मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

प्रथमः पटलः

3
आपस्तम्बगृह्यसूत्रम् · 1

प्रथमः खण्डः

अथ कर्माण्याचाराद्यानि गृह्यन्ते

॥१॥

उदगयनपूर्वपक्षाहःपुण्याहेषु कार्याणि

॥२॥

यज्ञोपवीतिना

॥३॥

प्रदक्षिणम्

॥४॥

पुरस्तादुदग्वोपक्रमः

॥५॥

तथाऽपवर्गः

॥६॥

अपरपक्षे पित्र्याणि

॥७॥

प्राचीनावीतिना

॥८॥

प्रसव्यम्

॥९॥

दक्षिणतोऽपवर्गः

॥१०॥

निमित्तावेक्षाणि नैमित्तिकानि

॥११॥

अग्निमिध्वा प्रागग्रैर्दर्भैरग्निं परिस्तृणाति

॥१२॥

प्रागुदगग्रैर्वा

॥१३॥

दक्षिणाग्रैः पित्र्येषु

॥१४॥

दक्षिणाप्रागग्रैर्वा

॥१५॥

उत्तरेणाग्निं दर्भान्त्संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति देवसंयुक्तानि

॥१६॥

सकृदेव मनुष्यसंयुक्तानि

॥१७॥

एकैकशः पितृसंयुक्तानि

॥१८॥

पवित्रयोस्संस्कार आयामतः परीमाणं प्रोक्षणीसंस्कारः पात्रप्रोक्ष इति दर्शपूर्णमासवत्तूष्णीम्

॥१९॥

अपरेणाग्निं पवित्रान्तर्हिते पात्रेऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूय समं प्राणैर्हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैः प्रच्छाद्य

॥२०॥

ब्राहमणं दक्षिणतो दर्भेषु निषाद्य

॥२१॥

आज्यं विलाप्यापरेणाग्निं पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्योदीचोऽङ्गारान्निरूह्य तेष्वधिश्रित्य ज्वलताऽवद्युत्य द्वे दर्भाग्रे प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्याङ्गारान्प्रत्यूह्योदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय पवित्रे अनुप्रहृत्य

॥२२॥

द्वितीयः खण्डः

येन जुहोति तदग्नौ प्रतितप्य दर्भैः संमृज्य पुनः प्रतितप्य प्रोक्ष्य निधाय दर्भानद्भिस्संस्पृश्याग्नौ प्रहरति

॥१॥

शम्याः परिध्यर्थे विवाहोपनयनसमावर्तनसीमन्तचौलगोदानप्रायश्चित्तेषु

॥२॥

अग्निं परिषिञ्चत्यदितेऽनुमन्यस्वेति दक्षिणतः प्राचीनमनुमतेऽमुमन्यस्वेति पश्चादुदीचीनं सरस्वतेऽनुमन्यस्वेत्युत्तरतः प्राचीनं देव सवितः प्रसुवेति समन्तम्

॥३॥

पैतृकेषु समन्तमेव तूष्णीम्

॥४॥

इध्ममाधायाघारावाघारयति दर्शपूर्णमासवत्तृष्णीम्

॥५॥

अथाज्यभागौ जुहोत्यग्नये स्वाहेत्युत्तरार्धपूर्वार्धे सोमाय स्वाहेति दक्षिणार्धपूर्वार्धे समं पूर्वेण

॥६॥

यथोपदेशं प्रधानाहुतीर्हुत्वा जयाभ्यातानान्राष्ट्रभृतः प्राजापत्यां व्याहृतीर्विहृताः सौविष्टकृतीमित्युपजुहोति यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टकृत्स्विष्टकृद्विद्वान्त्सर्वँ स्विष्टं सुहुतं करोतु स्वाहेति

॥७॥

पूर्ववत्परिषेचनमन्वमँ स्थाः प्रासावीरिति मन्त्रसन्नामः

॥८॥

लौकिकानां पाकयज्ञशब्दः

॥९॥

तत्र ब्राह्मणावेक्षो विधिः

॥१०॥

द्विर्जुहोति द्विर्निमार्ष्टि द्विः प्राश्नात्युत्सृत्याचामति निर्लेढीति

॥११॥

सर्वऋतवो विवाहस्य शैशिरौ मासौ परिहाप्योत्तमं च नैदाघम्

॥१२॥

सर्वाणि पुण्योक्तानि नक्षत्राणि

॥१३॥

तथा मङ्गलानि

॥१४॥

आवृतश्चास्त्रीभ्यः प्रतीयेरन्

॥१५॥

इन्वकाभिः प्रसृज्यन्ते ते वराः प्रतिनन्दिताः

॥१६॥

तृतीयः खण्डः

मघाभिर्गावो गृह्यन्ते

॥१॥

फल्गुनीभ्यां व्यूह्यते

॥२॥

यां कामयेत दुहितरं प्रिया स्यादिति तां निष्ट्यायां दद्यात् प्रियैव भवति नेव तु पुनरागच्छतीति ब्राह्मणवेक्षो विधिः

॥३॥

इन्वकाशब्दो मृगशिरसि

॥४॥

निष्ट्याशब्दस्स्वातौ

॥५॥

विवाहे गौः

॥६॥

गृहेषु गौः

॥७॥

तया वरमतिथिवदर्हयेत्

॥८॥

योऽस्यापचितस्तमितरया

॥९॥

एतावद्गोरालम्भनमतिथिः पितरो विवाहश्च

॥१०॥

सुप्तां रुन्दन्तीं निष्क्रान्तां वरणे परिवर्जयेत्

॥११॥

दत्तां गुप्तां द्योतामृषभां शरभां विनतां विकटां मुण्डां मण्डूषिकां साङ्कारिकां रातां पालीं मित्रां स्वनुजां वर्षकारीं च वर्जयेत्

॥१२॥

नक्षत्रनामा नदीनामा वृक्षनामाच गर्हिताः

॥१३॥

सर्वाश्च रेफलकारोपान्ता वरणे परिवर्जयेत्

॥१४॥

शक्तिविषये द्रव्याणि प्रतिच्छन्नान्युपनिधाय ब्रूयादुपस्पृशेति

॥१५॥

नाना बीजानि संसृष्टानि वेद्याः पांसून् क्षेत्राल्लोष्टं शकृच्छ्मशानलोष्टमिति

॥१६॥

पूर्वेषामुपस्पर्शने यथालिङ्गमृद्धिः

॥१७॥

उत्तमं परिचक्षते

॥१८॥

बन्धुशीललक्षणसम्पन्नामरोगामुपयच्छेत

॥१९॥

बन्धुशीललक्षणसम्पन्नश्श्रुतवानरोग इति वरसम्पत्

॥२०॥

यस्यां मनश्चक्षुषोर्निबन्धस्तस्यामृद्धिर्नेतरदाद्रियेतेत्येके

॥२१॥