा॒ सम॒ग्निस्तप॑सा गत॒ सं दैव्ये॑न सवि॒त्रा स सूर्ये॑णारूरुचत

॥३७.१५॥

ध॒र्ता दि॒वो वि भा॑ति॒ तप॑सस्पृथि॒व्यां ध॒र्ता दे॒वो दे॒वाना॒मम॑र्त्यस्तपो॒जाः ।

वाच॑मस्मे॒ नि य॑च्छ देवा॒युव॑म्

॥३७.१६॥

अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् ।

स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्त्ति॒ भुव॑नेष्व॒न्तः

॥३७.१७॥

विश्वा॑सां भुवां पते॒ विश्व॑स्य मनसस्पते॒ विश्व॑स्य वचसस्पते॒ सर्व॑स्य वचसस्पते ।

दे॒व॒श्रुत्त्वं दे॑व घर्म दे॒वो दे॒वान्पा॒ह्यत्र॒ प्रावी॒रनु॑ वां दे॒ववी॑तये।

मधु॒ माध्वी॑भ्यां॒ मधु॒ माधू॑चीभ्याम् ।

हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा । ऊ॒र्ध्वो अ॑ध्व॒रं दि॒वि दे॒वेषु॑ धेहि

॥३७.१८॥

पि॒ता नो॑ऽसि पि॒ता नो॑ बोधि॒ नम॑स्ते अस्तु॒ मा मा॑ हिसीः ।

त्वष्टृ॑मन्तस्त्वा सपेम पु॒त्रान्प॒शून्मयि॑ धे॒ह्यरि॑ष्टा॒ह स॒ह प॑त्या भूयासम्

॥३७.१९॥

अहः॑ के॒तुना॑ जुषता सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ।

रात्रिः॑ के॒तुना॑ जुषता सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑

॥३७.२०॥