skipLink.label

कृष्णयजुः तैत्तिरीयसंहिता — द्वितीय काण्ड, प्रपाठक 2 (24 अनुवाकाः)

कृष्णयजुः तैत्तिरीयसंहिता — द्वितीय काण्ड, प्रपाठक 2

heading.anchorLabel

द्वितीयकाण्डे द्वितीयः प्रश्नः २


अनुवाकाः

heading.anchorLabel
अनुवाकप्रथम पद
1१ प्रजापति
1प्रजाकाम इद्राग्नी
2६ अग्नये
2व्रतपतये निशिताया
3११ अग्नये
3भ्रातृव्यस्याऽस्मिन्तेजस्वते पुरोडाशमष्टात्रिशच्च
4१५ अग्नयेऽन्नवते
4करोत्यन्नादो दधाति
5२३ वैश्वानर
5प्रजाकाम सवथ्सर
6३० आदित्य
6मृजाते निर्वरुण
7३५ ऐद्र
7इद्रियावतग्ग् स्वेन
8४० इद्रायान्वृजवे
8अपि तग्ग्
9४६ आग्नावैष्णवमेकादशकपाल
9ब्रह्मणेवैनमभि चरति
10५३ असावादित्यो
10रुद्रो भेषज
11५८ ऐद्रमेकादशकपाल
11विशमेव
12६४ हिरण्यगर्भ
12दधानो जिनोषि

१ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ताः सृ॒ष्टा इं॑द्रा॒ग्नी अपा॑गूहता॒ꣳ॒ सो॑ऽचायत्प्र॒जाप॑तिरिंद्रा॒ग्नी वै मे᳚ प्र॒जा अपा॑घुक्षता॒मिति॒ स ए॒तमैं᳚द्रा॒ग्नमेका॑दशकपालमपश्य॒त्तं निर॑वप॒त्ताव॑स्मै प्र॒जाः प्रासा॑धयतामिंद्रा॒ग्नी वा ए॒तस्य॑ प्र॒जामप॑ गूहतो॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जां न वि॒न्दत॑ ऐंद्रा॒ग्नमेका॑दशकपालं॒ निर्व॑पेत्प्र॒जाका॑म इंद्रा॒ग्नी २ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै᳚ प्र॒जां प्र सा॑धयतो वि॒न्दते᳚ प्र॒जामैं᳚द्रा॒ग्नमेका॑दशकपालं॒ निर्व॑पे॒त् स्पर्ध॑मानः॒, क्षेत्रे॑ वा सजा॒तेषु॑ वेंद्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ ताभ्या॑मे॒वेंद्रि॒यं वी॒र्यं॑ भ्रातृ॑व्यस्य वृङ्क्ते॒ वि पा॒प्मना॒ भ्रातृ॑व्येण जय॒तेऽप॒ वा ए॒तस्मा॑दिंद्रि॒यं वी॒र्यं॑ क्रामति॒ यः सं॑ग्रा॒ममु॑पप्र॒यात्यैं᳚द्रा॒ग्नमेका॑दशकपालं॒ नि ३ र्व॑पेथ्संग्रा॒ममु॑पप्रया॒स्यन्निं॑द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निंद्रि॒यं वी॒र्यं॑ धत्तः स॒हेंद्रि॒येण॑ वी॒र्ये॑णोप॒ प्र या॑ति॒ जय॑ति॒ तꣳ सं॑ग्रा॒मं वि वा ए॒ष इं॑द्रि॒येण॑ वी॒र्ये॑णर्ध्यते॒ यः सं॑ग्रा॒मं जय॑त्यैंद्रा॒ग्नमेका॑दशकपालं॒ निर्व॑पेथ्संग्रा॒मं जि॒त्वेंद्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निंद्रि॒यं वी॒र्यं॑ ४ धत्तो॒ नेंद्रि॒येण॑ वी॒र्ये॑ण॒ व्यृ॑ध्य॒तेऽप॒ वा ए॒तस्मा॑दिंद्रि॒यं वी॒र्यं॑ क्रामति॒ य एति॑ ज॒नता॑मैंद्रा॒ग्नमेका॑दशकपालं॒ निर्व॑पेज्ज॒नता॑मे॒ष्यन्निं॑द्रा॒ग्नी ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्निंद्रि॒यं वी॒र्यं॑ धत्तः स॒हेंद्रि॒येण॑ वी॒र्ये॑ण ज॒नता॑मेति पौ॒ष्णं च॒रुमनु॒ निर्व॑पेत्पू॒षा वा इं॑द्रि॒यस्य॑ वी॒र्य॑स्यानुप्रदा॒ता पू॒षण॑मे॒व ५ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॑ इंद्रि॒यं वी॒र्य॑मनु॒ प्र य॑च्छति क्षैत्रप॒त्यं च॒रुं निर्व॑पेज्ज॒नता॑मा॒गत्ये॒यं वै क्षेत्र॑स्य॒ पति॑र॒स्यामे॒व प्रति॑ तिष्ठत्यैंद्रा॒ग्नमेका॑दशकपालमु॒परि॑ष्टा॒न्निर्व॑पेद॒स्यामे॒व प्र॑ति॒ष्ठायें᳚द्रि॒यं वी॒र्य॑मु॒परि॑ष्टादा॒त्मन्ध॑त्ते ॥२.२.१॥


प्र॒जाका॑म इंद्रा॒ग्नी उ॑पप्र॒यात्यैं᳚द्रा॒ग्नमेका॑दशकपालं॒ निर्वी॒र्यं॑ पू॒षण॑मे॒वैका॒न्नच॑त्वारि॒ꣳ॒शच्च॑ ॥२.२.१॥


६ अ॒ग्नये॑ पथि॒कृते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यो द॑र्शपूर्णमासया॒जी सन्न॑मावा॒स्यां᳚ वा पौर्णमा॒सीं वा॑तिपा॒दये᳚त्प॒थो वा ए॒षोऽध्यप॑थेनैति॒ यो द॑र्शपूर्णमासया॒जी सन्न॑मावा॒स्यां᳚ वा पौर्णमा॒सीं वा॑तिपा॒दय॑त्य॒ग्निमे॒व प॑थि॒कृत॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मपथा॒त्पन्था॒मपि॑ नयत्यन॒ड्वान्दक्षि॑णा व॒ही ह्ये॑ष समृ॑द्ध्या अ॒ग्नये᳚ व्र॒तप॑तये ७ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्य आहि॑ताग्निः॒ सन्न॑व्र॒त्यमि॑व॒ चरे॑द॒ग्निमे॒व व्र॒तप॑ति॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ व्र॒तमा लं॑भयति॒ व्रत्यो॑ भवत्य॒ग्नये॑ रक्षो॒घ्ने पु॑रो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यꣳ रक्षाꣳ॑सि॒ सचे॑रन्न॒ग्निमे॒व र॑क्षो॒हण॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒द्रक्षा॒ग्॒स्यप॑ हन्ति॒ निशि॑तायां॒ निर्व॑पे॒न् ८ निशि॑ताया॒ꣳ॒ हि रक्षाꣳ॑सि प्रे॒रते॑ सं॒प्रेर्णा᳚न्ये॒वैना॑नि हन्ति॒ परि॑श्रिते याजये॒द्रक्ष॑सा॒मन॑न्ववचाराय रक्षो॒घ्नी या᳚ज्यानुवा॒क्ये॑ भवतो॒ रक्ष॑सा॒ग्॒ स्तृत्या॑ अ॒ग्नये॑ रु॒द्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेदभि॒चर॑न्ने॒षा वा अ॑स्य घो॒रात॒नूर्यद्रु॒द्रस्तस्मा॑ ए॒वैन॒मा वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑त्य॒ग्नये॑ सुरभि॒मते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यस्य॒ गावो॑ वा॒ पुरु॑षा ९ वा प्र॒मीये॑र॒न्॒ यो वा॑ बिभी॒यादे॒षा वा अ॑स्य भेष॒ज्या॑ त॒नूर्यथ्सु॑रभि॒मती॒ तयै॒वास्मै॑ भेष॒जं क॑रोति सुरभि॒मते॑ भवति पूतीग॒न्धस्याप॑हत्या अ॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेथ्संग्रा॒मे संय॑त्ते भाग॒धेये॑नै॒वैनꣳ॑ शमयि॒त्वा परा॑न॒भि निर्दि॑शति॒ यमव॑रेषां॒ विध्य॑न्ति॒ जीव॑ति॒ स यं परे॑षां॒ प्र स मी॑यते॒ जय॑ति॒ तꣳ सं॑ग्रा॒म १० म॒भि वा ए॒ष ए॒तानु॑च्यति॒ येषां᳚ पूर्वाप॒रा अ॒न्वञ्चः॑ प्र॒मीय॑न्ते पुरुषाहु॒तिर्ह्य॑स्य प्रि॒यत॑मा॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद्भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ नैषां᳚ पु॒रायु॒षोप॑रः॒ प्र मी॑यते॒ऽभि वा ए॒ष ए॒तस्य॑ गृ॒हानु॑च्यति॒ यस्य॑ गृ॒हान्दह॑त्य॒ग्नये॒ क्षाम॑वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद्भाग॒धेये॑नै॒वैनꣳ॑ शमयति॒ नास्याप॑रं गृ॒हान्द॑हति ॥२.२.२॥


व्र॒तप॑तये॒ निशि॑तायां॒ निर्व॑पे॒त्पुरु॑षाः संग्रा॒मं न च॒त्वारि॑ च ॥२.२.२॥


११ अ॒ग्नये॒ कामा॑य पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यं कामो॒ नोप॒नमे॑द॒ग्निमे॒व काम॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ कामे॑न॒ सम॑र्धय॒त्युपै॑नं॒ कामो॑ नमत्य॒ग्नये॒ यवि॑ष्ठाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒थ्स्पर्ध॑मानः॒, क्षेत्रे॑ वा सजा॒तेषु॑ वा॒ग्निमे॒व यवि॑ष्ठ॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तेनै॒वेंद्रि॒यं वी॒र्यं॑ भ्रातृ॑व्यस्य १२ युवते॒ वि पा॒प्मना॒ भ्रातृ॑व्येण जयते॒ऽग्नये॒ यवि॑ष्ठाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेदभिच॒र्यमा॑णो॒ऽग्निमे॒व यवि॑ष्ठ॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒द्रक्षाꣳ॑सि यवयति॒ नैन॑मभि॒चर᳚न्थ् स्तृणुते॒ऽग्नय॒ आयु॑ष्मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः का॒मये॑त॒ सर्व॒मायु॑रिया॒मित्य॒ग्निमे॒वायु॑ष्मन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒ १३ न्नायु॑र्दधाति॒ सर्व॒मायु॑रेत्य॒ग्नये॑ जा॒तवे॑दसे पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्भूति॑कामो॒ऽग्निमे॒व जा॒तवे॑दस॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ भूतिं॑ गमयति॒ भव॑त्ये॒वाग्नये॒ रुक्म॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्रुक्का॑मो॒ऽग्निमे॒व रुक्म॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्रुचं॑ दधाति॒ रोच॑त ए॒वाग्नये॒ तेज॑स्वते पुरो॒डाश॑ १४ म॒ष्टाक॑पालं॒ निर्व॑पे॒त्तेज॑स्कामो॒ऽग्निमे॒व तेज॑स्वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्तेजो॑ दधाति तेज॒स्व्ये॑व भ॑वत्य॒ग्नये॑ साह॒न्त्याय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒थ्सीक्ष॑माणो॒ऽग्निमे॒व सा॑ह॒न्त्य२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तेनै॒व स॑हते॒ यꣳ सीक्ष॑ते ॥२.२.३॥


भ्रातृ॑व्यस्याऽस्मि॒न्तेज॑स्वते पुरो॒डाश॑म॒ष्टात्रिꣳ॑शच्च ॥२.२.३॥


१५ अ॒ग्नयेऽन्न॑वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः का॒मये॒तान्न॑वान्थ्स्या॒मित्य॒ग्निमे॒वान्न॑वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मन्न॑वन्तं करो॒त्यन्न॑वाने॒व भ॑वत्य॒ग्नये᳚ऽन्ना॒दाय॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः का॒मये॑तान्ना॒दः स्या॒मित्य॒ग्निमे॒वान्ना॒द२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॑मन्ना॒दं क॑रोत्यन्ना॒द १६ ए॒व भ॑वत्य॒ग्नयेऽन्न॑पतये पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः का॒मये॒तान्न॑पतिः स्या॒मित्य॒ग्निमे॒वान्न॑पति॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒मन्न॑पतिं करो॒त्यन्न॑पतिरे॒व भ॑वत्य॒ग्नये॒ पव॑मानाय पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेद॒ग्नये॑ पाव॒काया॒ग्नये॒ शुच॑ये॒ ज्योगा॑मयावी॒ यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति प्रा॒णमे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये॑ १७ पाव॒काय॒ वाच॑मे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये॒ शुच॑य॒ आयु॑रे॒वास्मि॒न्तेन॑ दधात्यु॒त यदी॒तासु॒र्भव॑ति॒ जीव॑त्ये॒वैतामे॒व निर्व॑पे॒च्चक्षु॑ष्कामो॒ यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति प्रा॒णमे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये॑ पाव॒काय॒ वाच॑मे॒वास्मि॒न्तेन॑ दधाति॒ यद॒ग्नये॒ शुच॑ये॒ चक्षु॑रे॒वास्मि॒न्तेन॑ दधा १८ त्यु॒त यद्य॒न्धो भव॑ति॒ प्रैव प॑श्यत्य॒ग्नये॑ पु॒त्रव॑ते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒दिंद्रा॑य पु॒त्रिणे॑ पुरो॒डाश॒मेका॑दशकपालं प्र॒जाका॑मो॒ऽग्निरे॒वास्मै᳚ प्र॒जां प्र॑ज॒नय॑ति वृ॒द्धामिंद्रः॒ प्र य॑च्छत्य॒ग्नये॒ रस॑वतेऽजक्षी॒रे च॒रुं निर्व॑पे॒द्यः का॒मये॑त॒ रस॑वान्थ्स्या॒मित्य॒ग्निमे॒व रस॑वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒ꣳ॒ रस॑वन्तं करोति॒ १९ रस॑वाने॒व भ॑वत्यजक्षी॒रे भ॑वत्याग्ने॒यी वा ए॒षा यद॒जा सा॒क्षादे॒व रस॒मव॑ रुन्धे॒ऽग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यः का॒मये॑त॒ वसु॑मान्थ्स्या॒मित्य॒ग्निमे॒व वसु॑मन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॒ वसु॑मन्तं करोति॒ वसु॑माने॒व भ॑वत्य॒ग्नये॑ वाज॒सृते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पेथ्संग्रा॒मे संय॑त्ते॒ वाजं॒ २० वा ए॒ष सि॑सीर्षति॒ यः सं॑ग्रा॒मं जिगी॑षत्य॒ग्निः खलु॒ वै दे॒वानां᳚ वाज॒सृद॒ग्निमे॒व वा॑ज॒सृत॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ धाव॑ति॒ वाज॒ꣳ॒ हन्ति॑ वृ॒त्रं जय॑ति॒ तꣳ सं॑ग्रा॒ममथो॑ अ॒ग्निरि॑व॒ न प्र॑ति॒धृषे॑ भवत्य॒ग्नये᳚ऽग्नि॒वते॑ पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यस्या॒ग्नाव॒ग्निम॑भ्यु॒द्धरे॑यु॒र्निर्दि॑ष्टभागो॒ वा ए॒तयो॑र॒न्योऽनि॑र्दिष्टभागो॒ऽन्यस्तौ सं॒भव॑न्तौ॒ यज॑मान २१ म॒भि संभ॑वतः॒ स ई᳚श्व॒र आर्ति॒मार्तो॒र्यद॒ग्नये᳚ऽग्नि॒वते॑ नि॒र्वप॑ति भाग॒धेये॑नै॒वैनौ॑ शमयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानो॒ऽग्नये॒ ज्योति॑ष्मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒द्यस्या॒ग्निरुद्धृ॒तोऽहु॑तेऽग्निहो॒त्र उ॒द्वाये॒दप॑र आ॒दीप्या॑नू॒द्धृत्य॒ इत्या॑हु॒स्तत्तथा॒ न का॒र्यं॑ यद्भा॑ग॒धेय॑म॒भि पूर्व॑ उद्ध्रि॒यते॒ किमप॑रो॒ऽभ्यु २२ द्ध्रि॑ये॒तेति॒ तान्ये॒वाव॒क्षाणा॑नि संनि॒धाय॑ मन्थेदि॒तः प्र॑थ॒मं ज॑ज्ञे अ॒ग्निः स्वाद्योने॒रधि॑ जा॒तवे॑दाः । स गा॑यत्रि॒या त्रि॒ष्टुभा॒ जग॑त्या दे॒वेभ्यो॑ ह॒व्यं व॑हतु प्रजा॒नन्निति॒ छन्दो॑भिरे॒वैन॒ग्ग्॒ स्वाद्योनेः॒ प्र ज॑नयत्ये॒ष वाव सो᳚ऽग्निरित्या॑हु॒र्ज्योति॒स्त्वा अ॑स्य॒ परा॑पतित॒मिति॒ यद॒ग्नये॒ ज्योति॑ष्मते नि॒र्वप॑ति॒ यदे॒वास्य॒ ज्योतिः॒ परा॑पतितं॒ तदे॒वाव॑ रुन्धे ॥२.२.४॥


क॒रो॒त्य॒न्ना॒दो द॑धाति॒ यद॒ग्नये॒ शुच॑ये॒ चक्षु॑रे॒वास्मि॒न्तेन॑ दधाति करोति॒ वाजं॒ यज॑मान॒मुदे॒वास्य॒ षट्च॑ ॥२.२.४॥


२३ वै॒श्वा॒न॒रं द्वाद॑शकपालं॒ निर्व॑पेद्वारु॒णं च॒रुं द॑धि॒क्राव्ण्णे॑ च॒रुम॑भिश॒स्यमा॑नो॒ यद्वै᳚श्वान॒रो द्वाद॑शकपालो॒ भव॑ति संवथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रेणै॒वैनग्ग्॑ स्वदय॒त्यप॑ पा॒पं वर्णꣳ॑ हते वारु॒णेनै॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति दधि॒क्राव्ण्णा॑ पुनाति॒ हिर॑ण्यं॒ दक्षि॑णा प॒वित्रं॒ वै हिर॑ण्यं पु॒नात्ये॒वैन॑मा॒द्य॑म॒स्यान्नं॑ भवत्ये॒तामे॒व निर्व॑पेत्प्र॒जाका॑मः संवथ्स॒रो २४ वा ए॒तस्याशा᳚न्तो॒ योनिं॑ प्र॒जायै॑ पशू॒नां निर्द॑हति॒ योऽलं॑ प्र॒जायै॒ सन्प्र॒जां न वि॒न्दते॒ यद्वै᳚श्वान॒रो द्वाद॑शकपालो॒ भव॑ति संवथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रमे॒व भा॑ग॒धेये॑न शमयति॒ सो᳚ऽस्मै शा॒न्तः स्वाद्योनेः᳚ प्र॒जां प्र ज॑नयति वारु॒णेनै॒वैनं॑ वरुणपा॒शान्मु॑ञ्चति दधि॒क्राव्ण्णा॑ पुनाति॒ हिर॑ण्यं॒ दक्षि॑णा प॒वित्रं॒ वै हिर॑ण्यं पु॒नात्ये॒वैनं॑ २५ वि॒न्दते᳚ प्र॒जां वै᳚श्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेत् पु॒त्रे जा॒ते यद॒ष्टाक॑पालो॒ भव॑ति गायत्रि॒यैवैनं॑ ब्रह्मवर्च॒सेन॑ पुनाति॒ यन्नव॑कपालस्त्रि॒वृतै॒वास्मि॒न्तेजो॑ दधाति॒ यद्दश॑कपालो वि॒राजै॒वास्मि॑न्न॒न्नाद्यं॑ दधाति॒ यदेका॑दशकपालस्त्रि॒ष्टुभै॒वास्मि॑न्निंद्रि॒यं द॑धाति॒ यद्द्वाद॑शकपालो॒ जग॑त्यै॒वास्मि॑न् प॒शून् द॑धाति॒ यस्मि॑ञ्जा॒त ए॒तामिष्टिं॑ नि॒र्वप॑ति पू॒त २६ ए॒व ते॑ज॒स्व्य॑न्ना॒द इं॑द्रिया॒वी प॑शु॒मान्भ॑व॒त्यव॒ वा ए॒ष सु॑व॒र्गाल्लो॒काच्छि॑द्यते॒ यो द॑र्शपूर्णमासया॒जी सन्न॑मावा॒स्यां᳚ वा पौर्णमा॒सीं वा॑तिपा॒दय॑ति सुव॒र्गाय॒ हि लो॒काय॑ दर्शपूर्णमा॒सावि॒ज्येते॑ वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेदमावा॒स्यां᳚ वा पौर्णमा॒सीं वा॑ति॒पाद्य॑ संवथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रमे॒व प्री॑णा॒त्यथो॑ संवथ्स॒रमे॒वास्मा॒ उप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्या॒ २७ अथो॑ दे॒वता॑ ए॒वान्वा॒रभ्य॑ सुव॒र्गं लो॒कमे॑ति वीर॒हा वा ए॒ष दे॒वानां॒ यो᳚ऽग्निमु॑द्वा॒सय॑ते॒ न वा ए॒तस्य॑ ब्राह्म॒णा ऋ॑ता॒यवः॑ पु॒रान्न॑मक्षन्नाग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पेद्वैश्वान॒रं द्वाद॑शकपालम॒ग्निमु॑द्वासयि॒ष्यन्, यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो᳚ऽग्निर्यावा॑ने॒वाग्निस्तस्मा॑ आति॒थ्यं क॑रो॒त्यथो॒ यथा॒ जनं॑ य॒ते॑ऽव॒सं क॒रोति॑ ता॒दृ २८ गे॒व तद्द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रः खलु॒ वा अ॒ग्नेऱ्योनिः॒ स्वामे॒वैनं॒ योनिं॑ गमयत्या॒द्य॑म॒स्यान्नं॑ भवति वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेन्मारु॒तꣳ स॒प्तक॑पालं॒ ग्राम॑काम आहव॒नीये॑ वैश्वान॒रमधि॑ श्रयति॒ गार्ह॑पत्ये मारु॒तं पा॑पवस्य॒सस्य॒ विधृ॑त्यै॒ द्वाद॑शकपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः᳚ संवथ्स॒रः सं॑वथ्स॒रेणै॒वास्मै॑ सजा॒ताग्श्च्या॑वयति मारु॒तो भ॑वति २९ म॒रुतो॒ वै दे॒वानां॒ विशो॑ देववि॒शेनै॒वास्मै॑ मनुष्यवि॒शमव॑ रुन्धे स॒प्तक॑पालो भवति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑ रुन्धेऽनू॒च्यमा॑न॒ आ सा॑दयति॒ विश॑मे॒वास्मा॒ अनु॑वर्त्मानं करोति ॥२.२.५॥


प्र॒जाका॑मः संवथ्स॒रः पु॒नात्ये॒वैनं॑ पू॒तस्सम॑ष्ट्यै ता॒दृङ्मा॑रु॒तो भ॑व॒त्येका॒न्न त्रि॒ꣳ॒शच्च॑ ॥२.२.५॥


३० आ॒दि॒त्यं च॒रुं निर्व॑पेथ्संग्रा॒ममु॑पप्रया॒स्यन्नि॒यं वा अदि॑तिर॒स्यामे॒व पूर्वे॒ प्रति॑ तिष्ठन्ति वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेदा॒यत॑नं ग॒त्वा सं॑वथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रः खलु॒ वै दे॒वाना॑मा॒यत॑नमे॒तस्मा॒द्वा आ॒यत॑नाद्दे॒वा असु॑रानजय॒न्॒ यद्वै᳚श्वान॒रं द्वाद॑शकपालं नि॒र्वप॑ति दे॒वाना॑मे॒वायत॑ने यतते॒ जय॑ति॒ तꣳ सं॑ग्रा॒ममे॒तस्मि॒न्वा ए॒तौ मृ॑जाते॒ ३१ यो वि॑द्विषा॒णयो॒रन्न॒मत्ति॑ वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेद्विद्विषा॒णयो॒रन्नं॑ ज॒ग्ध्वा सं॑वथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रस्व॑दितमे॒वात्ति॒ नास्मि॑न्मृजाते संवथ्स॒राय॒ वा ए॒तौ सम॑माते॒ यौ स॑म॒माते॒ तयो॒र्यः पूर्वो॑ऽभि॒ द्रुह्य॑ति॒ तं वरु॑णो गृह्णाति वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेथ्सममा॒नयोः॒ पूर्वो॑ऽभि॒द्रुह्य॑ संवथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रमे॒वाप्त्वा नि॑र्वरु॒णं ३२ प॒रस्ता॑द॒भि द्रु॑ह्यति॒ नैनं॒ वरु॑णो गृह्णात्या॒व्यं॑ वा ए॒ष प्रति॑ गृह्णाति॒ योऽविं॑ प्रतिगृ॒ह्णाति॑ वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पे॒दविं॑ प्रति॒गृह्य॑ संवथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रस्व॑दितामे॒व प्रति॑गृह्णाति॒ नाव्यं॑ प्रति॑ गृह्णात्या॒त्मनो॒ वा ए॒ष मात्रा॑माप्नोति॒ य उ॑भ॒याद॑त्प्रतिगृ॒ह्णात्यश्वं॑ वा॒ पुरु॑षं वा वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेदुभ॒याद॑त् ३३ प्रति॒गृह्य॑ संवथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रः सं॑वथ्स॒रस्व॑दितमे॒व प्रति॑ गृह्णाति॒ नात्मनो॒ मात्रा॑माप्नोति वैश्वान॒रं द्वाद॑शकपालं॒ निर्व॑पेथ्स॒निमे॒ष्यन्थ्सं॑वथ्स॒रो वा अ॒ग्निर्वै᳚श्वान॒रो य॒दा खलु॒ वै सं॑वथ्स॒रं ज॒नता॑यां॒ चर॒त्यथ॒ स ध॑ना॒र्घो भ॑वति॒ यद्वै᳚श्वान॒रं द्वाद॑शकपालं नि॒र्वप॑ति संवथ्स॒रसा॑तामे॒व स॒निम॒भि प्र च्य॑वते॒ दान॑कामा अस्मै प्र॒जा भ॑वन्ति॒ यो वै सं॑वथ्स॒रं ३४ प्र॒युज्य॒ न वि॑मु॒ञ्चत्य॑प्रतिष्ठा॒नो वै स भ॑वत्ये॒तमे॒व वै᳚श्वान॒रं पुन॑रा॒गत्य॒ निर्व॑पे॒द्यमे॒व प्र॑यु॒ङ्क्ते तं भा॑ग॒धेये॑न॒ वि मु॑ञ्चति॒ प्रति॑ष्ठित्यै॒ यया॒ रज्ज्वो᳚त्त॒मां गामा॒जेत्तां भ्रातृ॑व्याय॒ प्र हि॑णुया॒न्निऋर्॑तिमे॒वास्मै॒ प्र हि॑णोति ॥२.२.६॥


मृ॒जा॒ते॒ नि॒र्व॒रु॒णं व॑पेदुभ॒याद॒द्यो वै सं॑वथ्स॒रग्ं षट्त्रिꣳ॑शच्च ॥२.२.६॥


३५ ऐं॒द्रं च॒रुं निर्व॑पेत्प॒शुका॑म ऐं॒द्रा वै प॒शव॒ इंद्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ प॒शून् प्र य॑च्छति पशु॒माने॒व भ॑वति च॒रुर्भ॑वति॒ स्वादे॒वास्मै॒ योनेः᳚ प॒शून् प्र ज॑नय॒तींद्रा॑येंद्रि॒याव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पेत्प॒शुका॑म इंद्रि॒यं वै प॒शव॒ इंद्र॑मे॒वेंद्रि॒याव॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ३६ ए॒वास्मा॑ इंद्रि॒यं प॒शून्प्र य॑च्छति पशु॒माने॒व भ॑व॒तींद्रा॑य घ॒र्मव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पेद्ब्रह्मवर्च॒सका॑मो ब्रह्मवर्च॒सं वै घ॒र्म इंद्र॑मे॒व घ॒र्मव॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति ब्रह्मवर्च॒स्ये॑व भ॑व॒तींद्रा॑या॒र्कव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒दन्न॑कामो॒ऽर्को वै दे॒वाना॒मन्न॒मिंद्र॑मे॒वार्कव॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नो ३७ प॑ धावति॒ स ए॒वास्मा॒ अन्नं॒ प्र य॑च्छत्यन्ना॒द ए॒व भ॑व॒तींद्रा॑य घ॒र्मव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒दिंद्रा॑येंद्रि॒याव॑त॒ इंद्रा॑या॒र्कव॑ते॒ भूति॑कामो॒ यदिंद्रा॑य घ॒र्मव॑ते नि॒र्वप॑ति॒ शिर॑ ए॒वास्य॒ तेन॑ करोति॒ यदिंद्रा॑येंद्रि॒याव॑त आ॒त्मान॑मे॒वास्य॒ तेन॑ करोति॒ यदिंद्रा॑या॒र्कव॑ते भू॒त ए॒वान्नाद्ये॒ प्रति॑ तिष्ठति॒ भव॑त्ये॒वेंद्रा॑या ३८ ऽꣳहो॒मुचे॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यः पा॒प्मना॑ गृही॒तः स्यात्पा॒प्मा वा अꣳह॒ इंद्र॑मे॒वाꣳहो॒मुच॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ पा॒प्मनोऽग्ंह॑सो मुञ्च॒तींद्रा॑य वैमृ॒धाय॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यं मृधो॒ऽभि प्र॒वेपे॑रन्रा॒ष्ट्राणि॑ वा॒भि स॑मि॒युरिंद्र॑मे॒व वै॑मृ॒ध२ꣳ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॒न्मृधो ३९ ऽप॑ ह॒न्तींद्रा॑य त्रा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालं॒ निर्व॑पेद्ब॒द्धो वा॒ परि॑यत्तो॒ वेंद्र॑मे॒व त्रा॒तार॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ त्रायत॒ इंद्रा॑यार्काश्वमे॒धव॑ते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यं म॑हाय॒ज्ञो नोप॒नमे॑दे॒ते वै म॑हाय॒ज्ञस्यान्त्ये॑ त॒नू यद॑र्काश्वमे॒धाविंद्र॑मे॒वार्का᳚श्वमे॒धव॑न्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मा॑ अन्त॒तो म॑हाय॒ज्ञं च्या॑वय॒त्युपै॑नं महाय॒ज्ञो न॑मति ॥२.२.७॥


इं॒द्रि॒यावं॑त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सो᳚र्कवं॑त॒ग्ग्॒ स्वेन॑ भाग॒धेये॑नै॒वेंद्रा॑यास्मा॒न्मृधो᳚स्मै स॒प्त च॑ ॥२.२.७॥


४० इंद्रा॒यान्वृ॑जवे पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्ग्राम॑काम॒ इंद्र॑मे॒वान्वृ॑जु॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ सजा॒ताननु॑कान्करोति ग्रा॒म्ये॑व भ॑वतींद्रा॒ण्यै च॒रुं निर्व॑पे॒द्यस्य॒ सेनासꣳ॑शितेव॒ स्यादिं॑द्रा॒णी वै सेना॑यै दे॒वतें᳚द्रा॒णीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्य॒ सेना॒ꣳ॒ स२ꣳश्य॑ति॒ बल्ब॑जा॒नपी॒ ४१ ध्मे सं न॑ह्ये॒द्गौर्यत्राधि॑ष्कन्ना॒ न्यमे॑ह॒त्ततो॒ बल्ब॑जा॒ उद॑तिष्ठ॒न्गवा॑मे॒वैनं॑ न्या॒यम॑पि॒नीय॒ गा वे॑दय॒तींद्रा॑य मन्यु॒मते॒ मन॑स्वते पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पेथ्संग्रा॒मे संय॑त्त इंद्रि॒येण॒ वै म॒न्युना॒ मन॑सा संग्रा॒मं ज॑य॒तींद्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निंद्रि॒यं म॒न्युं मनो॑ दधाति॒ जय॑ति॒ तꣳ ४२ सं॑ग्रा॒ममे॒तामे॒व निर्व॑पे॒द्यो ह॒तम॑नाः स्व॒यं पा॑प इव॒ स्यादे॒तानि॒ हि वा ए॒तस्मा॒दप॑क्रान्ता॒न्यथै॒ष ह॒तम॑नाः स्व॒यं पा॑प॒ इंद्र॑मे॒व म॑न्यु॒मन्तं॒ मन॑स्वन्त॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निंद्रि॒यं म॒न्युं मनो॑ दधाति॒ न ह॒तम॑नाः स्व॒यं पा॑पो भव॒तींद्रा॑य दा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यः का॒मये॑त॒ दान॑कामा मे प्र॒जाः स्यु॒ ४३ रितींद्र॑मे॒व दा॒तार॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒ दान॑कामाः प्र॒जाः क॑रोति॒ दान॑कामा अस्मै प्र॒जा भ॑व॒न्तींद्रा॑य प्रदा॒त्रे पु॑रो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒द्यस्मै॒ प्रत्त॑मिव॒ सन्न प्र॑दी॒येतेंद्र॑मे॒व प्र॑दा॒तार॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मै॒ प्र दा॑पय॒तींद्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒मेका॑दशकपालं॒ निर्व॑पे॒दप॑रुद्धो वा ४४ ऽपरु॒ध्यमा॑नो॒ वेंद्र॑मे॒व सु॒त्रामा॑ण॒ग्ग्॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ त्रायतेऽनपरु॒ध्यो भ॑व॒तींद्रो॒ वै स॒दृङ्गे॒वता॑भिरासी॒थ्स न व्या॒वृत॑मगच्छ॒थ्स प्र॒जाप॑ति॒मुपा॑धाव॒त्तस्मा॑ ए॒तमैं॒द्रमेका॑दशकपालं॒ निर॑वप॒त्तेनै॒वास्मि॑न्निंद्रि॒यम॑दधा॒च्छक्व॑री याज्यानुवा॒क्ये॑ अकरो॒द्वज्रो॒ वै शक्व॑री॒ स ए॑नं॒ वज्रो॒ भूत्या॑ ऐन्ध॒ ४५ सो॑ऽभव॒थ्सो॑ऽबिभेद्भू॒तः प्र मा॑ धक्ष्य॒तीति॒ स प्र॒जाप॑तिं॒ पुन॒रुपा॑धाव॒थ्स प्र॒जाप॑तिः॒ शक्व॑र्या॒ अधि॑ रे॒वतीं॒ निर॑मिमीत॒ शान्त्या॒ अप्र॑दाहाय॒ योऽलग्ग्॑ श्रि॒यै सन्थ्स॒दृङ्ख्स॑मा॒नैः स्यात्तस्मा॑ ए॒तमैं॒द्रमेका॑दशकपालं॒ निर्व॑पे॒दिंद्र॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्निंद्रि॒यं द॑धाति रे॒वती॑ पुरोऽनुवा॒क्या॑ भवति॒ शान्त्या॒ अप्र॑दाहाय॒ शक्व॑री या॒ज्या॑ वज्रो॒ वै शक्व॑री॒ स ए॑नं॒ वज्रो॒ भूत्या॑ इन्धे॒ भव॑त्ये॒व ॥२.२.८॥


अपि॒ तग्ग् स्यु॑र्वैन्ध भवति॒ चतु॑र्दश च ॥२.२.८॥


४६ आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालं॒ निर्व॑पेदभि॒ चर॒न्थ्सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र्हस्प॒त्यश्च॒रुर्यदा᳚ग्नावैष्ण॒व एका॑दशकपालो॒ भव॑त्य॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चै॒वैनं॑ य॒ज्ञेन॑ चा॒भि च॑रति॒ सर॑स्व॒त्याज्य॑भागा भवति॒ वाग्वै सर॑स्वती वा॒चैवैन॑म॒भि च॑रति बार्हस्प॒त्यश्च॒रुर्भ॑वति॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॑म॒भि च॑रति॒ ४७ प्रति॒ वै प॒रस्ता॑दभि॒चर॑न्तम॒भि च॑रन्ति॒ द्वे द्वे॑ पुरोऽनुवा॒क्ये॑ कुर्या॒दति॒ प्रयु॑क्त्या ए॒तयै॒व य॑जेताभिच॒र्यमा॑णो दे॒वता॑भिरे॒व दे॒वताः᳚ प्रति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञं वा॒चा वाचं॒ ब्रह्म॑णा॒ ब्रह्म॒ स दे॒वता᳚श्चै॒व य॒ज्ञं च॑ मध्य॒तो व्यव॑सर्पति॒ तस्य॒ न कुत॑श्च॒नोपा᳚व्या॒धो भ॑वति॒ नैन॑मभि॒चर᳚न्थ् स्तृणुत आग्नावैष्ण॒वमेका॑दशकपालं॒ निर्व॑पे॒द्यं य॒ज्ञो नो ४८ प॒नमे॑द॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो᳚ऽग्निं चै॒व विष्णुं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मै॑ य॒ज्ञं प्र य॑च्छत॒ उपै॑नं य॒ज्ञो न॑मत्याग्नावैष्ण॒वं घृ॒ते च॒रुं निर्व॑पे॒च्चक्षु॑ष्कामो॒ऽग्नेर्वै चक्षु॑षा मनु॒ष्या॑ वि प॑श्यन्ति य॒ज्ञस्य॑ दे॒वा अ॒ग्निं चै॒व विष्णुं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वा ४९ ऽस्मि॒ञ्चक्षु॑र्धत्त॒श्चक्षु॑ष्माने॒व भ॑वति धे॒न्वै वा ए॒तद्रेतो॒ यदाज्य॑मन॒डुह॑स्तण्डु॒ला मि॑थु॒नादे॒वास्मै॒ चक्षुः॒ प्र ज॑नयति घृ॒ते भ॑वति॒ तेजो॒ वै घृ॒तं तेज॒श्चक्षु॒स्तेज॑सै॒वास्मै॒ तेज॒श्चक्षु॒रव॑ रुन्ध इंद्रि॒यं वै वी॒र्यं॑ वृङ्क्ते॒ भ्रातृ॑व्यो॒ यज॑मा॒नोऽय॑जमानस्याध्व॒रक॑ल्पां॒ प्रति॒ निर्व॑पे॒द्भ्रातृ॑व्ये॒ यज॑माने॒ नास्यें᳚द्रि॒यं ५० वी॒र्यं॑ वृङ्क्ते पु॒रा वा॒चः प्रव॑दितो॒र्निर्व॑पे॒द्याव॑त्ये॒व वाक्तामप्रो॑दितां॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ ताम॑स्य॒ वाचं॑ प्र॒वद॑न्तीम॒न्या वाचोऽनु॒ प्र व॑दन्ति॒ ता इं॑द्रि॒यं वी॒र्यं॑ यज॑माने दधत्याग्नावैष्ण॒वम॒ष्टाक॑पालं॒ निर्व॑पेत्प्रातःसव॒नस्या॑का॒ले सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र्हस्प॒त्यश्च॒रुर्यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रं प्रा॑तः सव॒नं प्रा॑तः सव॒नमे॒व तेना᳚प्नो ५१ त्याग्नावैष्ण॒वमेका॑दशकपालं॒ निर्व॑पे॒न्माध्य॑न्दिनस्य॒ सव॑नस्याका॒ले सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र्हस्प॒त्यश्च॒रुर्यदेका॑दशकपालो॒ भव॒त्येका॑दशाक्षरा त्रि॒ष्टुप्त्रैष्टु॑भं॒ माध्य॑न्दिन॒ꣳ॒ सव॑नं॒ माध्य॑न्दिनमे॒व सव॑नं॒ तेना᳚प्नोत्याग्नावैष्ण॒वं द्वाद॑शकपालं॒ निर्व॑पेत्तृतीयसव॒नस्या॑का॒ले सर॑स्व॒त्याज्य॑भागा॒ स्याद्बा॑र्हस्प॒त्यश्च॒रुर्यद्द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑तं तृतीयसव॒नं तृ॑तीयसव॒नमे॒व तेना᳚प्नोति दे॒वता॑भिरे॒व दे॒वताः᳚ ५२ प्रति॒चर॑ति य॒ज्ञेन॑ य॒ज्ञं वा॒चा वाचं॒ ब्रह्म॑णा॒ ब्रह्म॑ क॒पालै॑रे॒व छन्दाग्॑स्या॒प्नोति॑ पुरो॒डाशैः॒ सव॑नानि मैत्रावरु॒णमेक॑कपालं॒ निर्व॑पेद्व॒शायै॑ का॒ले यैवासौ भ्रातृ॑व्यस्य व॒शानू॑ब॒न्ध्या॑सो ए॒वैषैतस्यैक॑कपालो भवति॒ न हि क॒पालैः᳚ प॒शुमर्ह॒त्याप्तु᳚म् ॥२.२.९॥


ब्रह्म॑णे॒वैन॑म॒भि च॑रति य॒ज्ञो न तावे॒वाऽस्यें᳚द्रि॒यमा᳚प्नोति दे॒वताः᳚ स॒प्तत्रिꣳ॑शच्च ॥२.२.९॥


५३ अ॒सावा॑दि॒त्यो न व्य॑रोचत॒ तस्मै॑ दे॒वाः प्राय॑श्चित्तिमैच्छ॒न्तस्मा॑ ए॒तꣳ सो॑मारौ॒द्रं च॒रुं निर॑वप॒न्तेनै॒वास्मि॒न्रुच॑मदधु॒ऱ्यो ब्र॑ह्मवर्च॒सका॑मः॒ स्यात्तस्मा॑ ए॒तꣳ सो॑मारौ॒द्रं च॒रुं निर्व॑पे॒थ्सोमं॑ चै॒व रु॒द्रं च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॑न्ब्रह्मवर्च॒सं ध॑त्तो ब्रह्मवर्च॒स्ये॑व भ॑वति तिष्यापूर्णमा॒से निर्व॑पेद्रु॒द्रो ५४ वै ति॒ष्यः॑ सोमः॑ पू॒र्णमा॑सः सा॒क्षादे॒व ब्र॑ह्मवर्च॒समव॑ रुन्धे॒ परि॑श्रिते याजयति ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै श्वे॒तायै᳚ श्वे॒तव॑थ्सायै दु॒ग्धं म॑थि॒तमाज्यं॑ भव॒त्याज्यं॒ प्रोक्ष॑ण॒माज्ये॑न मार्जयन्ते॒ याव॑दे॒व ब्र॑ह्मवर्च॒सं तथ्सर्वं॑ करो॒त्यति॑ ब्रह्मवर्च॒सं क्रि॑यत॒ इत्या॑हुरीश्व॒रो दु॒श्चर्मा॒ भवि॑तो॒रिति॑ मान॒वी ऋचौ॑ धा॒य्ये॑ कुर्या॒द्यद्वै किं च॒ मनु॒रव॑द॒त्तद्भे॑ष॒जं ५५ भे॑ष॒जमे॒वास्मै॑ करोति॒ यदि॑ बिभी॒याद्दु॒श्चर्मा॑ भविष्या॒मीति॑ सोमापौ॒ष्णं च॒रुं निर्व॑पेथ्सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः पौ॒ष्णाः प॒शवः॒ स्वयै॒वास्मै॑ दे॒वत॑या प॒शुभि॒स्त्वचं॑ करोति॒ न दु॒श्चर्मा॑ भवति सोमारौ॒द्रं च॒रुं निर्व॑पेत्प्र॒जाका॑मः॒ सोमो॒ वै रे॑तो॒धा अ॒ग्निः प्र॒जानां᳚ प्रजनयि॒ता सोम॑ ए॒वास्मै॒ रेतो॒ दधा᳚त्य॒ग्निः प्र॒जां प्र ज॑नयति वि॒न्दते᳚ ५६ प्र॒जाꣳ सो॑मारौ॒द्रं च॒रुं निर्व॑पेदभि॒चर᳚न्थ्सौ॒म्यो वै दे॒वत॑या॒ पुरु॑ष ए॒ष रु॒द्रो यद॒ग्निः स्वाया॑ ए॒वैनं॑ दे॒वता॑यै नि॒ष्क्रीय॑रु॒द्रायापि॑ दधाति ता॒जगार्ति॒मार्च्छ॑ति सोमारौ॒द्रं च॒रुं निर्व॑पे॒ज्ज्योगा॑मयावी॒ सोमं॒ वा ए॒तस्य॒ रसो॑ गच्छत्य॒ग्निꣳ शरी॑रं॒ यस्य॒ ज्योगा॒मय॑ति॒ सोमा॑दे॒वास्य॒ रसं॑ निष्क्री॒णात्य॒ग्नेः शरी॑रमु॒त यदी॒ ५७ तासु॒र्भव॑ति॒ जीव॑त्ये॒व सो॑मारु॒द्रयो॒र्वा ए॒तं ग्र॑सि॒तꣳ होता॒ निष्खि॑दति॒ स ई᳚श्व॒र आर्ति॒मार्तो॑रन॒ड्वान्, होत्रा॒ देयो॒ वह्नि॒र्वा अ॑न॒ड्वान्, वह्नि॒र्होता॒ वह्नि॑नै॒व वह्नि॑मा॒त्मानग्ग्॑ स्पृणोति सोमारौ॒द्रं च॒रुं निर्व॑पे॒द्यः का॒मये॑त॒ स्वे᳚ऽस्मा आ॒यत॑ने॒ भ्रातृ॑व्यं जनयेय॒मिति॒ वेदिं॑ परि॒गृह्या॒र्धमु॑द्ध॒न्याद॒र्धं नार्धं ब॒र्हिषः॑ स्तृणी॒याद॒र्धं नार्धमि॒ध्मस्या᳚भ्याद॒ध्याद॒र्धं न स्व ए॒वास्मा॑ आ॒यत॑ने॒ भ्रातृ॑व्यं जनयति ॥२.२.१०॥


रु॒द्रो भे॑ष॒जं विं॒दते॒ यदि॒ स्तृणी॒याद॒र्धं द्वाद॑श च ॥२.२.१०॥


५८ ऐं॒द्रमेका॑दशकपालं॒ निर्व॑पेन्मारु॒तꣳ स॒प्तक॑पालं॒ ग्राम॑काम॒ इंद्रं॑ चै॒व म॒रुत॑श्च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वत्याहव॒नीय॑ ऐं॒द्रमधि॑ श्रयति॒ गार्ह॑पत्ये मारु॒तं पा॑पवस्य॒सस्य॒ विधृ॑त्यै स॒प्तक॑पालो मारु॒तो भ॑वति स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒वास्मै॑ सजा॒तानव॑ रुन्धेऽनू॒च्यमा॑न॒ आ सा॑दयति॒ विश॑मे॒वा ५९ ऽस्मा॒ अनु॑वर्त्मानं करोत्ये॒तामे॒व निर्व॑पे॒द्यः का॒मये॑त क्ष॒त्राय॑ च वि॒शे च॑ स॒मदं॑ दध्या॒मित्यैं॒द्रस्या॑व॒द्यन् ब्रू॑या॒दिंद्रा॒यानु॑ ब्रू॒हीत्या॒श्राव्य॑ ब्रूयान्म॒रुतो॑ य॒जेति॑ मारु॒तस्या॑व॒द्यन् ब्रू॑यान्म॒रुद्भ्योऽनु॑ ब्रू॒हीत्या॒श्राव्य॑ ब्रूया॒दिंद्रं॑ य॒जेति॒ स्व ए॒वैभ्यो॑ भाग॒धेये॑ स॒मदं॑ दधाति वितृꣳहा॒णास्ति॑ष्ठन्त्ये॒तामे॒व ६० निर्व॑पे॒द्यः का॒मये॑त॒ कल्पे॑र॒न्निति॑ यथादेव॒तम॑व॒दाय॑ यथादेव॒तं य॑जेद्भाग॒धेये॑नै॒वैनान्॑, यथाय॒थं क॑ल्पयति॒ कल्प॑न्त ए॒वैंद्रमेका॑दशकपालं॒ निर्व॑पेद्वैश्वदे॒वं द्वाद॑शकपालं॒ ग्राम॑काम॒ इंद्रं॑ चै॒व विश्वाग्॑श्च दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वत्यैं॒द्रस्या॑व॒दाय॑ वैश्वदे॒वस्याव॑द्ये॒दथैं॒द्रस्यो॒ ६१ परि॑ष्टादिंद्रि॒येणै॒वास्मा॑ उभ॒यतः॑ सजा॒तान्परि॑ गृह्णात्युपाधा॒य्य॑पूर्वयं॒ वासो॒ दक्षि॑णा सजा॒ताना॒मुप॑हित्यै॒ पृश्नि॑यै दु॒ग्धे प्रैय॑ङ्गवं च॒रुं निर्व॑पेन्म॒रुद्भ्यो॒ ग्राम॑कामः॒ पृश्नि॑यै॒ वै पय॑सो म॒रुतो॑ जा॒ताः पृश्नि॑यै प्रि॒यङ्ग॑वो मारु॒ताः खलु॒ वै दे॒वत॑या सजा॒ता म॒रुत॑ ए॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ सजा॒तान् प्र य॑च्छन्ति ग्रा॒म्ये॑व भ॑वति प्रि॒यव॑ती याज्यानुवा॒क्ये॑ ६२ भवतः प्रि॒यमे॒वैनꣳ॑ समा॒नानां᳚ करोति द्वि॒पदा॑ पुरोऽनुवा॒क्या॑ भवति द्वि॒पद॑ ए॒वाव॑ रुन्धे॒ चतु॑ष्पदा या॒ज्या॑ चतु॑ष्पद ए॒व प॒शूनव॑ रुन्धे देवासु॒राः संय॑त्ता आस॒न् ते दे॒वा मि॒थो विप्रि॑या आस॒न्ते᳚१ऽ॒न्यो᳚ऽन्यस्मै॒ ज्यैष्ठ्या॒याति॑ष्ठमानाश्चतु॒र्धा व्य॑क्रामन्न॒ग्निर्वसु॑भिः॒ सोमो॑ रु॒द्रैरिंद्रो॑ म॒रुद्भि॒र्वरु॑ण आदि॒त्यैः स इंद्रः॑ प्र॒जाप॑ति॒मुपा॑धाव॒त्त ६३ मे॒तया॑ सं॒ज्ञान्या॑याजयद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर॑वप॒थ्सोमा॑य रु॒द्रव॑ते च॒रुमिंद्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं॒ वरु॑णायादि॒त्यव॑ते च॒रुं ततो॒ वा इंद्रं॑ दे॒वा ज्यैष्ठ्या॑या॒भि सम॑जानत॒ यः स॑मा॒नैर्मि॒थो विप्रि॑यः॒ स्यात्तमे॒तया॑ सं॒ज्ञान्या॑ याजयेद॒ग्नये॒ वसु॑मते पुरो॒डाश॑म॒ष्टाक॑पालं॒ निर्व॑पे॒थ्सोमा॑य रु॒द्रव॑ते च॒रुमिंद्रा॑य म॒रुत्व॑ते पुरो॒डाश॒मेका॑दशकपालं॒ वरु॑णायादि॒त्यव॑ते च॒रुमिंद्र॑मे॒वैनं॑ भू॒तं ज्यैष्ठ्या॑य समा॒ना अ॒भि सं जा॑नते॒ वसि॑ष्ठः समा॒नानां᳚ भवति ॥२.२.११॥


विश॑मे॒व ति॑ष्ठंत्ये॒तामे॒वाथैं॒द्रस्य॑ याज्यानुवा॒क्ये॑ तं वरु॑णाय॒ चतु॑र्दश च ॥२.२.११॥


६४ हि॒र॒ण्य॒ग॒र्भ आपो॑ ह॒ यत् प्रजा॑पते । स वे॑द पु॒त्रः पि॒तर॒ꣳ॒ स मा॒तर॒ꣳ॒ स सू॒नुर्भु॑व॒थ्स भु॑व॒त्पुन॑र्मघः । स द्यामौर्णो॑द॒न्तरि॑क्ष॒ꣳ॒ स सुवः॒ स विश्वा॒ भुवो॑ अभव॒थ्स आभ॑वत् ॥ उदु॒ त्यं चि॒त्रम् ॥ स प्र॑त्न॒वन्नवी॑य॒साग्ने᳚ द्यु॒म्नेन॑ सं॒यता᳚ । बृ॒हत्त॑तन्थ भा॒नुना᳚ ॥ नि काव्या॑ वे॒धसः॒ शश्व॑तस्क॒र्हस्ते॒ दधा॑नो॒ ६५ नर्या॑ पु॒रू णि॑ । अ॒ग्निर्भु॑वद्रयि॒पती॑ रयी॒णाꣳ स॒त्रा च॑क्रा॒णो अ॒मृता॑नि॒ विश्वा᳚ ॥ हिर॑ण्यपाणिमू॒तये॑ सवि॒तार॒मुप॑ ह्वये । स चेत्ता॑ दे॒वता॑ प॒दम् ॥ वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यꣳ॑ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ॥ बडि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि । प्र या भू॑मि प्रवत्वति म॒ह्ना जि॒नोषि॑ ६६ महिनि ॥ स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ष्टोभन्त्य॒क्तुभिः॑ । प्र या वाजं॒ न हेष॑न्तं पे॒रुमस्य॑स्यर्जुनि ॥ ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये᳚द्धर्यश्व पी॒तः । अ॒यं यः सोमो॒ न्यधा᳚य्य॒स्मे तस्मा॒ इंद्रं॑ प्र॒तिर॑मे॒म्यच्छ॑ ॥ आपा᳚न्तमन्युस्तृ॒पल॑ प्रभर्मा॒ धुनिः॒ शिमी॑वा॒ञ्छरु॑माꣳ ऋजी॒षी । सोमो॒ विश्वा᳚न्यत॒सा वना॑नि॒ नार्वागिंद्रं॑ प्रति॒माना॑नि देभुः ॥ प्र ६७ सु॑वा॒नः सोम॑ ऋत॒युश्चि॑के॒तेंद्रा॑य॒ ब्रह्म॑ ज॒मद॑ग्नि॒रर्चन्न्॑ । वृषा॑ य॒न्तासि॒ शव॑सस्तु॒रस्या॒न्तर्य॑च्छ गृण॒ते ध॒र्त्रं दृꣳ॑ह ॥ स॒बाध॑स्ते॒ मदं॑च शुष्म॒यं च॒ ब्रह्म॒ नरो᳚ ब्रह्म॒कृतः॑ सपर्यन्न् । अ॒र्को वा॒ यत्तु॒रते॒ सोम॑चक्षा॒स्तत्रेदिंद्रो॑ दधते पृ॒थ्सु तु॒र्याम् ॥ वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् । ६८ वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ प्रतत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शꣳ॑सामि व॒युना॑नि वि॒द्वान् । तं त्वा॑ गृणामि त॒वस॒मत॑वीया॒न् क्षय॑न्तम॒स्य रज॑सः परा॒के ॥ किमित्ते॑ विष्णो परि॒चक्ष्यं॑ भू॒त् प्र यद्व॑व॒ क्षे शि॑पिवि॒ष्टो अ॑स्मि । मा वर्पो॑ अ॒स्मदप॑ गूह ए॒तद्यद॒न्यरू॑पः समि॒थे ब॒भूथ॑ ॥ ६९ अग्ने॒ दा दा॒शुषे॑ र॒यिं वी॒रव॑न्तं॒ परी॑णसम् । शि॒शी॒हि नः॑ सूनु॒मतः॑ ॥ दा नो॑ अग्ने श॒तिनो॒ दाः स॑ह॒स्रिणो॑ दु॒रो न वाज॒ग्ग्॒ श्रुत्या॒ अपा॑ वृधि । प्राची॒ द्यावा॑पृथि॒वी ब्रह्म॑णा कृधि॒ सुव॒र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतुः ॥ अ॒ग्निर्दा॒ द्रवि॑णं वी॒रपे॑शा अ॒ग्निरृषिं॒ यः स॒हस्रा॑ स॒नोति॑ । अ॒ग्निर्दि॒वि ह॒व्यमात॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ॥ मा ७० नो॑ मर्धी॒रा तू भ॑र ॥ घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर॑ण्यम् । तत्ते॑ रु॒क्मो न रो॑चत स्वधावः । उ॒भे सु॑श्चंद्र स॒र्पिषो॒ दर्वी᳚ श्रीणीष आ॒सनि॑ । उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इषग्ग्॑ स्तो॒तृभ्य॒ आ भ॑र ॥ वायो॑ श॒तꣳ हरी॑णां यु॒वस्व॒ पोष्या॑नाम् । उ॒त वा॑ ते सह॒स्रिणो॒ रथ॒ आ या॑तु॒ पाज॑सा ॥ प्र याभि॒ ७१ र्यासि॑ दा॒श्वाꣳ स॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे । नि नो॑ र॒यिꣳ सु॒भोज॑सं युवे॒ह नि वी॒रव॒द्गव्य॒मश्वि॑यं च॒ राधः॑ ॥ रे॒वती᳚र्नः सध॒माद॒ इंद्रे॑ सन्तु तु॒विवा॑जाः । क्षु॒मन्तो॒ याभि॒र्मदे॑म ॥ रे॒वाꣳ इद्रे॒वतः॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोनः॑ । प्रे दु॑ हरिवः श्रु॒तस्य॑ ॥२.२.१२॥


दधा॑नो जि॒नोषि॑ देभुः॒ प्र ह॒व्यं ब॒भूथ॒ मा याभि॑श्चत्वारि॒ꣳ॒शच्च॑ ॥२.२.१२॥