कृष्णयजुः तैत्तिरीयसंहिता — द्वितीय काण्ड, प्रपाठक 1 (21 अनुवाकाः)
कृष्णयजुः तैत्तिरीयसंहिता — द्वितीय काण्ड, प्रपाठक 1
heading.anchorLabelद्वितीयकाण्डे प्रथमः प्रश्नः १
अनुवाकाः
heading.anchorLabel१ वा॒य॒व्यग्ग्॑ श्वे॒तमा ल॑भेत॒ भूति॑कामो वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑ वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूतिं॑ गमयति॒ भव॑त्ये॒वाति॑क्षिप्रा दे॒वतेत्या॑हुः॒ सैन॑मीश्व॒रा प्र॒दह॒ इत्ये॒तमे॒व सन्तं॑ वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत नि॒युद्वा अ॑स्य॒ धृति॑र्धृ॒त ए॒व भूति॒मुपै॒त्यप्र॑दाहाय॒ भव॑त्ये॒व २ वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत॒ ग्राम॑कामो वा॒युर्वा इ॒माः प्र॒जा न॑स्यो॒ता ने॑नीय ते वा॒युमे॒व नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑धावति॒ स ए॒वास्मै᳚ प्र॒जा न॑स्यो॒ता निय॑च्छति ग्रा॒म्ये॑व भ॑वति नि॒युत्व॑ ते भवति ध्रु॒वा ए॒वास्मा॒ अन॑पगाः करोति वा॒यवे॑ नि॒युत्व॑त॒ आ ल॑भेत प्र॒जाका॑मः प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु॒ वा ए॒तस्य॑ प्र॒जाया॒ ३ अप॑ क्रामतो॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जां न विं॒दते॑ वा॒युमे॒व नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्राणापा॒नाभ्यां᳚ प्र॒जां प्र ज॑नयति वि॒न्दते᳚ प्र॒जां वा॒यवे॑ नि॒युत्व॑त॒ आल॑भेत॒ ज्योगा॑मयावी प्रा॒णो वै वा॒युर॑पा॒नो नि॒युत्प्रा॑णापा॒नौ खलु॒ वा ए॒तस्मा॒दप॑क्रामतो॒ यस्य॒ ज्योगा॒मय॑ति वा॒युमे॒व नि॒युत्व॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ ४ धावति॒ स ए॒वास्मि॑न् प्राणापा॒नौ द॑धात्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व प्र॒जाप॑ति॒र्वा इ॒दमेक॑ आसी॒थ्सो॑ऽकामयत प्र॒जाः प॒शून्थ्सृ॑जे॒येति॒ स आ॒त्मनो॑ व॒पामुद॑क्खिद॒त् ताम॒ग्नौ प्रागृ॑ह्णा॒त् ततो॒ऽजस्तू॑प॒रः सम॑भव॒त्त२ꣳ स्वायै॑ दे॒वता॑या॒ आल॑भत॒ ततो॒ वै स प्र॒जाः प॒शून॑सृजत॒ यः प्र॒जाका॑मः ५ प॒शुका॑मः॒ स्यात् स ए॒तं प्रा॑जाप॒त्यम॒जं तू॑प॒रमा ल॑भेत प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै᳚ प्र॒जां प॒शून् प्र ज॑नयति॒ यच्छ्म॑श्रु॒णस्तत्पुरु॑षाणाꣳ रू॒पं यत्तू॑प॒रस्तदश्वा॑नां॒ यद॒न्यतो॑द॒न्तद्गवां॒ यदव्या॑ इव श॒फास्तदवी॑नां॒ यद॒जस्तद॒जाना॑मे॒ताव॑न्तो॒ वै ग्रा॒म्याः प॒शव॒स्तान् ६ रू॒पेणै॒वाव॑रुन्धे सोमापौ॒ष्णं त्रै॒तमा ल॑भेत प॒शुका॑मो॒ द्वौ वा अ॒जायै॒ स्तनौ॒ नानै॒व द्वाव॒भि जाये॑ते॒ ऊर्जं॒ पुष्टिं॑ तृ॒तीयः॑ सोमापू॒षणा॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ प॒शून् प्र ज॑नयतः॒ सोमो॒ वै रे॑तो॒धाः पू॒षा प॑शू॒नां प्र॑जनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति पू॒षा प॒शून् प्रज॑नय॒त्यौदुं॑बरो॒ यूपो॑ भव॒त्यूर्ग्वा उ॑दुं॒बर॒ ऊर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्जं॑ प॒शूनव॑ रुन्धे ॥२.१.१॥
अप्र॑दाहाय॒ भव॑त्ये॒व प्र॒जाया॑ आ॒मय॑ति वा॒युमे॒व नि॒युत्त्वं॑त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ प्र॒जाका॑म॒स्तान्, यूप॒स्त्रयो॑दश च ॥२.१.१॥
७ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता अ॑स्माथ्सृ॒ष्टाः परा॑चीराय॒न्ता वरु॑णमगच्छ॒न्ता अन्वै॒त्ताः पुन॑रयाचत॒ ता अस्मै॒ न पुन॑रददा॒थ्सो᳚ऽब्रवी॒द्वरं॑ वृणी॒ष्वाथ॑ मे॒ पुन॑र्दे॒हीति॒ तासां॒ वर॒माल॑भत॒ स कृ॒ष्ण एक॑शितिपादभव॒द्यो वरु॑णगृहीतः॒ स्याथ्स ए॒तं वा॑रु॒णं कृ॒ष्णमेक॑शितिपाद॒मा ल॑भेत॒ वरु॑ण ८ मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति कृ॒ष्ण एक॑शितिपाद्भवति वारु॒णो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै॒ सुव॑र्भानुरासु॒रः सूर्यं॒ तम॑साविध्य॒त् तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्य॒ यत्प्र॑थ॒मं तमो॒ऽपाघ्न॒न्थ्सा कृ॒ष्णावि॑रभव॒द्यद्द्वि॒तीय॒ꣳ॒ सा फल्गु॑नी॒ यत्तृ॒तीय॒ꣳ॒ सा ब॑ल॒क्षी यद॑ध्य॒स्थाद॒पाकृ॑न्त॒न् थ्सावि॑र्व॒शा ९ सम॑भव॒त्ते दे॒वा अ॑ब्रुवन् देवप॒शुर्वा अ॒यꣳ सम॑भू॒त्कस्मा॑ इ॒ममा ल॑प्स्यामह॒ इत्यथ॒ वैतर्ह्यल्पा॑ पृथि॒व्यासी॒दजा॑ता॒ ओष॑धय॒स्तामविं॑ व॒शामा॑दि॒त्येभ्यः॒ कामा॒याल॑भन्त॒ ततो॒ वा अप्र॑थत पृथि॒व्यजा॑य॒न्तौष॑धयो॒ यः का॒मये॑त॒ प्रथे॑य प॒शुभिः॒ प्र प्र॒जया॑ जाये॒येति॒ स ए॒तामविं॑ व॒शामा॑दि॒त्येभ्यः॒ कामा॒या १० ऽल॑भेतादि॒त्याने॒व काम॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वैनं॑ प्र॒थय॑न्ति प॒शुभिः॒ प्र प्र॒जया॑ जनयन्त्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒ता म॒ल्॒हा आल॑भन्ताग्ने॒यीं कृ॑ष्णग्री॒वीꣳ सꣳ॑हि॒तामैं॒द्रीग् श्वे॒तां बा॑र्हस्प॒त्यां ताभि॑रे॒वास्मि॒न्रुच॑मदधु॒ऱ्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒ता म॒ल्॒हा आल॑भेता ११ ऽग्ने॒यीं कृ॑ष्णग्री॒वीꣳ सꣳ॑हि॒तामैं॒द्रीग् श्वे॒तां बा॑र्हस्प॒त्यामे॒ता ए॒व दे॒वताः॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता᳚ प्रा॒तरा᳚ग्ने॒यीं कृ॑ष्णग्री॒वीमा ल॑भेत ग्री॒ष्मे म॒ध्यन्दि॑ने सꣳहि॒तामैं॒द्रीꣳ श॒रद्य॑परा॒ह्णे श्वे॒तां बा॑र्हस्प॒त्यां त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाꣳ॑सि व॒सन्ता᳚ प्रा॒तर्ग्री॒ष्मे म॒ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजाꣳ॑सि॒ तान्ये॒वा १२ ऽव॑ रुन्धे संवथ्स॒रं प॒र्याल॑भ्यन्ते संवथ्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता सं॑वथ्स॒र ए॒वास्मै᳚ ब्रह्मवर्च॒सं प्र य॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति ग॒र्भिण॑यो भवन्तींद्रि॒यं वै गर्भ॑ इंद्रि॒यमे॒वास्मि॑न्दधति सारस्व॒तीं मे॒षीमा ल॑भेत॒ य ई᳚श्व॒रो वा॒चो वदि॑तोः॒ सन्वाचं॒ न वदे॒द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्मि॒न् १३ वाचं॑ दधाति प्रवदि॒ता वा॒चो भ॑व॒त्यप॑न्नदती भवति॒ तस्मा᳚न्मनु॒ष्याः᳚ सर्वां॒ वाचं॑ वदन्त्याग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यं ब॒भ्रुं ज्योगा॑मयाव्य॒ग्निं वा ए॒तस्य॒ शरी॑रं गच्छति॒ सोम॒ꣳ॒ रसो॒ यस्य॒ ज्योगा॒मय॑त्य॒ग्नेरे॒वास्य॒ शरी॑रं निष्क्री॒णाति॒ सोमा॒द्रस॑मु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व सौ॒म्यं ब॒भ्रुमा ल॑भेताग्ने॒यं कृ॒ष्णग्री॑वं प्र॒जाका॑मः॒ सोमो॒ १४ वै रे॑तो॒धा अ॒ग्निः प्र॒जानां᳚ प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा᳚त्य॒ग्निः प्र॒जां प्र ज॑नयति वि॒न्दते᳚ प्र॒जामा᳚ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यं ब॒भ्रुं यो ब्रा᳚ह्म॒णो वि॒द्याम॒नूच्य॒ न वि॒रोचे॑त॒ यदा᳚ग्ने॒यो भव॑ति॒ तेज॑ ए॒वास्मि॒न्तेन॑ दधाति॒ यथ्सौ॒म्यो ब्र॑ह्मवर्च॒सं तेन॑ कृ॒ष्णग्री॑व आग्ने॒यो भ॑वति॒ तम॑ ए॒वास्मा॒दप॑ हन्ति श्वे॒तो भ॑वति॒ १५ रुच॑मे॒वास्मि॑न्दधाति ब॒भ्रुः सौ॒म्यो भ॑वति ब्रह्मवर्च॒समे॒वास्मि॒न् त्विषिं॑ दधात्याग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेत सौ॒म्यं ब॒भ्रुमा᳚ग्ने॒यं कृ॒ष्णग्री॑वं पुरो॒धाया॒ग्॒ स्पर्ध॑मान आग्ने॒यो वै ब्रा᳚ह्म॒णः सौ॒म्यो रा॑ज॒न्यो॑ऽभितः॑ सौ॒म्यमा᳚ग्ने॒यौ भ॑वत॒स्तेज॑सै॒व ब्रह्म॑णोभ॒यतो॑ रा॒ष्ट्रं परि॑ गृह्णात्येक॒धा स॒मावृ॑ङ्क्ते पु॒र ए॑नं दधते ॥२.१.२॥
ल॒भे॒त॒ वरु॑णं व॒शैतामविं॑ व॒शामा॑दि॒त्येभ्यः॒ कामा॑य म॒ल्॒हा आ लभे॑त॒ तान्ये॒व सैवास्मि॒न्थ्सोमः॑ श्वे॒तोभ॑वति॒ त्रिच॑त्वारिꣳ शच्च ॥२.१.२॥
१६ दे॒वा॒सु॒रा ए॒षु लो॒केष्व॑स्पर्धन्त॒ स ए॒तं विष्णु॑र्वाम॒नम॑पश्य॒त्त२ꣳ स्वायै॑ दे॒वता॑या॒ आल॑भत॒ ततो॒ वै स इ॒मान् लो॒कान॒भ्य॑जयद्वैष्ण॒वं वा॑म॒नमाल॑भेत॒ स्पर्ध॑मानो॒ विष्णु॑रे॒व भू॒त्वेमा३ꣳल्लो॒कान॒भि ज॑यति॒ विष॑म॒ आ ल॑भेत॒ विष॑मा इव॒ हीमे लो॒काः समृ॑द्ध्या॒ इंद्रा॑य मन्यु॒मते॒ मन॑स्वते ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत संग्रा॒मे १७ संय॑त्त इंद्रि॒येण॒ वै म॒न्युना॒ मन॑सा संग्रा॒मं ज॑य॒तींद्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निंद्रि॒यं म॒न्युं मनो॑ दधाति॒ जय॑ति॒ तꣳ सं॑ग्रा॒ममिंद्रा॑य म॒रुत्व॑ते पृश्निस॒क्थमा ल॑भेत॒ ग्राम॑काम॒ इंद्र॑मे॒व म॒रुत्व॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒तान् प्र य॑च्छति ग्रा॒म्ये॑व भ॑वति॒ यदृ॑ष॒भस्तेनैं॒ १८ द्रो यत्पृश्नि॒स्तेन॑ मारु॒तः समृ॑द्ध्यै प॒श्चात्पृ॑श्निस॒क्थो भ॑वति पश्चादन्ववसा॒यिनी॑मे॒वास्मै॒ विशं॑ करोति सौ॒म्यं ब॒भ्रुमा ल॑भे॒तान्न॑कामः सौ॒म्यं वा अन्न॒ꣳ॒ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्नं॒ प्रय॑च्छत्यन्ना॒द ए॒व भ॑वति ब॒भ्रुर्भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्यै सौ॒म्यं ब॒भ्रुमा ल॑भेत॒ यमलꣳ॑ १९ रा॒ज्याय॒ सन्तꣳ॑ रा॒ज्यं नोप॒नमे᳚थ्सौ॒म्यं वै रा॒ज्यꣳ सोम॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ रा॒ज्यं प्रय॑च्छ॒त्युपै॑नꣳ रा॒ज्यं न॑मति ब॒भ्रुर्भ॑वत्ये॒तद्वै सोम॑स्य रू॒पꣳ समृ॑द्ध्या॒ इंद्रा॑य वृत्र॒तुरे॑ ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत ग॒तश्रीः᳚ प्रति॒ष्ठाका॑मः पा॒प्मान॑मे॒व वृ॒त्रं ती॒र्त्वा प्र॑ति॒ष्ठां ग॑च्छ॒तींद्रा॑याभिमाति॒घ्ने ल॒लामं॑ प्राशृ॒ङ्गमा २० ल॑भेत॒ यः पा॒प्मना॑ गृही॒तः स्यात्पा॒प्मा वा अ॒भिमा॑ति॒रिंद्र॑मे॒वाभि॑माति॒हन॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा᳚त् पा॒प्मान॑म॒भिमा॑तिं॒ प्र णु॑दत॒ इंद्रा॑य व॒ज्रिणे॑ ल॒लामं॑ प्राशृ॒ङ्गमा ल॑भेत॒ यमलꣳ॑ रा॒ज्याय॒ सन्तꣳ॑ रा॒ज्यं नोप॒नमे॒दिंद्र॑मे॒व व॒ज्रिण॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒ वज्रं॒ प्रय॑च्छति॒ स ए॑नं॒ वज्रो॒ भूत्या॑ इन्ध॒ उपै॑नꣳ रा॒ज्यं न॑मति ल॒लामः॑ प्राशृ॒ङ्गो भ॑वत्ये॒तद्वै वज्र॑स्य रू॒पꣳ समृ॑द्ध्यै ॥२.१.३॥
सं॒ग्रा॒मे तेनाल॑मभिमाति॒घ्ने ल॒लामं॑ प्राशृ॒ङ्गमैनं॒ पञ्च॑दश च ॥२.१.३॥
२१ अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒तां दश॑र्षभा॒माल॑भन्त॒ तयै॒वास्मि॒न्रुच॑मदधु॒ऱ्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒तां दश॑र्षभा॒मा ल॑भेता॒मुमे॒वादि॒त्य२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति व॒सन्ता᳚ प्रा॒तस्त्री३ꣳल्ल॒लामा॒ना ल॑भेत ग्री॒ष्मे म॒ध्यन्दि॑ने॒ २२ त्रीञ्छि॑तिपृ॒ष्ठां छ॒रद्य॑परा॒ह्णे त्रीञ्छि॑ति॒वारा॒न् त्रीणि॒ वा आ॑दि॒त्यस्य॒ तेजाꣳ॑सि व॒सन्ता᳚ प्रा॒तर्ग्री॒ष्मे म॒ध्यन्दि॑ने श॒रद्य॑परा॒ह्णे याव॑न्त्ये॒व तेजाꣳ॑सि॒ तान्ये॒वाव॑ रुन्धे॒ त्रय॑स्त्रय॒ आ ल॑भ्यन्तेऽभिपू॒र्वमे॒वास्मि॒न्तेजो॑ दधाति संवथ्स॒रं प॒र्याल॑भ्यन्ते संवथ्स॒रो वै ब्र॑ह्मवर्च॒सस्य॑ प्रदा॒ता सं॑वथ्स॒र ए॒वास्मै᳚ ब्रह्मवर्च॒सं प्र य॑च्छति ब्रह्मवर्च॒स्ये॑व भ॑वति संवथ्स॒रस्य॑ प॒रस्ता᳚त्प्राजाप॒त्यं कद्रु॒ २३ मा ल॑भेत प्र॒जाप॑तिः॒ सर्वा॑ दे॒वता॑ दे॒वता᳚स्वे॒व प्रति॑तिष्ठति॒ यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्ण२ꣳ श्या॒ममा ल॑भेत सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शवः॒ स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वचं॑ करोति॒ न दु॒श्चर्मा॑ भवति दे॒वाश्च॒ वै य॒मश्चा॒स्मिन् लो॒के᳚ऽस्पर्धन्त॒ स य॒मो दे॒वाना॑मिंद्रि॒ यं वी॒र्य॑मयुवत तद्य॒मस्य॑ २४ यम॒त्वं ते दे॒वा अ॑मन्यन्त य॒मो वा इ॒दम॑भू॒द्यद्व॒य२ꣳ स्म इति॒ ते प्र॒जाप॑ति॒मुपा॑धाव॒न्थ्स ए॒तौ प्र॒जाप॑तिरा॒त्मन॑ उक्षव॒शौ निर॑मिमीत॒ ते दे॒वा वै᳚ष्णावरु॒णीं व॒शामाल॑भन्तैं॒द्रमु॒क्षाणं॒ तं वरु॑णेनै॒व ग्रा॑हयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्राणु॑दन्तैं॒द्रेणै॒वास्यें᳚द्रि॒यम॑वृञ्जत॒ यो भ्रातृ॑व्यवा॒न्थ्स्याथ्स स्पर्ध॑मानो वैष्णावरु॒णीं २५ व॒शामा ल॑भेतैं॒द्रमु॒क्षाणं॒ वरु॑णेनै॒व भ्रातृ॑व्यं ग्राहयि॒त्वा विष्णु॑ना य॒ज्ञेन॒ प्र णु॑दत ऐं॒द्रेणै॒वास्यें᳚द्रि॒यं वृ॑ङ्क्ते॒ भव॑त्या॒त्मना॒ परा᳚स्य॒ भ्रातृ॑व्यो भव॒तींद्रो॑ वृ॒त्रम॑ह॒न्तं वृ॒त्रो ह॒तः षो॑ड॒शभि॑र्भो॒गैर॑सिना॒त्तस्य॑ वृ॒त्रस्य॑ शीर्ष॒तो गाव॒ उदा॑य॒न्ता वै॑दे॒ह्यो॑ऽभव॒न्तासा॑मृष॒भो ज॒घनेऽनूदै॒त्तमिंद्रो॑ २६ ऽचाय॒थ्सो॑ऽमन्यत॒ यो वा इ॒ममा॒लभे॑त॒ मुच्ये॑ता॒स्मात् पा॒प्मन॒ इति॒ स आ᳚ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भतैं॒द्रमृ॑ष॒भं तस्या॒ग्निरे॒व स्वेन॑ भाग॒धेये॒नोप॑सृतः षोडश॒धा वृ॒त्रस्य॑ भो॒गानप्य॑दहदैं॒द्रेणें᳚द्रि॒यमा॒त्मन्न॑धत्त॒ यः पा॒प्मना॑ गृही॒तः स्याथ्स आ᳚ग्ने॒यं कृ॒ष्णग्री॑व॒मा ल॑भेतैं॒द्रमृ॑ष॒भम॒ग्निरे॒वास्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतः २७ पा॒प्मान॒मपि॑ दहत्यैं॒द्रेणें᳚द्रि॒यमा॒त्मन्ध॑त्ते॒ मुच्य॑ते पा॒प्मनो॒ भव॑त्ये॒व द्या॑वापृथि॒व्यां᳚ धे॒नुमा ल॑भेत॒ ज्योग॑परुद्धो॒ऽनयो॒र्हि वा ए॒षोऽप्र॑तिष्ठि॒तोऽथै॒ष ज्योगप॑रुद्धो॒ द्यावा॑पृथि॒वी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ते ए॒वैनं॑ प्रति॒ष्ठां ग॑मयतः॒ प्रत्ये॒वति॑ष्ठति पर्या॒रिणी॑ भवति पर्या॒रीव॒ ह्ये॑तस्य॑ रा॒ष्ट्रं यो ज्योग॑परुद्धः॒ समृ॑द्ध्यै वाय॒व्यं॑ २८ व॒थ्समा ल॑भेत वा॒युर्वा अ॒नयो᳚र्व॒थ्स इ॒मे वा ए॒तस्मै॑ लो॒का अप॑शुष्का॒ विडप॑शु॒ष्काथै॒ष ज्योगप॑रुद्धो वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॑ इ॒मा३ꣳल्लो॒कान्, विशं॒ प्र दा॑पयति॒ प्रास्मा॑ इ॒मे लो॒काः स्नु॑वन्ति भुञ्ज॒त्ये॑नं॒ विडुप॑तिष्ठ ते ॥२.१.४॥
म॒ध्यंदि॑ने॒ कद्रुं॑ य॒मस्य॒ स्पर्ध॑मानो वैष्णावरु॒णीं तमिंद्रो᳚स्य॒ स्वेन॑ भाग॒धेये॒नोप॑सृतो वाय॒व्यं॑ द्विच॑त्वारिग्ंशच्च ॥२.१.४॥
२९ इंद्रो॑ व॒लस्य॒ बिल॒मपौ᳚र्णो॒थ्स य उ॑त्त॒मः प॒शुरासी॒त्तं पृ॒ष्ठं प्रति॑ सं॒गृह्योद॑क्खिद॒त्तꣳ स॒हस्रं॑ प॒शवोऽनूदा॑य॒न्थ्स उ॑न्न॒तो॑ऽभव॒द्यः प॒शुका॑मः॒ स्याथ्स ए॒तमैं॒द्रमु॑न्न॒तमा ल॑भे॒तेंद्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शून् प्र य॑च्छति पशु॒माने॒व भ॑वत्युन्न॒तो ३० भ॑वति साह॒स्री वा ए॒षा ल॒क्ष्मी यदु॑न्न॒तो ल॒क्ष्मियै॒व प॒शूनव॑ रुन्धे य॒दा स॒हस्रं॑ प॒शून् प्रा᳚प्नु॒यादथ॑ वैष्ण॒वं वा॑म॒नमा ल॑भेतै॒तस्मि॒न्वै तथ्स॒हस्र॒मध्य॑तिष्ठ॒त्तस्मा॑दे॒ष वा॑म॒नः समी॑षितः प॒शुभ्य॑ ए॒व प्रजा॑तेभ्यः प्रति॒ष्ठां द॑धाति॒ को॑ऽर्हति स॒हस्रं॑ प॒शून् प्राप्तु॒मित्या॑हुरहोरा॒त्राण्ये॒व स॒हस्रꣳ॑ सं॒पाद्या ल॑भेत प॒शवो॒ वा ३१ अ॑होरा॒त्राणि॑ प॒शूने॒व प्रजा॑तान् प्रति॒ष्ठां ग॑मय॒त्योष॑धीभ्यो वे॒हत॒मा ल॑भेत प्र॒जाका॑म॒ ओष॑धयो॒ वा ए॒तं प्र॒जायै॒ परि॑ बाधन्ते॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जां न वि॒न्दत॒ ओष॑धयः॒ खलु॒ वा ए॒तस्यै॒ सूतु॒मपि॑ घ्नन्ति॒ या वे॒हद्भव॒त्योष॑धीरे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ता ए॒वास्मै॒ स्वाद्योनेः᳚ प्र॒जां प्र ज॑नयन्ति वि॒न्दते᳚ ३२ प्र॒जामापो॒ वा ओष॑ध॒योऽस॒त्पुरु॑ष॒ आप॑ ए॒वास्मा॒ अस॑तः॒ सद्द॑दति॒ तस्मा॑दाहु॒र्यश्चै॒वं वेद॒ यश्च॒ नाप॒स्त्वावास॑तः॒ सद्द॑द॒तीत्यैं॒द्रीꣳ सू॒तव॑शा॒मा ल॑भेत॒ भूति॑का॒मोऽजा॑तो॒ वा ए॒ष योऽलं॒भूत्यै॒ सन्भूतिं॒ न प्रा॒प्नोतींद्रं॒ खलु॒ वा ए॒षा सू॒त्वा व॒शाभ॑व॒ ३३ दिंद्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूतिं॑ गमयति॒ भव॑त्ये॒व यꣳ सू॒त्वा व॒शा स्यात्तमैं॒द्रमे॒वा ल॑भेतै॒तद्वाव तदिं॑द्रि॒यꣳ सा॒क्षादे॒वेंद्रि॒यमव॑ रुन्ध ऐंद्रा॒ग्नं पु॑नरुथ्सृ॒ष्टमा ल॑भेत॒ य आतृ॒तीया॒त्पुरु॑षा॒थ्सोमं॒ न पिबे॒द्विच्छि॑न्नो॒ वा ए॒तस्य॑ सोमपी॒थो यो ब्रा᳚ह्म॒णः सन्ना ३४ तृ॒तीया॒त् पुरु॑षा॒त् सोमं॒ न पिब॑तींद्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ सोमपी॒थं प्र य॑च्छत॒ उपै॑नꣳ सोमपी॒थो न॑मति॒ यदैं॒द्रो भव॑तींद्रि॒यं वै सो॑मपी॒थ इं॑द्रि॒यमे॒व सो॑मपी॒थमव॑ रुन्धे॒ यदा᳚ग्ने॒यो भव॑त्याग्ने॒यो वै ब्रा᳚ह्म॒णः स्वामे॒व दे॒वता॒मनु॒ संत॑नोति पुनरुथ्सृ॒ष्टो भ॑वति पुनरुथ्सृ॒ष्ट इ॑व॒ ह्ये॑तस्य॑ ३५ सोमपी॒थः समृ॑द्ध्यै ब्राह्मणस्प॒त्यं तू॑प॒रमा ल॑भेताभि॒चर॒न्ब्रह्म॑ण॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तस्मा ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति तूप॒रो भ॑वति क्षु॒रप॑वि॒र्वा ए॒षा ल॒क्ष्मी यत्तू॑प॒रः समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मयं॑ ब॒र्हिः शृ॒णात्ये॒वैनं॒ वैभी॑दक इ॒ध्मो भि॒नत्त्ये॒वैन᳚म् ॥२.१.५॥
भ॒व॒त्यु॒न्न॒तः प॒शवो॑ जनयंति विं॒दते॑भव॒थ्सन्नैतस्ये॒ध्मस्त्रीणि॑ च ॥२.१.५॥
३६ बा॒र्ह॒स्प॒त्यꣳ शि॑तिपृ॒ष्ठमा ल॑भेत॒ ग्राम॑कामो॒ यः का॒मये॑त पृ॒ष्ठꣳ स॑मा॒नानाग्॑ स्या॒मिति॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ पृ॒ष्ठꣳ स॑मा॒नानां᳚ करोति ग्रा॒म्ये॑व भ॑वति शितिपृ॒ष्ठो भ॑वति बार्हस्प॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै पौ॒ष्ण२ꣳ श्या॒ममा ल॑भे॒तान्न॑का॒मोऽन्नं॒ वै पू॒षा पू॒षण॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्नं॒ ३७ प्र य॑च्छत्यन्ना॒द ए॒व भ॑वति श्या॒मो भ॑वत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्यै मारु॒तं पृश्नि॒मा ल॑भे॒तान्न॑का॒मोऽन्नं॒ वै म॒रुतो॑ म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्र य॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ पृश्नि॑र्भवत्ये॒तद्वा अन्न॑स्य रू॒पꣳ समृ॑द्ध्या ऐं॒द्रम॑रु॒णमा ल॑भेतेंद्रि॒यका॑म॒ इंद्र॑मे॒व ३८ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निंद्रि॒यं द॑धातींद्रिया॒व्ये॑व भ॑वत्यरु॒णो भ्रूमा᳚न्भवत्ये॒तद्वा इंद्र॑स्य रू॒पꣳ समृ॑द्ध्यै सावि॒त्रमु॑पध्व॒स्तमा ल॑भेत स॒निका॑मः सवि॒ता वै प्र॑स॒वाना॑मीशे सवि॒तार॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ स॒निं प्रसु॑वति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्युपध्व॒स्तो भ॑वति सावि॒त्रो ह्ये॑ष ३९ दे॒वत॑या॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमा ल॑भे॒तान्न॑कामो वैश्वदे॒वं वा अन्नं॒ विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति बहुरू॒पो भ॑वति बहुरू॒प२ꣳ ह्यन्न॒ꣳ॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हुरू॒पमा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ ४० सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति बहुरू॒पो भ॑वति बहुदेव॒त्यो᳚ १॒ ह्ये॑ष समृ॑द्ध्यै प्राजाप॒त्यं तू॑प॒रमा ल॑भेत॒ यस्याना᳚ज्ञातमिव॒ ज्योगा॒मये᳚त्प्राजाप॒त्यो वै पुरु॑षः प्र॒जाप॑तिः॒ खलु॒ वै तस्य॑ वेद॒ यस्याना᳚ज्ञातमिव॒ ज्योगा॒मय॑ति प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ तस्मा॒थ्स्रामा᳚न्मुञ्चति तूप॒रो भ॑वति प्राजाप॒त्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ॥२.१.६॥
अ॒स्मा॒ इंद्र॑मे॒वैष स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै᳚ प्राजाप॒त्यो हि त्रीणि॑ च ॥२.१.६॥
४१ व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो᳚ऽच्छिन॒त्तस्यै॒ रसः॒ परा॑पत॒त्तं बृह॒स्पति॒रुपा॑गृह्णा॒थ्सा शि॑तिपृ॒ष्ठा व॒शाभ॑व॒द्यो द्वि॒तीयः॑ प॒राप॑त॒त्तं मि॒त्रावरु॑णा॒वुपा॑गृह्णीता॒ꣳ॒ सा द्वि॑रू॒पा व॒शाभ॑व॒द्यस्तृ॒तीयः॑ प॒राप॑त॒त्तं विश्वे॑दे॒वा उपा॑गृह्ण॒न्थ्सा ब॑हुरू॒पा व॒शा भ॑व॒द्यश्च॑तु॒र्थः प॒राप॑त॒थ्स पृ॑थि॒वीं प्रावि॑श॒त्तं बृह॒स्पति॑र॒भ्य॑ ४२ गृह्णा॒दस्त्वे॒वायं भोगा॒येति॒ स उ॑क्षव॒शः सम॑भव॒द्यल्लोहि॑तं प॒राप॑त॒त्तद्रु॒द्र उपा॑गृह्णा॒थ्सा रौ॒द्री रोहि॑णी व॒शाभ॑वद्बार्हस्प॒त्याꣳ शि॑तिपृ॒ष्ठामा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न् ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ ४३ वै ब्र॑ह्मवर्च॒सं छन्द॑सामे॒व रसे॑न॒ रसं॑ ब्रह्मवर्च॒समव॑ रुन्धे मैत्रावरु॒णीं द्वि॑रू॒पामा ल॑भेत॒ वृष्टि॑कामो मै॒त्रं वा अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्यां॒ खलु॒ वै प॒र्जन्यो॑ वर्षति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्यां᳚ प॒र्जन्यं॑ वर्षयत॒श्छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै वृष्टि॒श्छन्द॑सामे॒व रसे॑न॒ ४४ रसं॒ वृष्टि॒मव॑ रुन्धे मैत्रावरु॒णीं द्वि॑रू॒पामा ल॑भेत प्र॒जाका॑मो मै॒त्रं वा अह॑र्वारु॒णी रात्रि॑रहोरा॒त्राभ्यां॒ खलु॒ वै प्र॒जाः प्रजा॑यन्ते मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ अहोरा॒त्राभ्यां᳚ प्र॒जां प्रज॑नयत॒श्छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै प्र॒जा छन्द॑सामे॒व रसे॑न॒ रसं॑ प्र॒जामव॑ ४५ रुन्धे वैश्वदे॒वीं ब॑हुरू॒पामा ल॑भे॒तान्न॑कामो वैश्वदे॒वं वा अन्नं॒ विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्र य॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वा अन्नं॒ छन्द॑सामे॒व रसे॑न रस॒मन्न॒मव॑ रुन्धे वैश्वदे॒वीं ब॑हुरू॒पामा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै ४६ स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति॒ छन्द॑सां॒ वा ए॒ष रसो॒ यद्व॒शा रस॑ इव॒ खलु॒ वै स॑जा॒ताश्छन्द॑सामे॒व रसे॑न॒ रसꣳ॑ सजा॒तानव॑ रुन्धे बार्हस्प॒त्यमु॑क्षव॒शमा ल॑भेत ब्रह्मवर्च॒सका॑मो॒ बृह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं ४७ द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति॒ वशं॒ वा ए॒ष च॑रति॒ यदु॒क्षा वश॑ इव॒ खलु॒ वै ब्र॑ह्मवर्च॒सं वशे॑नै॒व वशं॑ ब्रह्मवर्च॒समव॑ रुन्धे रौ॒द्रीꣳ रोहि॑णी॒मा ल॑भेताभि॒चर॑न् रु॒द्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति॒ रोहि॑णी भवति रौ॒द्री ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मयं॑ ब॒र्हिः शृ॒णात्ये॒वैनं॒ वैभी॑दक इ॒ध्मो भि॒नत्त्ये॒वैन᳚म् ॥२.१.७॥
अ॒भि खलु॒ वृष्टि॒श्छंद॑सामे॒व रसे॑न॒ रसं॑ प्र॒जामव॑ वैश्वदे॒वा वै ब्र॑ह्मवर्च॒सं यूप॒ एका॒न्न विꣳ॑श॒तिश्च॑ २। १। ७॥ ४८ अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒ताꣳ सौ॒रीग् श्वे॒तां व॒शामाल॑भन्त॒ तयै॒वास्मि॒न् रुच॑मदधु॒ऱ्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒ताꣳ सौ॒रीग् श्वे॒तां व॒शामा ल॑भेता॒मुमे॒वादि॒त्य२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑वति बै॒ल्वो यूपो॑ भवत्य॒सौ ४९ वा आ॑दि॒त्यो यतोऽजा॑यत॒ ततो॑ बि॒ल्व॑ उद॑तिष्ठ॒थ्सयो᳚न्ये॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे ब्राह्मणस्प॒त्यां ब॑भ्रुक॒र्णीमा ल॑भेताभि॒ चर॑न्वारु॒णं दश॑कपालं पु॒रस्ता॒न्निर्व॑पे॒द्वरु॑णेनै॒व भ्रातृ॑व्यं ग्राहयि॒त्वा ब्रह्म॑णा स्तृणुते बभ्रुक॒र्णी भ॑वत्ये॒तद्वै ब्रह्म॑णो रू॒पꣳ समृ॑द्ध्यै॒ स्फ्यो यूपो॑ भवति॒ वज्रो॒ वै स्फ्यो वज्र॑मे॒वास्मै॒ प्र ह॑रति शर॒मयं॑ ब॒र्हिः शृ॒णा ५० त्ये॒वैनं॒ वैभी॑दक इ॒ध्मो भि॒नत्त्ये॒वैनं॑ वैष्ण॒वं वा॑म॒नमा ल॑भेत॒ यं य॒ज्ञो नोप॒नमे॒द्विष्णु॒र्वै य॒ज्ञो विष्णु॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ य॒ज्ञं प्र य॑च्छ॒त्युपै॑नं य॒ज्ञो न॑मति वाम॒नो भ॑वति वैष्ण॒वो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै त्वा॒ष्ट्रं व॑ड॒बमा ल॑भेत प॒शुका॑म॒स्त्वष्टा॒ वै प॑शू॒नां मि॑थु॒नानां᳚ ५१ प्रजनयि॒ता त्वष्टा॑रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शून्मि॑थु॒नान् प्र ज॑नयति प्र॒जा हि वा ए॒तस्मि॑न्प॒शवः॒ प्रवि॑ष्टा॒ अथै॒ष पुमा॒न्थ्सन्व॑ड॒बः सा॒क्षादे॒व प्र॒जां प॒शूनव॑ रुन्धे मै॒त्र२ꣳ श्वे॒तमा ल॑भेत संग्रा॒मे संय॑त्ते सम॒यका॑मो मि॒त्रमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ मि॒त्रेण॒ सं न॑यति ५२ विशा॒लो भ॑वति॒ व्यव॑साययत्ये॒वैनं॑ प्राजाप॒त्यं कृ॒ष्णमा ल॑भेत॒ वृष्टि॑कामः प्र॒जाप॑ति॒ र्वै वृष्ट्या॑ ईशे प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒र्जन्यं॑ वर्षयति कृ॒ष्णो भ॑वत्ये॒तद्वै वृष्ट्यै॑ रू॒पꣳ रू॒पेणै॒व वृष्टि॒मव॑ रुन्धे श॒बलो॑ भवति वि॒द्युत॑मे॒वास्मै॑ जनयि॒त्वा व॑र्षयत्यवाशृ॒ङ्गो भ॑वति॒ वृष्टि॑मे॒वास्मै॒ नि य॑च्छति ॥२.१.८॥
अ॒सौ शृ॒णाति॑ मिथु॒नानां᳚ नयति यच्छति ॥२.१.८॥
५३ वरु॑णꣳ सुषुवा॒णम॒न्नाद्यं॒ नोपा॑नम॒थ्स ए॒तां वा॑रु॒णीं कृ॒ष्णां व॒शाम॑पश्य॒त्ताग् स्वायै॑ दे॒वता॑या॒ आल॑भत॒ ततो॒ वै तम॒न्नाद्य॒मुपा॑नम॒द्यमल॑म॒न्नाद्या॑य॒ संत॑म॒न्नाद्यं॒ नोप॒नमे॒थ्स ए॒तां वा॑रु॒णीं कृ॒ष्णां व॒शामा ल॑भेत॒ वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒ अन्नं॒ प्र य॑च्छत्यन्ना॒द ५४ ए॒व भ॑वति कृ॒ष्णा भ॑वति वारु॒णी ह्ये॑षा दे॒वत॑या॒ समृ॑द्ध्यै मै॒त्र२ꣳ श्वे॒तमा ल॑भेत वारु॒णं कृ॒ष्णम॒पां चौष॑धीनां च सं॒धावन्न॑कामो मै॒त्रीर्वा ओष॑धयो वारु॒णीरापो॒ऽपां च॒ खलु॒ वा ओष॑धीनां च॒ रस॒मुप॑ जीवामो मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॒ अन्नं॒ प्र य॑च्छतोऽन्ना॒द ए॒व भ॑व ५५ त्य॒पां चौष॑धीनां च सं॒धावा ल॑भत उ॒भय॒स्याव॑रुद्ध्यै॒ विशा॑खो॒ यूपो॑ भवति॒ द्वे ह्ये॑ते दे॒वते॒ समृ॑द्ध्यै मै॒त्र२ꣳ श्वे॒तमा ल॑भेत वारु॒णं कृ॒ष्णं ज्योगा॑मयावी॒ यन्मै॒त्रो भव॑ति मि॒त्रेणै॒वास्मै॒ वरु॑णꣳ शमयति॒ यद्वा॑रु॒णः सा॒क्षादे॒वैनं॑ वरुणपा॒शान्मु॑ञ्चत्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒व दे॒वा वै पुष्टिं॒ नावि॑न्द॒न् ५६ तां मि॑थु॒ने॑ऽपश्य॒न् तस्यां॒ न सम॑राधय॒न् ताव॒श्विना॑वब्रूतामा॒वयो॒र्वा ए॒षामैतस्यां᳚ वदध्व॒मिति॒ साश्विनो॑रे॒वाभ॑व॒द्यः पुष्टि॑कामः॒ स्याथ्स ए॒तामा᳚श्वि॒नीं य॒मीं व॒शामा ल॑भेता॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒न्पुष्टिं॑ धत्तः॒ पुष्य॑ति प्र॒जया॑ प॒शुभिः॑ ॥२.१.९॥
अ॒न्ना॒दो᳚ऽन्ना॒द ए॒व भ॑वत्यविंद॒न् पंच॑चत्वारिग्ंशच्च ॥२.१.९॥
५७ आ॒श्वि॒नं धू॒म्रल॑लाम॒मा ल॑भेत॒ यो दुर्ब्रा᳚ह्मणः॒ सोमं॒ पिपा॑सेद॒श्विनौ॒ वै दे॒वाना॒मसो॑मपावास्तां॒ तौ प॒श्चा सो॑मपी॒थं प्राप्नु॑ताम॒श्विना॑वे॒तस्य॑ दे॒वता॒ यो दुर्ब्रा᳚ह्मणः॒ सोमं॒ पिपा॑सत्य॒श्विना॑वे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ सोमपी॒थं प्र य॑च्छत॒ उपै॑नꣳ सोमपी॒थो न॑मति॒ यद्धू॒म्रो भव॑ति धूम्रि॒माण॑मे॒वास्मा॒दप॑ हन्ति ल॒लामो॑ ५८ भवति मुख॒त ए॒वास्मि॒न्तेजो॑ दधाति वाय॒व्यं॑ गोमृ॒गमा ल॑भेत॒ यमज॑घ्निवाꣳ समभि॒शꣳ से॑यु॒रपू॑ता॒ वा ए॒तं वागृ॑च्छति॒ यमज॑घ्निवाꣳ समभि॒शꣳस॑न्ति॒ नैष ग्रा॒म्यः प॒शुर्नार॒ण्यो यद्गो॑मृ॒गो नेवै॒ष ग्रामे॒ नार॑ण्ये॒ यमज॑घ्निवाꣳसमभि॒शꣳस॑न्ति वा॒युर्वै दे॒वानां᳚ प॒वित्रं॑ वा॒युमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वै ५९ नं॑ पवयति॒ परा॑ची॒ वा ए॒तस्मै᳚ व्यु॒च्छन्ती॒ व्यु॑च्छति॒ तमः॑ पा॒प्मानं॒ प्र वि॑शति॒ यस्या᳚श्वि॒ने श॒स्यमा॑ने॒ सूऱ्यो॒ नाविर्भव॑ति सौ॒र्यं ब॑हुरू॒पमा ल॑भेता॒मुमे॒वादि॒त्य२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒त्तमः॑ पा॒प्मान॒मप॑ हन्ति प्र॒तीच्य॑स्मै व्यु॒च्छन्ती॒ व्यु॑च्छ॒त्यप॒ तमः॑ पा॒प्मानꣳ॑ हते ॥२.१.१०॥
ल॒लामः॒ स ए॒व षट्च॑त्वारिꣳशच्च ॥२.१.१०॥
६० इंद्रं॑ वो वि॒श्वत॒स्परींद्रं॒ नरो॒ मरु॑तो॒ यद्ध॑ वो दि॒वो या वः॒ शर्म॑ ॥ भरे॒ष्विंद्रꣳ॑ सु॒हवꣳ॑ हवामहेऽꣳ हो॒मुचꣳ॑ सु॒कृतं॒ दैव्यं॒ जन᳚म् । अ॒ग्निं मि॒त्रं वरु॑णꣳ सा॒तये॒ भगं॒ द्यावा॑पृथि॒वी म॒रुतः॑ स्व॒स्तये᳚ ॥ म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान् । शि॒शी॒तमिं॑द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ॥ प्रि॒या वो॒ नाम॑ ६१ हुवे तु॒राणा᳚म् । आयत्तृ॒पन्म॑रुतो वावशा॒नाः ॥ श्रि॒यसे॒ कंभा॒नुभिः॒ सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ । ते वाशी॑मन्त इ॒ष्मिणो॒ अभी॑रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ॥ अ॒ग्निः प्र॑थ॒मो वसु॑भिर्नो अव्या॒थ्सोमो॑ रु॒द्रेभि॑र॒भि र॑क्षतु॒ त्मना᳚ । इंद्रो॑ म॒रुद्भि॑रृतु॒धा कृ॑णोत्वादि॒त्यैर्नो॒ वरु॑णः॒ सꣳ शि॑शातु ॥ सं नो॑ दे॒वो वसु॑भिर॒ग्निः सꣳ ६२ सोम॑स्त॒नूभी॑ रु॒द्रिया॑भिः । समिंद्रो॑ म॒रुद्भि॑र्य॒ज्ञियैः॒ समा॑दि॒त्यैर्नो॒ वरु॑णो अजिज्ञिपत् ॥ यथा॑दि॒त्या वसु॑भिः संबभू॒वुर्म॒रुद्भी॑ रु॒द्राः स॒मजा॑नता॒भि । ए॒वा त्रि॑णाम॒न्नहृ॑णीयमाना॒ विश्वे॑ दे॒वाः सम॑नसो भवंतु ॥ कुत्रा॑ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो॑ नृ॒षद॑ने । अर्ह॑न्तश्चि॒द्यमि॑न्ध॒ते सं॑ज॒नय॑न्ति ज॒न्तवः॑ ॥ सं यदि॒षो वना॑महे॒ सꣳ ह॒व्या मानु॑षाणाम् । उ॒त द्यु॒म्नस्य॒ शव॑स ६३ ऋ॒तस्य॑ र॒श्मिमा द॑दे ॥ य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒ꣳ॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥ शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑ । नकि॒ष्टं २ घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ ॥ धा॒रय॑न्त आदि॒त्यासो॒ जग॒थ्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः । दी॒र्घाधि॑यो॒ रक्ष॑माणा ६४ असु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ ॥ ति॒स्रो भूमी᳚र्धारय॒न्त्रीꣳ रु॒त द्यून्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् । ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वं तद॑र्यमन्वरुण मित्र॒ चारु॑ ॥ त्यान्नु क्ष॒त्रिया॒ꣳ॒ अव॑ आदि॒त्यान्, या॑चिषाम हे । सु॒मृ॒डी॒काꣳ अ॒भिष्ट॑ये ॥ न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा । पा॒क्या॑ चिद्वसवो धी॒र्या॑ चिद् ६५ यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑रश्याम् ॥ आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन । अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ॥ इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युरा च॑ के ॥ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳ स॒ मा न॒ आयुः॒ प्र मो॑षीः ॥२.१.११॥
नामा॒ऽग्निस्सꣳ शव॑सो॒ रक्ष॑माणा धी॒र्या॑ चि॒देका॒न्न पं॑चा॒शच्च॑ ॥२.१.११॥